SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - त्पत्तिरिति चेत्, नंनु कोऽयमभ्यासः यदभावाद् यथानुभवं निश्चयानुत्पत्तिः ? दर्शनस्य पुनः पुनरुत्पर्त्तिरिति चेत्, ननु सत्त्वादेः क्षणिकत्वादेरभेदे तदनुभवस्य पुनः पुनरनुत्पत्तिरेव क्षणिकत्वदर्शनावृत्तिरिति कथं न दर्शनावृत्तिलक्षणोऽभ्यासः ? अनुभवानन्तरभावी विकल्पोऽभ्यास इति चेत्, ननु 'तदभावाद् विकल्पोत्पत्त्यभावे यथानुभवं कस्मान्निश्चयानुत्पत्तिः' इति प्रश्ने 'निश्चयाभावानि (नि)५श्चयानुत्पत्तिः' इत्युत्तरं कथं सङ्गतं स्यात् ? अन्त्यक्षणदर्शिनां चानित्य विकल्पोत्पत्तेस्तदभावोऽसि श्व । न च क्षणिकत्वप्रतिपादकागमाऽऽहित संस्कारस्यानित्यविकल्पावृत्तिरभ्यासः, तदागमानुसारिणां तदुत्पत्तावपि यथानुभवं विकल्पाभावात् । दर्शनपाटवमपि सत्त्वादिविकल्पोत्पत्तेरेवावसीयते पाटवाsपाटवलक्षण विरुद्धधर्मद्वयस्यैकत्रायोगात् शब्दानित्यत्वजिज्ञासायां प्रकरणादीनामपि भावात् । सर्वात्मना चेत् स्वलक्षणस्यानुभवस्तथैव निश्चयोत्पत्तिः स्यात्, तदनुत्पत्तेर्न सर्वात्मनाऽ१० नुभवो भावस्येत्यवसीयते । अतो नानाफैलत्व में भेदेऽप्युपाधि-तद्वतोः शब्द - विकल्पयोरविरुद्धम् । भेदपक्षेऽप्येकार्थवृत्तिस्तयोर्घटत एव तद्वारेण शब्द - विकल्पयोरेकस्मिन् धर्मिणि वृत्तेः सामानाधिकरण्यादिव्यवहारसिद्धिः । न चोपाधि- तद्वतोरुपकार्योपकारकभावात् सर्वात्मनकोपाधिद्वारेणाप्युपाधिमतः प्रतिपत्तेः शब्दादेरेकफलत्वम्, उपकार्योपकारकप्रतीत्योरन्योन्या विनाभावि - त्वाभावात् तद्भावे वा कथञ्चित् सर्वस्यापि परस्परमुपकार्योपकारकभावाद् एकपदार्थप्रतिपत्तौ तदा१५ धारादिभावेनोपकारकभूतस्य भूतलादेस्तत्कार्यभूत सन्तानान्तरवर्तिज्ञानस्य वा ग्रहणम्, ततोऽपि तदुपकारिणः तस्मादप्यपरस्य तदुपकारिण इति पारम्पर्येण सकलपदार्थाक्षेपीत् सर्वः सर्वदर्शी स्यात् । अथ सम्बन्धवादिनः स्यादयं दोषः - तस्य सम्बन्धिभ्यः सम्बन्धस्य व्यतिरेकेऽनवस्थाप्रसङ्ग इत्ये कोपाधिद्वारेणाप्युपाधिमतः समस्तोपाधिसम्बन्धात्मकस्यैवावगमात् सम्बन्धिनो धर्मकलापस्याशेषस्यापि ग्रहणप्रसक्तिः, सम्बन्धिग्रहणमन्तरेण सम्बन्धप्रतिपत्तेरभावात् अङ्गुलिद्वयप्रतिपत्तौ २० तत्संयोगप्रतिपत्तिवत् । सम्बन्धिष्वेकसम्बन्धानभ्युपगमवादिनामस्माकं नायं दोषः, नहि प्राग्भावोतरभावावन्तरेणापरः कार्यकारणभावादिरेकः सम्बन्धोऽस्माभिरभ्युपगम्यते येन समस्तावगमात् सर्वः सर्वदर्शी स्यात्, असदेतत् यतो न सम्बन्धवादिनः समस्तोपाधिसम्बन्धानामुपाधिमतोऽव्यतिरेकेऽपि तदेकोपाधिसम्बन्धात्मकस्यैव तस्य ज्ञानात् सम्बन्धिनोऽशेषस्योपाधि(धे) रपि ग्रहणम् । सम्बन्धाभाववादिनोऽपि यद्युपकारकप्रतिपत्तावपि नोपकार्यस्यावगतिरेक सम्बन्धाभावात् तदा कथं २५ हेतुधर्मानुमानेन रूपादे रसतो गतिः उपकार्यविशिष्टस्योपकारकस्याप्रतिपत्तेः ? प्रतिपत्तौ कथं न भवन्तेन सर्वः सर्वविद् भवेत् ? न चोपाधि-तद्वत्प्रतीत्योरितरेतराश्रयत्वात् तत्प्रतीत्यभावादुपाधितद्वद्भावाभावः, युगपद् अध्यक्षे तयोः प्रतिभासनात् । क्रमप्रतिभासेऽपि न तत्प्रतिपत्योरितरेतरा• श्रयत्वम्, वृक्षत्वविशिष्टस्य दूराध्यक्षेण प्रतीतस्य प्रत्यासन्नादाम्रादिविशेषणविशिष्टस्य तस्यैवावसायात् । शाब्दप्रतिभासेऽपि गोशब्दाद् गोत्वमात्रोपाधेरैव भास (भात) स्य शुक्लशब्दात् तदुपाधि३० विशिष्टस्य तस्यैवावभासनान्न तत्प्रतीत्योरितरेतराश्रयत्वम् । न च गुणग्रहणमन्तरेण गुणिनो गवादेरग्रहः तदग्रहे च गुणाग्रह इति चोद्यावकाशः, गोशब्दाद् विशेषण - विशेष्ययोर्युगपदेव प्रतिपत्तेः । परस्यापि च समानोऽयं दोषः परस्परविशिष्टोपकार्योपकारकप्रत्यययोरन्योन्यापेक्षत्वात् । अनपेक्षत्वे न रसादेरेककालस्य रूपादेरनुमानं स्यात् । अथोपकारकादिप्रतिपत्ते रेवेतरज्ञानाविनाभावित्वन्नात्र २६४ १ ननु युक्तोऽयम-आ० हा ० वि० । न युक्तोयम-वा० वा० । २ यद्भा-भां० म० । ३-त्पत्ति द वा० वा० । ४- त्तिः चेत् आ० हा ० वि० । ५ सत्वादे क्ष-भां० । सत्वादक्ष - वा० बा० । ६-वान्तरवा० बा० । ७ तद्भा-भां० म० । ८- प्रश्ने निश्चयानुत्पत्तिरित्युक्तं कथं वा० वा० । ९ - भावानुत्पत्तिरित्युत्तरं आ०हा०वि० । १० - नांवा - वि० विना । ११- फलम - वा० बा० । १२ - मभेद अभ्युपा वा० बा० । १३- त्मनोपाधि - वा० वा० । १४ - रकभूतला - वि० । १५- भूतं आ० हा० वि० । १६- पात् सर्वद-भां० मां० विना । १७-मतः समस्तोपाधिमतः समस्तोपाधिसम्ब-भां० मां० । १८-सक्तेः वा० बा० । न्तरेण - भ० मां० वा० वा० विना । २० मात् सर्वद - वा० बा० । २१- ना सभां०] मां० । २२- हण सवा० वा० । २३ - माना रू-वा० वा० । २४- कार्यवशिष्ट मां० । २५- त्वात्प्रती- हा० वि० । २६-तद्भावो यु- वा० बा० । २७- रभातस्य भ० मां० । २८-वा भा-भां० मां० । २९ तहे भां० मां० विना । ३० गुण - भां० मां० विना । ३१ - क्षत्वादनपेक्षत्वादनपेक्षत्वे रसा - वा० बा० । ३२ - पत्तेरेकेर - वा० वा० । ३३- भावत्वा-आ० । ३४- त्वान्न दोष- भ० मां० आ० । त्वान्न चादोष वा० वा० । १९- भावा
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy