SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा। ३०३ खता । अथ यदि 'असदेवोत्पद्यते' इति भवतां मतम् तत् कथं सदसतोरुत्पादः सूत्रे प्रतिषिद्धः? उक्तं च तत्र-"अनुत्पन्नाश्च महामते सर्वधर्मा(र्माः) सदसतोरनुत्पन्नत्वात्" [ इति, न; वस्तूनां पूर्वापरकोटिशून्यक्षणमात्रावस्थायी स्वभाव एव उत्पाद उच्यते भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायाम्, न पुनवैभाषिकपरिकल्पिता जाति: संस्कृतलक्षणा प्रतिषेत्स्यमानत्वात् तस्याः। नापि वैशेषिकादिपरिकल्पित(तः) सत्तासमवायः स्वकारणसमवायो(यो वा, तयो)रपि ५ निषेत्स्यमानत्वात्, नित्यत्वात् तयोः परमतेन, नित्यस्य च जन्मानुपपत्तेः। उक्तं च "सत्ता-स्वकारणाऽऽश्लेषकरणात् कारणं किल । ___सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम" ॥ [ ]इति। स एवमात्मक उत्पादो नाऽसना(ता) तादात्म्येन सम्बध्यते, सदसतोर्विरोधात्-न हि असत् सद भवति । नापि सता पूर्वभाविना सम्बध्यते तस्य पूर्वमसत्त्वात् ; कल्पनाबुद्ध्या तु केवलमसता १० वस्तु सम्बध्यते, न ह्यसनाम किञ्चिदस्ति यद् उत्पत्तिमाविशेत् 'असदुत्पद्यते' इति तु कल्पनाविरचितव्यवहारमात्रम् । कल्पनाबीजं तु प्रतिनियतपदार्थाऽनन्तरोपलब्धस्य रूपस्योपलब्धिलक्षणप्राप्तस्योत्पत्त्यवस्थातः प्रागनुपलब्धिः। तदेवमुत्पत्तेः प्राक् कार्यस्य न सत्त्वं धर्मः, नाप्यसत्त्वम् स्यैवा(त्त्वम् तस्यैवा)भावात् । अपि च, पयःप्रभृतिषु कारणेषु दध्यादिकं कार्यमस्तीति ययुच्यते तदा वक्तव्यम्-किं व्यक्तिरूपेण तत् तत्र सत्, अथ शक्तिरूपेण? तत्र यदि व्यक्तिरूपेणेति पक्षः, सन १५ युक्तः, क्षीराद्यवस्थायामपि दध्यादीनां स्वरूपेणोपलब्धिप्रसङ्गात् । नापि शक्तिरूपेण, यतस्तद्रूपं दध्यादेः कार्यानु(दु)पलब्धिलक्षणप्राप्तात् किमन्यत्, आहोस्विद् तदेव ? यदि तदेव तदा पूर्वमेवोपलब्धिप्रसङ्गो ध्यादेः । अथ अन्यदिति पक्षस्तदा कारणात्मनि कार्यमस्तीत्यभ्युपगमस्त्यक्तो भवेत् कार्याद भिन्नतनोः शक्त्यभिधानस्य पदार्थान्तरस्य सद्भावाभ्युपगमात् । तथाहि-यदेव आविर्भूतविशिष्टरस-वीर्यविपाकादिगुणसमन्वितं पदार्थस्वरूपं तदेव दध्यादिकं कार्यमुच्यते; क्षीरावस्थायां२० च तद् उपलब्धिलक्षणप्राप्तमनुपलभ्यमानमसयवहारविषयत्वमवतरति, यच्चान्यच्छक्तिरूपम् तत् कार्यमेव न भवति न च अन्यस्य भावेऽन्यत् सद् भवति अतिप्रसङ्गात् । न च उपचारकल्पनया तद्यपदेशसद्भावेऽपि वस्तुव्यवस्था, शब्दस्य वस्तुप्रतिबन्धाभावात् तद्भावेऽपि वस्तुसद्भावासिद्धेः। यदपि 'भेदानामन्वयदर्शनात् प्रधानास्तित्वम्' उक्तम् तत्र हेतोरसिद्धत्वम्, न हि शब्दादि १ ततः क-भां० मां०। २-मतेः भां० मां० वा. बा० । ३ सर्वाधर्मा सदसतोरनु-हा० वि० । सर्वधर्मात्स्स दनु-वा० बा । "सर्वधर्माः सदसतोरनुत्पन्नत्वात्"-तत्त्वसं० पञ्जि. पृ. ३२ पं० २७ । “पुनरपरं महामते ! क्रियाकारणरहिताः सर्वधर्मा न उत्पद्यन्ते अकारकत्वेन । उच्यन्ते अनुत्पन्नाः सर्वधर्माः निःखभावाश्च"लङ्कावतारसू० पृ० ११५५० ५। ४ "उत्पादो वस्तुभावस्तु सोऽसता न सता तथा। संबध्यते कल्पिकया केवलं त्वसता धिया"॥ तत्त्वसं० का० ३२ पृ. ३३ । ५-कल्पितसत्तासमवायो वा वरपि निषेत्स्य-हा०वि० ।-कल्पितसत्तासमवायो वारपि निषेत्स्य-भां० मां। "नापि वैशेषिकपरिकल्पितः सत्तासमवायः" तत्त्वसं० पञ्जि. पृ० ३३ पं० ६। ६ “खकारणसमवायो वा तयोरपि निषेत्स्यमानत्वात्"-तत्त्वसं० पजि० पृ. ३३ पं०७। ७ तत्त्वसं० पजि. पृ० ३३ पं० ८। ८ नानः तादा-वा. बा. विना । “नासता"-तत्त्वसं० पजि. पृ. ३३ पं० १०। ९ "यदिदं वस्तुनो रूपमेकानन्तरमीक्ष्यते । प्रागासीन्नेति तद्वीजं प्राग्भूते त्विदमस्ति न" ॥ तत्त्वसं• का० ३३ पृ. ३३ । १०-सत्त्व स्यैवा-वा. बा. विना। ११ “क्षीरादिषु च दध्यादि शक्तिरूपेण यन्मतम् । का शक्तिस्तत्र दध्यादि यदि दृश्येत दुग्धवत्" ॥ तत्त्वसं० का० ३४ पृ० ३३ । १२ यदच्य-वि०। १३ "दध्यादेः कार्यरूपात्"-तत्त्वसं० पजि. पृ० ३४ पं० ४। १४ "अन्यचेत् कथमन्यस्य भावेऽभक्त्याऽन्यदुच्यते । न हि सत्त्वस्य सद्भावः सद्भावो दुःख-मोहयोः" ॥ तत्त्वसं० का० ३५ पृ. ३४ । १५-न्यस्याभावेऽसद भव-वि०। १६ पृ. २८४ पं० १०। १७ सत्त्वायनुगत व्यक्तं न सिद्धं नः कथंचन । आन्तरत्वात् सुखादीनां व्यक्तत्वात् तत्खसंविदः"॥ तत्त्वसं० का०३६ पृ. ३४ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy