SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ २८२ प्रथमे काण्डे हेतुमती बुद्धिः, अहङ्कारो वुझ्या हेतुमान , पञ्च तन्मात्राणि एकादश चेन्द्रियाणि हेतुमन्ति अहङ्का रेण, भूतानि तन्मात्रैः । न त्वेवमव्यक्तम् कुतश्चित् तस्यानुत्पत्तेः । तथा, व्यक्तमनित्यम् उत्पत्तिधर्मकत्वात् , तद्विपर्ययाद् न त्वेवमव्यक्तम् । प्रधान-पुरुषौ दिवि भुवि चान्तरिक्षे च सर्वत्र व्याप्तितया यथा वर्तेत(ते) न तथा व्यक्तं वर्तते इति तदव्यापि । यथा च संसारकाले त्रयोदशविधेन बुल्ल ५ हङ्कारेन्द्रियलक्षणेन करणेन संयुक्तं सूक्ष्मशरीराश्रितं व्यक्तं संसारि न त्वेवमव्यक्तम् तस्य विभुत्वेन सक्रियत्वायोगात् । बुद्ध्यहङ्कारादिभेदेन चानेकविधं व्यक्तमुपलभ्यते नाव्यक्तम् तस्यैकस्यैव संतत्रिलोकीकारणत्वात् । आश्रितं च व्यक्तम्-यद् यस्मादुत्पद्यते तस्य तदाश्रितत्वात्, न त्वेवमव्यक्तम अकार्यत्वात् तस्य । 'लयं गच्छति' इति कृत्वा लिङ्गं च व्यक्तम् । तथाहि-प्रलयकाले भूतानि तन्मात्रेषु लीयन्तेः तन्मात्राणि इन्द्रियाणि चाहङ्कारः सोऽपि बुद्धौः साऽपि प्रधाने । न त्वेवमन्यवं १० क्वचिदपि लयं गच्छतीति । लीनं वा अव्यक्तलक्षणमर्थं गमयति व्यक्तं कार्यत्वाल्लिङ्गम् , न त्वेवमव्यक्तम् अकार्यत्वात् तस्य । सावयवं च व्यक्तम् शब्द-स्पर्श-रूप-रस-गन्धात्मकैरवयवैर्युक्तत्वात्, न त्वेवमव्यक्तम् तत्र शब्दादीनामनुपलब्धेः । अपि च, यथा पितरि जीवति पुत्रो न स्वतन्त्रो भवति तथा व्यक्तं सर्वदा कारणायत्तत्वात् परतन्त्रम्, नैवमव्यक्तम् अकारणाधीनत्वात् सर्वदा तस्येति नि; परमार्थतस्ताद्रूप्येऽपि प्रकृतिविकारभेदेन तयोर्भेदाविरोधात् । तथाहि-स्वभावतस्वैगुण्यरूपेण १५प्रकृतिरूपा एव प्रवर्तन्ते विकाराः, सत्त्व-रजस्-तमसां त्त(तू)त्कटाऽनुत्कटत्वविशेषात् सर्गवैचित्र्यं महदादिभेदेन न विरोत्स्यत इति कारणात्मनि कार्यमस्तीति प्रतिज्ञातं भवति । नन्वेवं कुतो ज्ञायते प्रागुत्पत्तेः सत् कार्यमिति ? हेतुकदम्बकसद्भावात् । तत्सद्भावश्च "असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम्" ॥ [सायका०९] इति ईश्वर२० कृष्णेन प्रतिपादितः। अत्र च असदकरणात्' इति प्रथमो हेतुः-सत्कार्यसाधनायोपन्यस्तः-एवं समर्थितः-यदि हि कारणात्मनि उत्पत्तेः प्राक् कार्य नाभविष्यत् तदा न तत् केनचिदकरिष्यत, यथा गगनारविन्दम्। प्रयोगः-यद् असत् तद् न केनचित् क्रियते, यथा नभोनलिनम् , असत्त्व(च) प्रागुत्पत्तेः परमतेन गर्यमिति व्यापकविरुद्धोपलब्धिप्रसङ्गः, न चैवं भवति, तस्मात् यत् क्रियते तिलादिभिस्तैलादि २५ कार्य तत् तस्मात् प्रागपि सत् इति सिद्धं शक्तिरूपेणोत्पत्तेः प्रागपि कारणे कार्यम् , व्यक्तिरूपतयाँ च तत् तदा कापिलैरपि नेष्यते।। 'उपौदानग्रहणात्' इति द्वितीयहेतुसमर्थनम्-यदि असद् भवेत् कारणे कार्यम् तदा पुरुषाणां प्रतिनियतोपादानग्रहणं न स्यात्, शालिफलार्थिनस्तु शालिबीजमेवोपाददते न कोद्रववीजम् । तत्र यथा शालिबीजादिषु शाल्यादीनामसत्त्वम् तथा यदि कोद्रवबीजादिष्वपि; किमिति तुल्ये सर्वत्र ३० शालिफलादीनामसत्वे प्रतिनियतान्येव शालिबीजानि गृह्णन्ति न कोद्रवबीजादिकम् , यावता कोद्रवादयोऽपि शालिफलार्थिभिरुपादीयेरन् असत्त्वाविशेषात् । अथ तत्फलशून्यत्वात् तैस्ते नोपादीयन्ते, १ "व्यापितया यथा वर्तेते"-तत्त्वसं० पन्जि. पृ० १७ पं० २६। २-तत्रैलोक्यका-आ०। ३ माठरवृत्तौ तत्त्वसंग्रहपञिकायां च नैषा व्युत्पत्तिदृश्यते। ४-कारा मे-भां० मां० वा. बा.। "प्रकृतिविकारभेदेन"-तत्त्वसं. पञ्जि० पृ० १८ पं० १०। ५ "अथवा 'भावतः' इति स्वभावतस्वैगुण्यरूपेण"-तत्त्वसं. पजि. पृ० १८ पं० ११॥ ६ “सत्त्व-रजस्-तमसां तूत्कटाऽनुत्कटत्वविशेषात्"-तत्त्वसं० पजि. पृ०१८ पं०११। -रोध्य-भां. मां। ८-ति ज्ञातं आ० वा. बा०। ९ नन्वेतत् कु-भां. मां०। १० तत्स्वभा-वा. बा. हा० । ततश्च स्वभाआ० वि०। ११ माठरवृ० पृ० १६ पं० २५ । १२ “यदि त्वसद् भवेत् कार्य कारणात्मनि शक्तितः । कर्तु तन्नैव शक्येत नरूप्याद् वियदजवत्" ॥ तत्त्वसं० का० ८ पृ० १८ । १३-सत्त्वा प्रा-भां० मां. विना ।-सच्च प्रा-वि० सं० । “असच्च प्रागुत्पत्तेः परमतेन कार्यमिति"-तत्त्वसं. पजि. पृ० १८ पं० २१। १४-या तत् तदा आ० हा० वि०। १५ माठरवृ० पृ० १७ पं०४। १६ “कस्माच्च नियतान्येव शालिबीजादिभेदतः । उपादानानि गृह्णन्ति तुल्यसत्त्वेऽपरं न तु" ॥ तत्त्वसं० का. ९पृ० १८। १७-वेति प्र-आ०। १८-जादीनि भा० मा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy