SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ २५४ प्रथमे काण्डेतथाभ्युपगमे सहकार्युपादानभावयोरभेदात् तत्कारणं सहकारि उपादानं वा यतः प्रसज्येत या पादानं नै तर्युपादानभेदात् कार्यभेदः सर्व प्रत्युपादानत्वात् । सहकारित्वे चोपादानस्यैवाभावा कुतस्तद्भेदात् कार्यभेदः? एवमपि यदि क्षणस्यैकत्रोपादानभाव एवान्यत्र सहकारिभाव इति र शक्तिभेदस्तक्षणिकस्याप्येकदैककार्यकारित्वमेवान्यदाऽन्यकार्यकारित्वमिति क्रमानेककार्यकारिको ५न स्यात् शक्तिभेदः । न च पूर्वापरकार्यकारित्वंयोरभेदादुत्तरकार्यकारित्वस्य प्रागेव सम्भवाद तदैवोत्तरकार्योत्पत्तिः स्यादिति वक्तव्यम् , क्षणिकत्वेऽप्यस्य समानत्वात् । तथाहि कारणसत्ताकाले तदनन्तरभाविकार्यकारित्वस्य सद्भावात् तदैव तत्कार्योत्पत्तिः स्यादिति कार्य-कारणयोरेककालताप्रसक्तिः। न चोपादानभेदादेव कार्यस्य भेदः, 'गोदर्शनसमयेऽश्वं विकल्पयतो मनस्कारलक्षणो पादानभेदाभावेऽपि सविकल्पाऽविकल्पयोः परेण भेदाभ्युपगमात्, तद्भेदेऽपि च तदुत्तरकालभा१०विनोऽनुसन्धानस्याभेदान्नोपादानभेदाद् भेद एवोपादेयस्य । अतः शक्तिभेदादेव भेदः कार्यस्य, शक्तिश्च भिन्नाऽभिन्ना शक्तिमतः-तद्हणेऽप्यग्रहणाद् भिन्ना, कार्याऽन्यथानुपपत्त्या च तत्रैव प्रती. यमाना सा ततोऽभिन्ना। व्यतिरेके शक्तिमतः शक्तेः अंशक्तात् कार्यानुपपत्तेः। न च व्यतिरिक्तायाः शक्तेरेव कार्योत्पत्ति भविष्यति, शक्तिमतोऽकारकत्वेनावस्तुत्वप्रसङ्गात् । न च शक्तिमतोऽपि कारकत्वम्, तस्याऽसा१५मर्थ्यात् । न च शक्तियोगात् तस्य शक्तत्वम् , अशक्तस्य भिन्नशक्तियोगेऽपि शक्तत्वानुपर्पत्तेः शक्तेस्तत्रानुपयोगात्; तदुपयोगे वा शक्तितः शक्तिमत उत्पत्तिरभ्युपगता स्यात् । तथा च स्वहेतोरेव शक्तस्योत्पत्तिरभ्युपगन्तव्या किमर्थान्तरभूतशक्तिपरिकल्पनया? शक्तस्य च स्वहेतोरेव तस्योत्पत्ती किं शक्तियोगपरिकल्पनेन? नापि शक्तिमतः शक्तिरभिन्नैव शक्तिमद्रहणेऽपि अगृहीतत्वात् , शक्तिः गृहीतैव तद्हणे केव२० लमतत्फलसाधात् विप्रलैब्धो न तां व्यवस्यति, असदेतत् ; सर्वतो व्यावृत्तवस्तुवादिनां विप्रल म्भनिमित्तस्य वस्तुभूतसाधर्म्यस्याभावात् । न चैकपरामर्शप्रत्ययहेतुत्वेन साधर्म्यमभ्युपगन्तव्यम् , चक्षुरूपाऽऽलोक-मनस्कारेष्वपि तस्य प्रसक्तेः। तस्माद् भ्रान्तिनिमित्ताभावाद् यदि शक्तिरनुभूता तदा तथैव निश्चीयेत; अनिश्चयान्नानुभूतेत्यवसीयते, अतस्ततः कथञ्चिदमिन्नापि । न च भेदाभेद योर्विरोधः, अबाधिताकारप्रत्ययविषयत्वात् तयोः यथा परपक्षे ऐकक्षणस्य स्व-परकार्यकरणाऽक२५रणयोः । न चैकक्षणस्य स्वकार्यकरणमेव परकार्याकरणमित्यादि वक्तव्यम्, विहितोत्तरत्वात् । निरंशे च क्षणे शक्तिभेदादपि न कार्यस्य भेदः, शक्तिभेदाभावात् निरंशत्वादेव । तन्न क्षणिकस्याक्रमका रित्वम् । नापि क्रमैकार्यकारित्वं तस्य युक्तम्, द्वितीयक्षणे क्षणिकस्याभावात् । अनेककालभावि. कार्यकारित्वं ह्येकस्य क्रमकारित्वम् तच्चैकक्षणस्थायिनि भावे कथमुपद्येत ? क्रमवत्क्षणापेक्षया स्वतोऽक्रमस्यापि क्रमकारित्वे क्षणिकस्य अक्षणिकस्यापि क्रमवत्सहकार्यपेक्षयाऽक्रमस्यापि क्रमका३०रित्वं किं नेष्यते ? स्वतोऽक्षणिकस्याऽक्रमत्वेऽक्रमेणैव किं न कार्योत्पत्तिः अनाधेयातिशयस्याक्षणिकस्य कालान्तरसहकारिप्रतीक्षाऽयोगादिति ? न, अक्षणिकस्यानाधेयातिशयस्यापि कार्यकारित्वस्य कालान्तरनियतत्वात् क्षणिकैस्येव सहकारित्वस्य चैककार्यकारित्वलक्षणत्वाद् युक्ता सहकारिप्रत्ययापेक्षाऽक्षणिकस्य । क्षणिकस्यापि ह्यनतिशयत्वात् सहकारिणि कालान्तरे वा नातिशयाधायकत्वेना. १-दान का-वि०। २ न नापा-वा. बा०। ३-नस्य चाभा-वि०। ४-त् कृतस्त-वा. बा०। ५-दा कारि-आ० वि०। ६-णान्येका-वा० बा०। ७-त्वयोर्मे-भां० मां० वा. बा. हा० विना। ८-कत्वे वास्य समा-वा. बा. हा०। ९-लत्वप्र-भां० मां० ।-लप्र-वा. बा. हा०। १०-गोर्द-भां. मां। ११-यतो नमस्का-भां० मां० विना। १२-मतः तग्रहणाद्भि-भां० मां० विना। १३ व्यतिरेकिके शक्तिभां. मां० वा. बा. हा० विना । १४ असत्कार्या-वा. बा०। १५-स्तुप्रस-आ० वि०। १६-पत्तिः भां. मां०। १७-कस्य हे-वा. बा०। १८-व प्रशक्तिमहणेऽपि अगृहीतत्वा शक्तैः ऽगृहीतैव वा. बा.। १९-लब्धे न आ० । लब्धौ न वि०। २०-स्तुरूपसा-भां० मा०। २१-श्चीयते हा० विना। २२-भूते व्यव-आ० वि०। २३ अतः स्वतः कथ-वा. बा.। अतस्तत् कथ-भां० मां०। २४ एव लक्ष-वा० बा०। २५ प्र० पृ. पं०४ । २६-मपकारि-वा. बा. हा.। २७-मकारि-आ०। २८-पद्यते भां. मां. विना । २९-क्रमवत्वे-भां. मां० ।-क्रमाव क्र-आ० । ३०-कारितप्र-वा. बा.। ३१-कस्यैव सह-बाबा.हा.। ३२-स्वस्य वैक-आ० वा. बा० ।-त्वस्यैवैक-वि० । ३३-णस्यायुक्ता भां• मां।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy