SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ नयमीमांसा त्या वादात "आदावन्ते च यन्नास्ति वर्तमानेऽपि तत् तथा । वितथैः सदृशाः सन्तोऽवितथा इव लक्षिताः"॥ [गौडपा० का०६ पृ० ७० वैतथ्याख्यप्र० ] वितथैस्तु सादृश्यमवितथत्वाभिमतानां कालत्रयाव्यापित्वम् तत् प्रत्यक्षेण प्रतीयमानस्य सदूपताया ग्रहणात् “संवेंमेकं सल्लक्षणं च ब्रह्म" [ ते" [ऋग्वे० मण्ड० ६ सू० ४७ ३० १८] ५ इत्यनेनाऽभिन्नस्य मायाकृतो भेदो दर्श्यते । ता, ब्राह्मणेऽपि भेदनिषेध उक्तः "नेह नानास्ति किश्चन" [ बृहदा० उ० अ०४ ब्रा०४ मं० १९] तथा, मेददर्शिनो निन्दार्थवादः श्रूयते"मृत्योः स मृत्युमाप्नोति य इह नानेव पयति" [बृहदा० उ० अ०४ ब्रा०४ मं० १९] १० 'इव' शब्देनौपचारिकत्वं भेदस्य दर्शितम्। तथा, “एकमेवाऽद्वितीयम्” [छान्दो० उ० अ०६खं०२ मं०१] इत्यवधारणाऽद्वितीयशब्दाभ्यामयमेवार्थः स्फुटीकृतः _ "पुरुष एवेदं सर्वं यद् भूतम्" [ऋक्सं० मण्ड० १० सू० ९० ऋ०२ ] इत्यादिकश्चानेकस्तदद्वैतप्रतिपादक आम्नायः। न चागमस्याऽभेदप्रतिपादकस्य प्रत्यक्षबाधा, तस्याऽनुगतरूपग्राहकत्वेनाभ्युपगमात् तथाऽवि-१५ रोधित्वात् । तदुक्तम् "आहुर्विधातृ प्रत्यक्षं न निषेद्ध विपश्चितः। नैकत्वे आगमस्तेन प्रत्यक्षेण विरुध्यते" ॥ [ ] इति । न चैतद् वचनमात्रम् यतो भेदैः प्रत्यक्षप्रतीतिविषयत्वेनाभ्युपगम्यमानः किं देशभेदादभ्युपगम्यते, आहोश्चित् कालभेदात्, उत आकारभेदात् ? तत्र न तावद् देशमेदाद् भेदो युक्तः, २० स्वतोऽभिन्नस्यान्यभेदेऽपि भेदानुपपत्तेः-न ह्यन्यभेदोऽन्यत्र सामति । किञ्च, देशस्यापि यद्यपरदेशभेदाद् भेदः तथासति तद्देशस्यापि अपरदेशभेदाद् भेदः इत्यनेनानवस्था । स्वत एव चेद् देशभेदस्तर्हि भावभेदोऽपि स्वत एवास्तु किं देशभेदाद् भेदकल्पनया ? अपि च, यावद्वष्टब्धौ देशौ मिन्नौ भावयोर्भेदको नेतोद्भातः (नैवोद्भातः) तत् कुतस्तद्भेदाद् भेदो ज्ञातुं शक्यः स्वतोऽव्यवस्थित १ गौडपा. का. ३१ पृ.१८० अलात० प्र०। "जस्स नस्थि पुरा पच्छा मज्झे तस्स कुओ सिया?"-आचारा. शीतोष्णीयअ० ४, उ०४ । "आदावन्ते च यन्नास्ति मध्येऽपि हि न तत् तथा"-नयोप० श्लो० १४ यशो० भा० पृ० १०६ । २-नस्यासद्रूपतया ग्र-वा. बा.। ३ सर्वमिदं स-आ. हा०वि०। ४-मस्याऽमे-भां. मां० वि० विना । ५ बृहदा० उ० अ० २ ब्रा०५ मं० १९ । गौडपा. का. ७ टी. पृ. ३५ पं० २० । गौडपा. का० २४ टी. पृ. ३१ पं० २४ । संक्षेपशा० अ० २ श्लो. १२५ टी० पृ. ८० पं० २० । “इन्द्रः परमेश्वरः, मायाभिःxxx पुरुरूपः बहुरूपः, ईयते गम्यतेxxx"-बृहदा० उ० भा० अ० २, ब्रा० ५ पृ. ३८४ पं० १०। "मायाभिः प्रत्यगज्ञानैर्यदि वाऽनृतबुद्धिभिः । गम्यते पुरुरूपोऽज्ञैरेकोऽपि जलसूर्यवत्" ॥ बृहदा० उ० भाष्यवार्ति० अ० २, ब्रा० ५ श्लो. १२७ पृ. ११३१ । ६-था ब्रह्मणेऽपि आ० हा० वि० ।-था ब्रह्मणोऽपि भां० मा० । ७ "मनसैवानुद्रष्टव्यं नेह नानाऽस्ति किञ्चन । मृत्योः स मृत्युमानोति य इह नानेव पश्यति" ॥ बृहदा० उ० अ० ४ ब्रा० ४ मं० १९ । "मनसैवेदमाप्तव्यं नेह नानाऽस्ति किश्चन । मृत्योः स मृत्युं गच्छति य इह नानेव पश्यति" ॥ कठो० अ० २, वल्ली ४ श्लो० ११ । ८ गौडपा० का० १३ टी० पृ० ११८ पं० ७ तथा का० २४ टी० पृ० १३२ पं० ९। ९ “ सदेव सोम्येदमग्र आसीद् एकमेवाऽद्वितीयम्" इत्यादि । १. “पुरुष एवेदं सर्वं यद् भूतं यच्च भव्यम् । उताऽमृतत्वस्येशानो यदन्नेनातिरोहति" ॥ श्वेताश्व० उ० अ०३ मं०१५। ११-कस्वानेक-वा. बा० ।-कस्वनेक-हा० वि० ।-कस्त्वनेक-वि० सं०। १२-था वि-भां. मां० विना । १३ “प्रत्यक्षेण प्रबाध्यते"-प्रमेयक० पृ० १७ द्वि० पं० १२। १४ प्रमेयक पृ० १७ द्वि. पं० १३। १५-परभेदा-भां० मां०। १६-त्यनवस्था भां० मा० ।-त्यनेन वस्था वा० बा०। १७-मिन्नोर्भा-वा. बा. आ०। १८-दकौन तौ भातः भा. मां-दकौन तो भावः हा. वि.। स० त० ३५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy