SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ जयमीमांसा । _२८३ यद्येवं शालिवीजमपि शालिफलार्थिना तत्फलशून्यत्वान्नोपादेयं स्यात् कोद्रवबीजवत्, न चैवं भवति, तस्मात् तत्र तत् कार्यमस्तीति गम्यते । 'सर्वसम्भवाभावात्' इति तृतीयो हेतुः - यदि हि असदेव कार्यमुत्पद्यते तदा सर्वस्मात् तृणपांश्वादेः सर्वे स्वर्ण-रजतादिकार्यमुत्पद्येत, सर्वस्मिन्नुत्पत्तिमति भावे तृणादिकारणभावात्मैता विरहस्याऽविशिष्टत्वात् । पूर्व कारणमुखेन प्रसङ्ग उक्तः सम्प्रति तु कार्यद्वारेणेति विशेषः । न च सर्व ५ सर्वतो भवति, तस्मादयं नियमः 'तत्रैव तस्य सद्भावात्' इति गम्यते । स्यादेतत् कारणानां प्रतिनियतेष्वेव कार्येषु शक्तयः प्रतिनियताः तेन कार्यस्यासत्येऽपि किञ्चि देव कार्य क्रियते न गगनाम्भोरुहम् - किञ्चिदेव चोपादानमुपादीयते तदेव समर्थ न तु सर्वम् किञ्चिदेवं च कुतश्चिद् भवति न तु सर्व सर्वस्मादिति, असदेतत् यतः शक्ता अपि हेतवः कार्य कुर्वाणाः शक्यक्रियमेव कुर्वन्ति नाशक्यम् । १० ननु नैतदुक्तम्- 'अशक्यं कुर्वन्ति' इति येनैतत् प्रतिषिध्यते भवता किन्तु 'असदपि कार्य कुर्वन्ति' इत्येतावदुच्यते । तच्च तेषां शक्यक्रियमेव, असदेतत् असत्कार्यकारित्वाभ्युपगमादेव अशक्यक्रियं कुर्वन्ति । तथाहि - यद् असत् तत् नीरूपम् यच्च नीरूपं तंत् शशविषाणादिवद् अनाधेयातिशयम् यच्च अनाधेयातिशयं तद् आकाशवद् अविकारि; तथाभूतं चाऽसमासादितविशेषरूपं कथं केन चिच्छक्त कर्तुम् ? अथ सदवस्थाप्रतिपत्तेर्विक्रियत एव तत्, एतदप्यसत्; विकृतावा- १५ महानिप्राप्तेः यतो विकृताविष्यमाणायां यस्तस्यात्मा निरूपाख्यो वर्ण्यते तस्य हानिः प्रसज्येत न ह्यसतः स्वभावापरित्यागे सद्रूपतापत्तिर्युक्ता परित्यागे वा नासदेव सद्रूपतां प्रतिपन्नमिति सिद्ध्येत् - अन्यदेव हि सद्रूपम् अन्यच्च असद्रूपम् परस्परपरिहारेण तयोरवस्थितत्वात् । तस्मात् यद् असत् तद् अशक्यक्रियमेव, अतस्तथाभूतपदार्थ कारित्वाभ्युपगमे कारणानामशक्यकारित्वमेवाभ्युपगतं स्यात् । न चाशक्यं केनचित् क्रियते यथा गगनाम्भोरुहम्, अतः 'शक्तिप्रतिनियमांत्' इत्यनुत्तर- २० मेतत् । एतेन 'शक्तस्य शक्यकरणात्' इति चतुर्थोऽपि हेतुः समर्थितः । "कार्यस्यैवमयोगाच्च किं कुर्वत् कारणं भवेत् । ततः कारणभावोऽपि बीजदेर्नाविकल्पते ॥" [ तत्त्वसं० का० १३ ] इति पञ्चमहेतुसमर्थनम् । अस्यार्थः - एवं यथोकाद्धेतुचतुष्टयाद् असत्कार्यवादे सर्वथाऽपि कार्यस्वायोगात् किं कुर्व बीजादि कारणं भवेत् ? ततश्चैवं शक्यते वकुम्न कारणं बीजादिः, २५ अविद्यमान कार्यत्वात्, गगनाब्जवत्, न चैवं भवति, तस्माद् विपर्ययः इति सिद्धं प्रागुत्पत्तेः सत् कार्यमिति । स्यादेतत् यदि नाम 'सत् कार्यम्' इत्येवं सिद्धम्, 'प्रधानादेव महदादिकार्यभेदाः प्रवर्तन्ते' इत्येतत् तु कथं सिद्धिमासादयति ? उच्यते १ माठर० पृ० १७ पं० ९ । २ "सर्व च सर्वतोभावाद् भवेदुलत्तिधर्मकम् । तादात्म्यविगमस्येह सर्वस्मिन्नविशेषतः " ॥ पृ० ३- त्मना वि-आ० हा० विना । ४ द्वितीय हे समर्थ नावसरे तु यत् किञ्चित् किञ्चिदेव तु कुतश्चिद् भवति " - तत्त्वसं० प० पृ० १९ ७ व कु-भां० मां० विना । तत्त्वसं० का० १० पृ० १९ । २८२ पं० २७ । ५ " यदेव समर्थ न पं० २० । ६र्थ किञ्चि भां० मां० विना । ८ “शक्तीनां नियमादेषां नैवमित्यप्यनुत्तरम् । शक्यमेव यतः कार्य शक्ताः कुर्वन्ति हेतवः " ॥ तत्त्वसं ० का ० ११ पृ० १९ । ९ " अकार्यातिशयं यत् तु नीरूपमविकारि च । विकृतावात्महान्याप्तेस्तत् क्रियेत कथं नु तैः ?” ॥ तत्त्वसं० का० १२ पृ० २० । मां० विना । १२ प्र० पृ० १० तच्च शरा-भां० मां० विना । ११- योरेव स्थि-भां० पं० ७ । १३- क्यका - भ० मां० विना । १४ - जादे न विक-भां० मां०हा० वि० । जादे न च क-आ० । “जादेर्न वि. तत्त्वसं०] । १५ तस्यैवं भ० मां० विना । १६ “सुखाद्यन्वितमेतच्च व्यक्तं व्यक्तं समीक्ष्यते । प्रसाद - ताप - दैन्यादिकार्य स्ये होपलब्धितः ॥ " ततस्तन्मयसंभूतं तज्जात्यन्वयदर्शनात् । कुटादिभेदवत् तच्च प्रधानमिति कापिलाः " ॥ तत्त्वसं० का ० १४-१५ पृ० २०-२२ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy