SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । ] इति मवत् कार्योत्पत्तिकाल एव कारणविनाशस्तदा कार्यकारणभावो न भवेत् यतः [?? कारणस्य विनाशः कारणोत्पाद एव नाशः??] इति वचनात् एवं च कारणेन सह कार्यमुत्पन्नमिति प्राप्तम् । यदि च स एव नाशः प्रथमेऽपि क्षणे न सत्ता भावस्य स्यात् विनाशात् तदैव लोके च भावनिवृत्तिविनाशः प्रतीतः न भाव एव, सर्वकालं च विनाशसम्भवात् सर्वदा भावस्य सत्त्वं स्यात् । अथ कारणोत्पादात् कारणवि(?)नाशो भिन्नस्तदा कृतकत्वस्वभावत्वमनित्यत्वस्य न भवे(वेत्) ५ व्यतिरिक्ते च नाशे समुत्पन्ने न भावस्य निवृत्तिरिति कथं क्षणिकत्वम्" [ ] इति, तन्निरस्तम् । यतो द्विविधो विनाशः-सांव्यवहार्यः तात्त्विकश्च । भावनिवृत्तिरूपः पः प्रथमः, भावरूपश्च द्वितीयः । ततो(?)त्पन्नो भावः कार्य करोति, कार्यकाले च कारणनिवृत्तिरूपो विनाशो लोकप्रतीत एव, नायं भावस्वभावं इष्यते, नापि कारणोत्पादादमिन्नो वा नीरूपत्वात् । भेदाभेदप्रतिषेध एव केवलस्य क्रियते । उक्तं च "भावे ह्येक(ष) विकल्पः स्याद्विधेव(व)स्तु(स्त्व)नुरोध(धतः)।" [ न व्यतिरिक्ते नाशे जाते क्षणरूपस्य भावस्यानिवृत्तिरित्यपास्तम् । यतश्च द्वितीयक्षणोत्पत्तिकाल एव प्रथमक्षणनिवृत्तिः तेनैकक्षणस्थायी भावो 'विनाश'शब्देनोच्यते, अयं च भावरूपत्वात् साधनस्वभाव एव विनाशः कार्योत्पत्तिकाले च निवर्तत इति कार्यभिन्नकालभावी। न च सर्वकालमस्य सद्भावः भावस्यासत्त्वात्, यद् वा विनश्वरोऽयं भावः 'विनाशोऽस्य' इति द्वाभ्यां धर्मि-ध-१५ र्मवाचकाभ्यां अविनाशिव्यावृत्तस्यैवैकस्य भावस्य भेदान्तरप्रतिक्षेपाभ्यामभिधानाद् भाव एव नाश उच्यत इति । यत् पुनरिदमभिहितम् 'विधिरूपेण क्षणिकताऽत्र साधयितुं प्रस्तुतेति प्रतिषेधसा. धिकाया अनुपलब्धेरिहानधिकार इति, तत् लिङ्गव्यापारविषयानभिज्ञा(ज्ञ)ताख्यापनम्। यतो ने लिङ्गं विधिमुखेन किञ्चित प्रवर्तते सर्वस्य समारोपव्यवच्छेदसाधकत्वेनैव व्यापारादिति कार्य-स्वभावहेत्वोरपि नानुपलब्धिरूपताव्यतिक्रमः तेन परमार्थतः अनुपलब्धिरेवैको हेतुरिति २० सुगतसुताभ्युपगतः (मः)। १ एव एव नाशः वा. बा० । एव व नाशः वि.। २ प्राप्त यदि व भास एव नाशः आ० विना। ३-वृत्तिविना-आ. विना। ४ प्रतीतो भाव-वा. बा. विना। ५-स्य संत्वं भां० मां०।-स्य सत्व स्या-आ० हा० वि० । ६ “तदत्र कतमं नाशं परे पर्यनुयुजते । किं क्षणस्थितिधर्माणं भावमेव तथोदितम् ॥ अथ भावस्वरूपस्य निवृत्तिं ध्वंससंज्ञिताम् । पूर्वपर्यु(य)नुयोगे हि नैव किश्चिद् विरुध्यते ॥ द्विविधो हि विनाशो विधेः प्रतिषेधलक्षणः xooox यद्वा भावखभावप्रच्युतिलक्षणप्रध्वंसापरनामा विनशनं विनाश इति"-तत्त्वसं. का. ३७३-३७४ तथा तत्त्वसं० पजि. पृ. १३७ पं० २२। "अयं भावः-द्विविधो ह्यस्माकं विनाशः सांव्यवहार्यः तात्त्विकश्च । आद्यो भावनिवृत्तिरूपः। द्वितीयश्च भावरूपः। तत्र कार्यकाले कारणनिवृत्तिकल्पे आद्यमेव नाशमवलम्बते । वस्तुव्यवस्थापकस्त्वाद्य एव । एतेन 'कार्योत्पत्तिकाल एव कारणविनाशाभ्युपगमे कारणोत्पादरूपत्वात् तस्य सहभावेन कार्यकारणभावव्यवस्थोत्सीदेत् कारणोत्पादात कारणविनाशस्य भिन्नत्वाभ्युपगमे च कृतकत्वखभावत्वमनित्यत्वस्य न भवेत् , व्यतिरिक्त च नाशे समुत्पन्ने न भावस्य निवृत्तिः इति कथं क्षणिकत्वम्"-शास्त्रवा० स्याद्वादक. पृ० १२१ द्वि. पं० ९-पृ० १२२ प्र. पं० १। ७ तात्त्विक एव-वा. बा. विना। ८-थम भा-वा. बा. विना। ९ भावः भावरूप इति ततोत्पत्तो भावः वा. बा०। १०-वस्वभाव इ-वा० बा०। ११ भावः ह्ये-वा० बा० । श्लोकोऽयं धर्मकीर्तिसूरेञ्जयते । तथाहि "एतेनैतत् प्रतिक्षिप्तं यदुक्तं न्यायमानिना-न तत्र किञ्चिद् भवति न भवत्येव केवलम्" ॥३२॥ "भावे ह्येष विकल्पः स्यात् विधेर्वस्त्वनुरोधतः । न भावो भवतीत्युक्तमभावो भवतीत्यपि” ॥३३॥ -शास्त्रवा० स्त० ४ पृ० १२७ । "न्यायमानिना तर्कावलिप्तेन धर्मकीर्तिना"-शास्त्रवा०स्याद्वादक. पृ० १२७ द्वि०पं०५। "न तस्य किञ्चिद् भवति न भवत्येव केवलम्"-आप्तमीमा० प०३ श्लो० ५३ अष्टश. पृ. २८५० ३० । अष्टस० पृ. २०. पं. १३। १२ जायतेऽक्ष-वा० बा०। १३ द्वितीयक्षणोत्पत्तिस्तेनैकक्षणनिवत्तिऽभावोविनाशशब्देनोच्येत वा० बा०। १४ च निर्वर्त्त-वा० बा०। १५ कार्य भि-वा. वा०। १६ भाव वि-आ०। १५ त्तस्य चैकस्य वा० बा० विना। १८ पृ० ३१८ पं० २०। १९ न लिङ्ग विधिमखेन भां. मां० आ०।न लिङ्ग वै मुख्येन वा. बा। ४३ स० त.
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy