SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा । २८५ 'जं काविलं दरिसणं एवं दवट्ठियस्स वत्त' । [१० का० गा० ४८] इति । नैगमनयाभिप्रायस्तु द्रव्यास्तिकः शुद्धाऽशुद्धतया आचार्येण न प्रदर्शित एव नैगमस्य सामान्यप्राहिणः संग्रहेऽन्तर्भूतत्वात् विशेषग्राहिणश्च व्यवहारे इति नैगमाभावादिति द्रव्यप्रतिपादकनयंप्रत्ययराशिमूलव्याकरणी द्रव्यास्तिकः शुद्धाऽशुद्धतया व्यवस्थितः। [ पर्यायास्तिकनयनिरूपणम् ] [१ सदद्वैतप्रतिक्षेपकः पर्यायास्तिकनयः ] अत्र पर्यायास्तिक ऋजुसूत्र-शब्द-समभिरूढैवंभूतनयप्रत्ययराशिमूलव्याकरणी शुद्धाऽशुद्धतया व्यवस्थितः पर्यायलक्षणविषयव्यवस्थापनपरो द्रव्यास्तिकनयाभिप्रेतवस्तुव्यवस्थापनयुक्ति प्रतिक्षिपति-यदुक्तं द्रव्यास्तिकेन 'सर्वमेकं सत् अविशेषात्' तत् किं भेदस्य प्रमाणबाधितत्वादेकमुच्यते, आहोश्चिदभेदे प्रमाणसद्भावात् ? न तावद् भेदस्य प्रमाणबाधितत्वम् यतः प्रमाणं प्रत्यक्षादिकं १० भेदमुपोद्वलयति न पुनस्तद्वाधया प्रवर्त्तते, भेदमन्तरेण प्रमाणेतरव्यवस्थितेरेवाभावात् । प्रमाणं च प्रत्यक्षानुमानादिभेदेन भिन्नं सद् भेदसाधकमेव न पुनस्तद्वाधकम् । तथाहि-प्रत्यक्षं तावश्चक्षुापारसमनन्तरभावि वस्तुभेदमधिगच्छत् उत्पद्यते यतो भेदो भाव एव तं चाधिगच्छताऽध्यक्षेण कथं भेदो न अधिगतः? यञ्चोक्तम्-'भेदस्य कल्पनाविषयत्वम् इदमस्माद् व्यावृत्तम्' इत्येवं तस्य व्यवस्थापनात् अभेदस्तु निरपेक्षाध्यक्षधीसमधिगम्यः' इति, तदयुक्तम्, 'इदमनेन १५ समानम्' इत्यनुगतार्थप्रतिभासस्यैवेतरसव्यपेक्षस्य कल्पनाज्ञानमन्तरेणानुपपत्तेरभेद एव कल्पनाशानविषयः भेदस्तु परस्पराऽसंमिश्रवस्तुबलोद्भूततदाकारसंवेदनाधिगम्यः तदाभासाध्यक्षस्यानुभवसिद्धत्वात्, अध्यक्षस्य भावग्रहणरूपत्वाच्च । भावाश्च स्वस्वरूपव्यवस्थितयो नात्मानं परेण कल्पनाज्ञानमन्तरेण योजयन्ति, एवं परस्परासङ्कीर्णरूपप्रतिभासतो भावानां व्यवहाराङ्गता नान्यथा। तदुक्तम्-"अनलार्थ्यनलं पश्यन्नपि न तिष्ठेत् नापि प्रतिष्ठेत" [ 11२० पुनरप्युक्तम्-"तत् परिच्छिनत्ति अन्यद व्यवच्छिनत्ति प्रकारान्तराभावं च सूचयति"[ ] इति । एतेन 'आहुर्विधातृ प्रत्यक्षम्' इत्यादि पराकृतम् । यतो विधातृत्वं किं प्रत्यक्षस्य भावस्वरूपग्राहित्वम्, आहोश्विदन्यत् ? यदि भावस्वरूपग्राहित्वम् न तर्हि भेदग्रहणस्य विरोधः भेदस्य तदूपत्वात् । अथान्यत्, तेन्न; तस्य स्वभावानिर्देशात् । अथ वस्त्वन्तराद् वस्त्वन्तरस्यान्यत्वं प्रत्यक्षं न प्रतिपादयति, तदप्यसत्; भावानां सर्वतो व्यावृत्तत्वात् तथैव चाध्यक्षे प्रतिभासनात् । तथाहि-२५ पुरोव्यवस्थिते घट-पटादिके वस्तुनि चक्षुर्व्यापारसमुद्भूतप्रतिनियतार्थप्रतिभासादेव सर्वस्मादन्यतो भेदः प्रतिपन्नोऽध्यक्षेण अन्यथा प्रतिनियतप्रतिभासायोगात् । न ह्यघटरूपतयाँऽपि प्रतिभासमानो घटः प्रतिनियतप्रतिभासो भवति, अघटरूपपदार्थाप्रतिभासने च तत्र कथं न ततो भेदप्रतिभासः स्यात् ? नहि तदात्मा भवति, स्वस्वभावव्यवस्थितेः सर्वभावानाम् ; अन्यथा सर्वस्य सर्वत्रोपयोगादिप्रसङ्ग इति अन्याप्रतिभासनमेव घटादेः प्रतिनियतरूपपरिच्छेदः। यदि पुनः प्रतिनियतरूप-३० परिच्छेदेऽपि नान्यरूपपरिच्छेदस्तदा प्रतिनियतैकवरूपस्याप्यपरिच्छेदप्रसङ्गः। तथाहि-धैंटरूपं(प)प्रतिनियताध्यक्षप्रत्ययेनोप्यघटरूपविवेको नाधिगतो यदि तदाऽघटरूपमपि घटरूपं स्यादिति न १-यप्रस्तरमूल-आ० । २ पृ. २७२ पं० १७। ३ प्रमेयक० पृ० १८ प्र. पं० १५। ४ भाव. स्वभाव एवं (पतं)चाधि-० वा. विना। ५ पृ. २७२ पं० १९। ६-इत्येव त-मां०। ७-मभिगवा. बा०।-ममिगम्यत इति आ० हा. वि. । ८-सस्य वेत-हा.। ९-क्षक-भां० मां० विना । १०-स्तु परासंमि-आ. हा० वि० । ११-च्छिनदन्य-भां० मां० हा० वि० ।-च्छिदन्य-आ०। १२ पृ. २७३ पं०१७।१३-त्याद्यपि प-भां० मा० । १४-दस्यात-वा० बा० । १५-ततस्त तस्य भां० मां। १६-स्मादेवमन्य-मां० आ० हा०वि० ।-स्मादेकमन्य-भां०। १७-क्षेणा प्र-आ. हा. वि. । १८-या प्र-भा० मा०। १९ कथं ततो भेदःप्रति-वा. बा। कथं भेदप्रति-हा०वि०। कथं भेदः प्रति-आ० । २०-ति स्वभा-आ० वा० बा०। २१ सर्वत्राप्रयो-भां• मां० । २२-नः प्रतिनियतरूपपरिच्छेदस्तदा वा. बा० आ० । २३-दः सदा भां० मां०। २४ घटादिरूपं वा. बा. विना। २५-ना घ-वा० बा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy