SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३५५ (या) प्रति कर्तृता? नहि समानकालयोः सव्येतरगोविषाणयोरिव हेतुफलभावः । अथ बोधोत्तरकाल. भाविनी क्रिया तथापि यदा ज्ञानसत्ता न तदा संविक्रिया यदा तु संवेदनक्रिया प्रतिभाति न तदा ज्ञानप्रतिभास इति कथं हेतुफलभावः? न च पूर्व स्वरूपेण वोधः प्रतिभातः पश्चात् नयनादिसामग्रीवशात् संवेदनक्रियायुक्तो भातीति कर्ताऽसाविति वक्तव्यम् यतो यदा संविक्रियायुक्तो बोधः प्रतीयते न तदा तत्पूर्वदशावगमः यदा च तदवगमः न तदा संविद्युक्तावस्थाधिगतिरिति न पूर्वापरका-५ लावगतिस्तयोरवस्थयोः तदभावे च कथं बोधस्य ग्रहणं प्रति कर्तृताप्रतीतिः? अथ नीलानुभवसमये पूर्वदशां स्मरन् बोधस्यानुभवं प्रति कर्तृतां प्रतिपद्यते, अयुक्तमेतत् ; नीलपरिच्छेदकाले बोध-ग्रहणयोः परस्पराऽसंसक्तयोः समानकालयोः प्रतिभासनात् कर्तृतावगमासम्भवात् । न च बोधस्य पूर्वावस्थामध्यवस्था(स्य)दपि स्मरणं ग्रहणावस्था(स्थां) प्रतिपद्यत इति कथं तत् कर्तृतामुद्द्योतयितुं प्रभुः(भु)? न च बोधात्मैवात्मानमुपलभत इति कर्तृताचगतिः यतो यदा नीलग्राहकमात्मानं बोधः प्रतिपा(प).१० द्यते न तदा पूर्वसत्तामनुभवकी(त्री) प्रतिपद्यत इति कथं ग्रहणं प्रति जनकतामात्मनोऽसावधिगच्छति? न च प्राक्तनीमग्रहणावस्था(स्थां) नीलाऽवभासकालेऽसावध्यवसा(वस्यति) प्रतिभासयोः युगपद्विरुद्धयोरापत्तेः तस्मात् समानकाले(लो) बोधो न ग्रहणक्रियामुपजनयितुं समर्थ इत्यग्राहक एव। किञ्च, यदि वोधो व्यतिरिक्तां ग्रहणक्रियामुपरचयति नीलस्य किमायातं येन तद् ग्राह्यं भवेत् १५ विज्ञानं तबाहकमिति । न च संविदुत्पत्तावपरोक्षतया नीलमाभातीति ग्राह्यं संविदुत्पादेऽपि तस्याप्रकाशात्मकस्य प्रतिभासायोगात् । तथाहि-नीलादिरों जडरूपत्वात् न स्वयं प्रतिपत्तिगोचरताम वतरतीति दर्शनं प्रकाशकमस्याभ्युपगतम् , यदि पुनः स्वप्रकाशात्मकं नीलं स्यात् तदा 'विज्ञप्तिरूपं नीलम्' इति परवाद एवाभ्युपगतो भवेत् । यच्चाप्रकाशात्मकं वस्तु तत् प्रकाशसद्भावेऽपि नैव प्रकाशते यतो न प्रकाशात्मा नीलं सङ्कामति भेदप्रतिहतिप्रसङ्गात् । न चार्थाकारकार्यतया प्रकाश-२० स्यार्थस्य प्रत्यक्षता, यतोऽपरोक्षाकाररूपत्वे तस्य प्रत्यक्षता युक्ता यथा नीलस्वभावंतायां नीलस्य नीलरूपता न तु प्रकाशात्मनं(नः) कार्यस्योद्भूतेः अर्थकार्यतया हि तत्सम्बन्धिता प्रकाशस्य सङ्गता यथा नयनकार्यतया तत्सम्बन्धिता न तु तत्स्वरूपं प्रकाशः। अथेन्द्रियाणां ज्ञाने स्वरूपाऽनर्पणाद(दप्रत्यक्षता अर्थस्य तु तत्र स्वरूपपरिच्छेदात् प्रत्यक्षता, असदेतत् ; अर्थस्य प्रत्यक्षस्वरूपासम्भवात् येतो न नीलादेः स्वरूपं बहिरुन्मुखताऽप्रतीतिः(?)अथाप्यपरा बहिरुन्मुखता तत्रास्ति तथापि स्वरूप-२५ मात्रनिमग्ना प्रतिभासमानमूर्तिः सा तृतीया सिद्धेति न तद्वशाद् बोधस्य ग्राहकता सिंद्धो(द्धा) तन्न नील-संविदोस्तुल्यकालं प्रतिभासनादपरव्यापाराभावतःस्वस्वरूपनिमग्नयोर्वेद्यवेदक(कता)न चनीलतत्संवेदनद्वयस्य स्वरूपनिमग्नस्य स्वतन्त्रतयावभासने तदुत्तरकालभावी कर्म-कत्रभिनिवेशी 'नीलमहं वेद्मि' इत्यवसायो न स्यात नहि पीतदर्शने नीलोल्लेख उपजायमानः संलक्ष्यते भवति च तथाध्यवसायी विकल्प इति तयोािग्राहकतेति वाच्यम्, मिथ्यारूपकल्पनया ग्राह्यग्राहकरूपतायाः परि-३० च्छेदासम्भवात् । तथाहि-'नीलम्' इति प्रतीतिः पुरोवर्ति नीलमुल्लिखन्ती वर्तमानदर्शनानुसारिणी भिन्ना लक्ष्यते, 'अहम्' इत्यात्मानं व्यवस(स्य)न्ती स्वानुभवायत्ता लक्ष्यपरा प्रतीयते, 'वेद्मि' इति प्रतीतिरप्यपरैव क्रियाव्यवसितिरूपा परस्पराऽव्यतिमिश्रसंवित्तित्रितया(य)मेतत् । नातः कर्म-कर्तृ-क्रियाव्यवस्था। भवतु वैकेयं कल्पनाप्रतीतिः कर्म-कर्तृ-क्रियाव्यवसायिनी तथापि नातो ग्राह्य-ग्राहकता सत्या, ३५ मृगतृष्णिकासु जलाध्यवसायाजलसत्यताप्रसक्तेः । न चात्र बाधातोऽसत्यता प्रकृतेऽप्यस्य समानत्वात् । तथाहि-कल्पनोल्लिख्यमानस्य कर्म-कर्तृभावस्य नील-संविदोः स्वतन्त्रतया निर्भासोऽस्त्येव बाधक इति कथं न ग्राह्यग्राहकभावोऽसत्यः? किञ्च,भ्रान्तेऽपि प्रत्यये ग्राह्यग्राहकतोल्लेखे(खो) दृश्यते, १-स्तयोस्तदव-भां० मा०। २-वसाद-आ. विना। ३-साति भा-वा० बा०। ४ तत् तस्याआ० हा० वि०। ५-क प्र-वा० बा०। ६-भा यो-आ० । ७ पराह वाद-वा० बा०। ८-वतयां वा० बा०। ९-काशोत्मन का-वा. बा० ।-काशात्मकं नं का-हा. वि.। १० ननु त-वा. बा. आ० । ११ यतो नी-वा. बा. विना। १२ सिद्धौ त-वा. बा. विना। १३-द्यतोदक-वा. बा.। १४-त्तित्वतायामेतत् भां० मा० हा० वि०।-त्तित्वताया मतव नात क-आ०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy