SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २६५ दोषद्वयसद्भावः। नन्वेवं परस्परविशिष्टत्वाविशेषेऽपि यदि कार्यबुद्धिः कारणबुद्ध्यनपेक्षा कारणबुद्धिरपीतरबुद्ध्यनपेक्षेति न रूपादेः समानकालस्यावगतिः स्यात् । अपि चोपकारकस्यादृष्टी नोपकार्यस्येतरविशिष्टतया दृष्टिः तददृष्टौ चोपकारकस्येतरविशिष्टत्वेनादृष्टिरिति परस्यापीदं चोद्यं समानम्। ___अथ सविकल्पप्रत्यक्षवादिनां स्यादयं दोषः उपाधिविशिष्टस्योपाधिमतो निश्चयादुपाधि-तद्वतोश्च ५ परस्परसव्यपेक्षत्वात् । निर्विकल्पकप्रत्यक्षवादिनां तु सर्वोपाधिनिरपेक्षनिरंशस्वलक्षणसामर्थ्यभाविना तद्रूपमेवानुकुर्वता निर्विकल्पकाध्यक्षेणान्यनिरपेक्षस्वलक्षणग्रहणाभ्युपगमान्नायं दोषः, असदेतत् सकलोपाधिशून्यस्खलक्षणग्राहिणो निर्विकल्पकस्याभावप्रतिपादनात पुनरपि प्रतिपादयिष्यमाणत्वाच्च । तदेवं भिन्ननिमित्तयोरेकविषयत्वाविरोधात् कथं न वहिरर्थे सामानाधिकरण्यव्यवहारः? विशेषणविशेष्यभावोऽपि बाह्यवस्तुसमाश्रित एव । न च विशेषण-विशेष्ययोरुपकार्योपकार-१० कभूतत्वेनाऽसमानकालयोस्तद्भावानुपपत्तेस्तथाभूतविकल्पाश्रय एवायं व्यवहार इति वक्तव्यम् , उपकार्योपकारकयोः पितापुत्रयोरिव समानकालत्वाविरोधात् एकान्तानित्यपक्षस्य च निषिद्धत्वात् 'निषेत्स्यमानत्वाच्च। लिङ्ग-सङ्ख्यादियोगोऽप्यनन्तधर्मात्मकबाह्यवस्त्वाश्रित एव । न चैकस्य 'तटस्तटी तटम्' इति स्त्री-पुनपुंसकाख्यं स्वभावत्रयं विरुद्धम् विरुद्धधर्माध्यासस्य भेदप्रतिपादकत्वेन निषिद्धत्वात् अन-१५ न्तधर्माध्यासितस्य च वस्तुनः प्रतिपादितत्वात् । न चैकस्मादेव शब्दादेर्मेचकादिरत्नवच्छबलाभासताप्रसङ्गः, प्रतिनियतोपाधिविशिष्टवस्तुप्रतिभासस्य प्रतिनियतक्षयोपशमविशेषनिमित्तस्य साधितत्वात् । 'गोत्वादिवत् सामान्यविशेषाः स्त्रीत्वादयः, न च सामान्येष्वपराणि सामान्यानि विद्यन्ते, अथ च जाति वः सामान्यमिति तेप्यपि स्त्री पुं-नपुंसकलिङ्गत्रयदर्शनादव्यापिता लक्षणस्य' इत्येष दोषोऽनेकधर्मात्मकैकवस्तुवादिनो ने जैनान् प्रत्याश्लिष्यति, गोत्वादेरपि भिन्नस्य सम-२० वायबलाद् वस्तुनि सम्बद्धस्यानभ्युपगमात् येन तेष्वप्यपरसामान्यभूतलिङ्गत्रयमन्तरेण जात्यादिशब्दप्रवृत्तिर्न स्यात् । अत एव दारादिप्वर्थेषु बहुत्वसङ्ख्या वन-सेनादिषु चैकत्वसङ्ख्याऽविरुद्धा, यथाविवक्षमनन्तधर्माध्यासिते वस्तुनि कस्यचिद्धर्मस्य केनचिच्छब्देन प्रतिपादनाविरोधात् । [प्राज्ञाकरमतस्य निरसनम् ] सामान्यविशेषात्मकवस्तुनः शब्दलिङ्गविषयत्वे च केवलजातिपक्षे यद् दूषणम्-'यदू यत्र ज्ञाने २५ प्रतिभाति तत् तस्य विषयः' इत्यादिप्रयोगरचनापूर्वकं प्रज्ञाकरमतानुसारिणाऽभिहितम्-'यथा न प्रतिभाति निर्विकल्पक-सविकल्पकाध्यक्षशब्दलिङ्गप्रभवज्ञानेषु क्वचिदपि विज्ञाने स्वरूपेण वर्णाः कृत्यक्षराकारशून्या दाहपोकाद्यर्थक्रियासमर्था जातिः, प्रतिभासमानाऽप्यनर्थक्रियाकारित्वेन न प्रवत्तिहेतुः लक्षितलक्षणयाऽपि जाति-व्यक्त्योः सम्बन्धाभावात् , भावेऽपि तस्य प्रत्यक्षादिना प्रतिपत्तुमशक्तेःन व्यक्ती प्रवृत्तिः' इत्यादि सर्व प्रतिक्षितम् अनभ्युपगमादेव । नहि जाति-व्यक्त्योरे-३० कान्तमेदोऽभ्युपगम्यते येन प्रत्यक्षे शाब्दे वा जाति-व्यक्त्योरन्यतरप्रतिभासेऽप्यपरस्याप्रतिभासनान सम्बन्धप्रतिपत्तिः स्यात्-- "द्विष्ठसम्बन्धसंवित्तिर्नेकरूपप्रवेदनात्" [ __] इति न्यायात्-~~-किन्तु सामान्यविशेषात्मकं वस्तु सर्वस्यां प्रतिपत्तौ प्रतिभाति, केवल 'प्रधानोपसर्जनभा १-प्रत्ययवा-वा. बा० । २ स्या यं वेष उ-मां० । स्या यं द्वेष उ-भां० । ३-न्यल-वा० बा० । -ग्यं स्व-भां० मां०। ४-तत्वेन स-भां० मां० विना। ५-स्ता -आ० हा० वि० वा० बा। ६-योरिकविषयाविरोधात् वा. बा० ।-योरेकस-आ. हा० वि० । ७ एकान्तनित्य-वा. बा०। ८-निषेध्यमान-भां. मां०। ९-वस्तुश्रित-वा० वा.। १०-काख्य स्व-भां० मां० ।-कादीना स्व-वा० बा० । ११-वच्छायाभास-वा. बा०। १२-शिष्टं वस्तु-मां० मा०। १३ अथ वा जा-वि०। १४ पृ० २२२ पं०४-८। १५ न जैनः प्र-आ. हा.। न जैनाः प्र-वि०। १६-प्यन्ति वि०। १७-म्बन्धस्या-वि० । १८-कसङ्ख्या-भा० मां० विना। १९-यत्वेन विकलजा-वा० बा०। २० यत्र आ० वा० बा०। २१ पृ० २३३ पं० २। २२-पाचका-आ० हा० वि० ।-पावका-मां• मां० । २३ पृ. २३३ पं. ५-पृ. २३४ पं०३७ । २४-गतो येन भां० मा० । स० त० ३४
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy