SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २८६ प्रथमे काण्डेप्रतिनियतघटरूपप्रतिपत्तिः स्यात् । ततश्च य एष कस्यचित् प्रतिनियतपदार्थदर्शनात् क्वचित् प्राप्तिपरिहारार्थो व्यवहारः स न स्यात् । न च तत्राऽसतो रूपस्य प्रतिभासो युक्तः अप्रतिभासने च कथं न ततः प्रतिभासमानरूपस्य विवेकप्रतिभासः? न च भेदः कल्पनाज्ञानविषयः अबाधितानुमकगोचरत्वात्। अत एव 'इतरेतराभावरूपत्वान्न भेदः प्रत्यक्षविषयः' इति प्रत्युक्तम् भावखरूपग्रहये ५ इतरेतराभावरूपस्य भेदस्य प्रतिभासनात् । ____ अनुमानागमयोः स्वरूपस्य तु भेदनिबन्धनत्वान्न भेदबाधकता । एवं प्रमेयभेदनिश्चये प्रमाणादपि प्रमेयस्य भेदो निश्चित एव भवतीति न प्रमाणनिश्चये भेदेऽवाधितत्वाद् भेदस्याभेदाभ्युपगमो युक्तः । यदपि ‘देश-कालाऽऽकारभेदैर्भेदो न प्रत्यक्षादिभिः प्रतीयते' इत्यायुक्तम् , तदप्यसङ्गतमेव अभेदप्रतिपत्तावप्यस्य समानत्वात् । तथाहि-अभेदोऽपि पदार्थानां यदि देशाभेदात् तदाऽनवस्था१० दिदूषणं समानम् । किञ्च, भिन्न देशसम्बन्धितया प्रतिभासमानानां घट-पटादीनां सद्रूपतया सर्वेषां प्रतिभासनात् तस्याश्च सर्वत्र सर्वदाऽप्रत्यपायादवाधितप्रत्ययविषयत्वेन पारमार्थिकत्वम् घटादिभेदानां च प्रच्यवनाद् देशान्तरादौ बाधितप्रत्ययगम्यत्वादपारमार्थिकत्वमभ्युपगतम्, तत्रैकदेशस्थघटादिभेदाध्यक्षप्रतिपत्तिकाले यत(त् ) स्वरूपं तद्भेदपरिष्वक्तवपुः परिस्फुटमध्यक्षे प्रति भाति न तद् देशान्तरस्थघटादिभेदपरिगतमूर्तितया प्रतिभाति, तत्र तद्भदानामसन्निधानेन प्रति १५ भासायोगात् तदप्रतिभासने च तत्परिप्वक्तताऽपि तस्य नाधिगतेति कथं देशान्तरस्थभेदानुगतत्वं तस्य भातम् ? यदेव हि स्पष्टदगवगतं तद्भेदनिष्ठं तस्य रूपं तदेवाभ्युपगन्तुं युक्तम् अन्यदेशभेदानुगतस्य तदर्शनासंस्पर्शिनः स्वरूपस्यासम्भवात् सम्भवे वा तस्य दृश्यस्वभावाभेदप्रसङ्गात्, तदेकत्वे सर्वत्र भेदप्रतिहतेरनानैकं जगत् स्यात् । दर्शनपरिगतं च तद्देशभेदकोडीकृतं सद्रूपं न भेदान्तर. परिगतमिति न तदस्ति । यदि तु तदपि भेदान्तरपरिगतं सद्रूपमाभाति तथासति सकलंदेशपरिगता २० भेदाः प्रतिभासन्ताम् । अथ न प्रथमदेशभेदप्रतिभासकाले देशान्तरपरिगतभेदसम्बन्धिसद्रूपत्वमाभाति किन्तु यदा भेदान्तरमुपलभ्यते तदा तद्गतं सद्रूपत्वमाभातीत्यभेदप्रतिपत्तिः पश्चाद् भवतीति, एतदप्ययुक्तम् । यतो भेदान्तरप्रतिभासेऽपि तत्क्रोडीकृतमेव सद्रूपत्वमिति न पूर्वभेदसंस्पर्शितया तस्याधिगतिः, पूर्वभदस्याऽसन्निहिततयाऽप्रतिभासने तत्परिष्वक्तवपुषः सद्रूपस्यापि दर्शना तिकान्तत्वात् कथमपरापरदेशभेदसमन्वयिसद्रूपत्वावगमः सम्भवी ? २५ अथ प्रत्यभिज्ञानादन्वयि सद्रूपत्वं मिनदेशभेदेपु प्रतीयते तदा वक्तव्यं केयं प्रत्यभिज्ञा ? यदि प्रत्यक्षम् तत् कुतस्तदवसेयं सद्रूपत्वमपरापरदेशघट-पटादिष्वेकं सिद्ध्यति ? अथाक्षव्यापा. रादुपजायमाना प्रत्यभिज्ञा कथं न प्रत्यक्षम् ? भेदग्राहिणो विकल्पव्यतिक्रान्तमूतैर्विशददर्शनस्याप्यक्षप्रभवत्वेनैवाऽध्यक्षत्वं भेदवादिभिरप्यभ्युपगम्यते तत्रापि समानम्, असदेतत्; यद्यक्षव्यापारसमासादितवपुरेपा प्रतीतिः तथासति प्रथमभेददर्शनकाल एवापरदेशभेदसमन्वयिसद्रू३० पपरिच्छेदोऽस्तु । अथ तदा स्मृतिविरहान्नैकत्वावगतिः, यदी त्वपरदेशभेददर्शनमुपजायते तदा पूर्वदर्शनाऽऽहितसंस्कारप्रबोधप्रभवस्मृतिसहकृतमिन्द्रियमभेददृशमुपजनयति, तदप्यसत्; यतः स्मृतिसहायमपि लोचनं पुरः सन्निहित एव घटादिभेदे तत्क्रोडीकृतसद्रूपत्वे च प्रतिपत्तिं जनयितुमलम् न पूर्वदर्शनप्रतिपन्ने भेदान्तरे, तस्याऽसन्निधानेनाऽतद्विषयत्वात् गन्धस्मृतिसँह कारिलोचनवत् 'सुरभि द्रव्यम्' इति प्रतिपत्तिं गन्धवद्रव्ये । तेन सदूपत्वप्रतिपत्तिरत्र भेदे स्फुट३५ वपुः प्रतिपत्तिमभिसन्धत्ते । अथेन्द्रियवृत्तिर्न स्मरणसमवायिनी करणत्वात् इति नासौ १-निश्चिते वि० सं०। २-त्वाद्भेदस्याभ्युप-वा० बा।। ३ पृ. २७३ पं० १९-पृ० २७४ पं० २७। ४ तन्नक-आ० । ५-काले त्स्वरूपं तद्भेद-वा० बा०। ६ यत् सदूपत्वं त-भां० मा०। ७-स्थपटादिभां. मां. वा. वा०। ८-श्यत्वख-आ० । ९-लदेशाप-भां० मा० । १०-पत्वं नाभा-हा० वि० । ११-त्वमाभाति न भां० मा०। १२-पत्वभिन्नदेश-भां० मां० ।-पत्वं देश-आ० हा० वि०। १३-क्षं कु- . आ० हा० वि०। १४ स्मृतिसहकारिवि-भा० म०। १५-दाच प-भां. मां०। १६-ददर्शनमुप-भां.. मा०। १७-देन को-आ०। १८-पन्नमे-भां. मां० वा. बा.। १९ तस्य सन्नि-भां. मां. विना। २०-सहायलो-भां. मां०। २१-पत्तिग-भां० मा. विना। २२ तत्र स-वा. बा. आ. विना। २३-पन्नममिसं-मां-पत्तिमतिसं-आ. हा. वि. वा. बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy