SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३२१ घटेन्धनपयसां समासादितविकाराणामवस्थान्तरमेव ध्वंसं मन्यन्ते येऽप्यनुपजातविकाराः प्रदीप-बुद्ध्यादयो ध्वंसमालम्बन्ते तेऽप्यव्यक्तरूपतामात्मस्वभावतां च विकारमेव ध्वंसमासादयन्ति यथा नोपलम्भव्यावृत्तिरेवानुपलम्भः परेषां किन्तु विवक्षितोपलम्भादन्यः पर्युदासवृत्त्योपलम्भ एव तथा भावातिरेकेणाभावस्यासंवेद्यत्वाद् भाव एव(वा)भावः। विशे(वैशेषिकास्तु मन्यन्ते भवत्वनपेक्षितभावान्तरसंसर्गः प्रच्युतिमात्रमेव प्रध्वंसाभावस्तथापि तत्र हेतुमत्ता न विरोधमनुभवति । ५ तथाहि ""सं(सन् ) बोधगोचरप्राप्तस्तद्भावे नोपलभ्यते। नस्या(नश्यन् ) भावः कथं तस्य न नाशः कार्यतामियात्" ? ॥ [ ] इति । कारणाधीनः पदार्थेषु प्रध्वंस इति तद्धेतुसन्निधानात् प्रागनासादितविनाशं(श)सङ्गतयो भावा इत्यनुमानादक्षणिकत्वसिद्धेर्न क्षणक्षयिता तेषामभ्युपगन्तुं युक्तेति । [ उत्तरपक्षः-बौद्धैः क्षणभङ्गस्य साधनम् ] अत्र प्रतिविधीयते यदुक्तंम्-'नाध्यक्षतः क्षणिकतावगमः' इति, तत्र यथा अध्यक्षमेव क्षणविशरारुतां भावानामवगमयति तथा प्रतिपादितं प्राक् वेदान्तवादिमतनिराकरणं कुर्वद्भिः। यदपि 'नानुमानतोऽपि तत्सिद्धि (द्धिः) सामान्यविशेपलक्षणायोगात् लिङ्गस्य' इति, तदसङ्गतमेवैः यतः 'सपक्षे सत्त्वम्' इत्यादिना स्वसाध्यप्रतिबिम्ब (बन्ध) एव हेतो निश्चितोऽभिधीयते न दर्शनादर्श-१५ नमात्रम् सपक्ष-विपक्षयोर्हेतुभावाभावयोः सर्वत्र निश्चयायोगात्-नहि पार्थिवत्वादी दर्शनादर्शन योः (??)सतोरप्यन्वयनिश्चय इति कृतकत्वादावपि स न स्यात् । तथाहि-बहुलम चारस्यापि केनचिदसति प्रतिबन्धे सर्वत्र सर्वस्य न तथा भावावगमो नियमनिबन्धनाभावात् ने या सर्वदर्शनाव्यौप्यसपक्षविपर्ययो हेतोर्भावाभावी ग्रहीतुं शक्यौ (??) यतो न हेतुमन्तः सर्व एव भावाः साध्यधर्मसंसर्गितयोऽसैर्वविदः प्रत्यक्ष(क्षाः) साध्यविविक्ता वा हेतु विकलतयाऽदृश्यानुपल-२० ब्धेरभावाव्यभिचारित्वायोगात् । उक्तं च "गत्वा गत्वा च तान् देशान् यद्यर्थो नोपलभ्यते। तदान्यकारणाभावादसन्नित्यवगम्यते" ॥ [ श्लो० वा० अर्था० श्लो० ३८] इति । यत्र यत्र साधनधर्मस्तत्र तत्र सर्वत्र साध्यधर्मः यत्र च साध्याभावस्तत्र सर्वत्र साधनधर्मस्याप्यभावः इति अशेषपदार्थाक्षेपेण सपक्षेतरयोः हेतोः सदसत्त्वे ख्यापनीय(?) स्त । क्वचिदेव तादात्म्य-२५ -तदुत्पत्तिलक्षणस्य च प्रतिबन्धस्यैकस्मिन्नपि प्रमाणतोऽधिगमेऽन्वय-व्यतिरेकयोप्प्या निश्चयः सम्पद्यते नान्यथा तदात्मनस्तादात्म्याभावे नैरात्म्यप्रसङ्गात् कार्यस्य च स्वकारणाभिमते(त)भावाभावे भवतो निर्हेतुकत्वप्रसक्तेश्च । उक्तं च "स्वभावेऽप्यविनाभावो भावमात्रानुरोधिनि । तदभावे स्वयं भावस्याभावः स्यादभेदतः” ॥ [ ] तथा, ३० १-वातिरेकेण भा-वा० बा० विना। २-द्यत्वादि एव भा-वा० बा०। ३-भावोऽस्तु मन्यन्ते वा० बा० विना। ४-स्तु म मन्य-वा. बा.। ५-सदबोध-भां० मां० । सदबाध-आ• हा०वि०। “सन् बोधगोचरप्राप्तस्तद्भावे नोपलभ्यते । नश्यन् भावः कथं तस्य न नाशः कार्यतामियात्"?॥ तद्भावे “अग्निभावे"। तस्य “अन्यादेः"-हेतु० टी० ता. लि. पृ० ८४ प्र० पं० १-२ । ६ नाशका-भां० मां० वा. बा० विना। -ति करणाधीन प-वा. बा. विना। ८-त्वसिद्धिर्न आ० हा० वि०। ९-पृ. ३१८ पं० ५। १०-ध्यक्षं क्षण-आ०। ११-वेदान्तवादिमतनिराकरणं च पृ. २८५-२९६। १२-पृ० ३१८ पं०१०। १३-क्षणयो-वा. बा. विना। १४-व यत स-मां० ।-व येतः स-हा० वि० ।-व येत स-भां० । व यः स-वा. बा.। १५ पृ० ३१८ पं० ११। १६-निश्चतो-वा. वा०। १७-मात्र स-आ० हा० वि० । १८-तुर्भा-आ०। १९-त्वादी दर्शनयोः आ० हा० वि० । २०-न चा स-मां। न स-आ० । २१-व्याप्यास-वा० बा०। २२-पर्ययोh-वि०। २३-भावो ग्रहीतुं शक्यो य-वा० बा० । २४-या सवा० बा० विना। २५-सर्वा वि-आ० हा० वि० । २६-तुर्विक-वि० । २७-सत्त्वेत्याख्यापनीयेन्नव-वा. बा०।-सत्वे ख्यापनीये नक्क-भां. मां हा० वि०। २८-भावे भावतो वा. वा. हा० वि०। २९-एतत् लोकद्वयम् हेतु.टी. ता. लि. पृ० ५७ प्र. पं० २-३ । प्रमेयक. पृ० १०१ प्र. पं०९।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy