SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - योरन्यव्यवस्थापकत्वायोगात् ? यश्चाऽनवधो देशः प्रतिभाति नासौ भेदकः अतिप्रसङ्गात् । तथ देशभेदाद् भावभेदः समस्तीति नासौ प्रत्यक्षग्राह्यः । २७४ नापि कालभेदात् प्रत्यक्षतो भिन्नं वस्तु प्रत्येतुं शक्यम् सन्निहितमात्रवृत्तित्वात् तस्य । तथाहि - यदा आद्यं दर्शनं मृत्पिण्डमुपलभते न तदा भाविनं घटम्, तदप्रतीतौ तदपेक्षया न स्ववि५ पयस्य भेदं प्रत्यक्षं प्रत्येतुं समर्थम् प्रतियोगिग्रहणमन्तरेण 'ततो भिन्नमिदम्' इत्यनवगतेः । तत्र हि दर्शने मृदः स्वरूपं प्रतिभातीति तदधिगतिर्युक्ता; तत्राऽप्रतिभासमानं तु भाविघटादिरूपं भविष्यतीति नात्र प्रमाणमस्ति, नापि तस्माद् भेदः । अथ उत्तरकालभावि दर्शनं भिन्नं घटं मृत्पिण्डाद् दर्शयतीत्यभ्युपगमः सोऽप्ययुक्तः, यतः तदपि दर्शनं पुरः स्थितार्थप्रतिभासनान्न पूर्वदृष्टार्थग्रहणक्षमम्, तदग्रहणे च न तस्माद् भेदमादर्शयितुं क्षमं वर्तमानार्थस्य । तस्मान्न तेनापि भेदगतिः । १० अथ पूर्वदृष्टार्थस्य स्मृत्या ग्रहणात् वर्तमानस्य च दर्शनेन प्रतिभासनाद् भेदाधिगतिः नहि केवलं दर्शनं भेदाऽऽवेदकं किन्तु स्मृतिसचिवम्, असदेतत् यतः स्मृतिरपि पूर्वमनुभूतमवैति न च पूर्व भिन्नमवगतम्, तत् कथं साऽपि प्रतियोगिनं भिन्नमादर्शयितुं क्षमा ? तन्न तयाऽपि मेदाधिगतिः । किञ्च, स्वरूपनिमग्नत्वान्न भवभेदमवगन्तुं सा समर्था । तथाहि स्मर्यमाणेन वा रूपेण स्मृतिस्तमर्थमवतरेत्, दृश्यमानेन वा ? न तावद् दृश्यमानेन रूपेणार्थमवतरति स्मृतिः तस्य तत्रा१५ प्रतिभासनात् । नापि स्मर्यमाणेन रूपेण तमर्थमवतरति, स्मर्यमाणस्य रूपस्य तत्राभावात् - परिस्फुटं दर्शनारूढं हि रूपं तस्य पूर्वमधिगतम् न च तत् स्मृतौ प्रतिभाति । तन्नार्थस्वरूपग्राहिणी स्मृतिः सम्भवतीति न ततो भेदग्रहः । अथोत्तरदर्शने स्मृतौ वा यदि पूर्वरूपं नाभाति तदा तदप्रतिभासनमेव भेदवेदनम् । तथा चाह“विशिष्टरूपानुभवान्नान्यतोऽपि निराक्रिया” [ ] इति, २० एतदप्यसङ्गतम् ; यतः पूर्वरूपविविक्तता प्रत्यक्षप्रतिपत्तेः स्मृतेर्वा कुतोऽवगत ? तादृक् स्मृतिश्च मपि स्वार्थ निमग्नं न पूर्वरूपमधिगन्तुमीशम्, तदंनवगमे च न तद्विविक्तताधिगतिः तदेंप्रतिभासनमपि तदप्रतीतेरेवासिद्धम् । तस्मात् 'पूर्वरूपमासीत्' इति न काचित् प्रतिपत्तिः प्रतिपत्तुं क्षमा । अथ भावरूपमेव भेदः तत्प्रतिभासे सोऽपि प्रतिपन्न एव, तदप्यसत् यतो न भावरूपमेव भेदः, प्रतियोगिनमपेक्ष्य 'ततो भिन्नमेतत्' इति भेदव्यवस्थापनात् । यदि च स्वरूपमेव भेदस्तदाऽर्थ२५ स्यात्मापेक्षयापि भेदः स्यात् । परापेक्षया स्वरूपभेदः नात्मापेक्षयेति चेत्, नः पररूपाप्रतिपत्तौ तदपेक्षया स्वरूपभेदो न प्रतिपत्तुं शक्य इति न पूर्वापरकालभेदः पदार्थसम्भवी । अर्थ आकारभेदाद् भेदः समानकालयोनल पीतयोरवभासमा नवपुरस्ति, यत्रापि देश-कालभेदस्तत्रापि तद्रूपेण स्वरूपे भेद एवोपलक्ष्यते न पुनः स्वरूपभेदादपरो भेदः सम्भवति अन्यस्यान्यभेदेन भेदायोगात् तस्मात् स्वभावभेद एवास्ति प्रतिभासनात् इत्यप्ययुक्तम्; यतः स्वरूपभेदो ३० द्वयोरुयोत मानवपुषोः किं स्वत एव प्रतिभाति, उत व्यतिरिक्त प्रतिभासावसेयः ? तत्र न तावद् "बोधात्मा पुरस्थयोर्नील- पीतयोर्भेदमवगमयितुं प्रभुः तस्यापरोक्षनीलाद्या कारव्यतिरिक्तवपुषः सुखादिव्यतिरिक्ततनोश्चाप्रतिभासमानत्वेनासत्त्वात् । तथाहि बहिनीलादिः सुखादिश्चान्तः परिस्फुटं द्वयमाभाति न तद्यतिरिक्तो वोधात्मा स्वप्नेऽप्युपलभ्यत इति कथमसावस्ति ? अथ 'अहम्'प्रत्ययेन बोधात्माऽवसीयते, नः तत्र शुद्धस्य बोधस्याऽप्रतिभासनात् । स खलु 'अहं सुखी दुःखी ३५ स्थूलः कृशो वा' इति सुखादि शरीरं वाऽऽलम्बमानः प्रसूयते न तयतिरिक्तं बोधस्वरूपम्, तंत्र तद्विषयोऽप्यसौ स्वरूपेण वाऽप्रतिभासमानवपुर्बोधः कथं भावान् व्यवस्थापयितुं प्रभुः ? नहि शशुविषाणं कस्यचिद् व्यवस्थापकं युक्तम् । भवतु वा व्यतिरिक्तो बोधः प्रकाशमानवपुस्तथाऽप्यसौ १ प्रमेयक० पृ० १७ द्वि० पं० १४ । २ भेदे अ-वा० वा० भ० मां० । ३- नस्य द-भां० मां० विना । ४- दामेद-आ० हा० । दावेकं भां० मो०] । ५- भावे भे-वा० बा० । ६-पा भावा-आ० हा० वि० । -पानुभवा ना-वा० वा० । ७-तोऽन्यनि-वा० बा० । ८-ता या हक् वा० बा० । अत्र 'सा हक्' इति स्यात् । ९- दनधिग-भां० मां० वा० बा० । १० - दनुप्रवा० बा० । ११- रूपे भे- हा० वि० । १२ - दार्थस्य सभां० मां० । १३ प्रमेयक० पृ० १८ प्र० पं० १ । १४ बोधात्मपु-आ० ह० वि० । १५ - शरीरं चावि• । “शरीरं चावलम्बमानोऽनुभूयते न पुनस्तदव्यतिरिक्तं बोधखरूपम् " - प्रमेयक० पृ० १८ प्र० पं० ३ । १६ तन्न त हा० बि० विना । १७- रूपेणे वा वा० वा० ।- रूपेण चा- वि० । १८ - तं भवति । भवतु भां० मां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy