SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २५३ सम्बन्धात् सम्बन्धस्य च प्रतीतेः प्रकारान्तरेण एषां सम्बन्ध इति कल्पना युक्तियुक्तैव, प्रतीतिविरोधश्चैवं न स्यात् । अथ विकल्पिका प्रतीतिरारोपितगोचराऽसत्यपि सम्बन्धे सम्बन्धमादर्शयति, न तद्वशात् सम्बन्धव्यवस्था येन प्रतीतिविरोधः स्यादसम्बन्धवादिनः। कथं तर्हि सम्बन्धप्रतीतेवैशद्यम् विकल्पस्य वैशद्यानिप्टेः ? युगपट्टत्तेर्विकल्पाविकल्पयोरेकत्वाध्यवसायाद् वैशद्यभ्रमे सहभाविनोर्गोदर्शनाश्व विकल्पयोरप्येकत्वाध्यवसायाद् वैशद्यविभ्रमः स्यात् । अथासम्बद्धैरपि परमाणुमिः ५ सम्बन्धग्राहीन्द्रियज्ञानं तजन्यते ततोऽयमदोषः। नन्वेवमसम्बद्धानपि परमाणून् सम्बद्धानिवाध्यक्षबुद्धिरधिगच्छन्ती कथं भ्रान्ता प्रत्यक्षत्वमश्रुवीत ? प्रत्यक्षत्वे वा कथमतो न परमाणुसम्बन्ध सिद्धिः यतोऽसम्बन्धवादिनः प्रतीतिविरोधो न स्यात् ? परमाणूनामसम्बद्धानां जलधारणाद्यर्थक्रियाकारित्वानुपपत्तेः। अर्थक्रियाविरोधश्चासम्बन्धवादिनः वंशादीनां चैकदेशाकर्षणे तदपरदेशाकर्षणं च न स्यात्, १० वर्तमानविज्ञप्तिक्षणवत् पूर्वापरक्षणयोगेऽपि वा न स्वभावभेदः। अभावाव्यवधानलक्षणं हि नैरन्तर्यम् , तल्लक्षणश्च सम्बन्धः परेणाभ्युपगन्तव्य एव, तस्याऽभावे कार्योत्पत्तिरहेतुका स्यात् अनव. रतसत्त्वोपलम्भेनाभेदभ्रान्तिश्च न स्यात् केवलादेव सादृश्याद् भ्रान्तेरुत्पत्तावतिप्रसङ्गः सर्वत्र साहश्यात् तदुत्पत्तिप्रसक्तेः। सत्त्वोपलम्भश्चाभावाव्यवधानलक्षणमेव नैरन्तर्यम् तस्यास्तित्वे तल्लक्षणोऽस्त्येव सम्बन्धः। न चानेकाकारयोगेऽपि पीताद्यनेकाकारचित्रज्ञानवदेकान्ततो भेदः परार्थस्य १५ प्रतीयमानेऽभेदे एकान्तभेदानुपपत्तेः । अतः क्षणिकस्वभावापेक्षाऽक्षणिकभावसम्भवात् सम्भविनी भावानाम् । अथाऽनश्वरात्मनः क्रम-योगपद्याभ्यामर्थक्रियाविरोधात् ततोऽर्थक्रियानिवृत्तौ तन्नियता सत्ताऽपि निवर्तते, न चासतः कार्यत्वमिति कार्यात्मनः सर्वस्य क्षणिकत्वादनपेक्षत्व सिद्धिरिति साध्य-साधनयोरविनाभावसिद्धिः । ननु किमनया परम्परयों अविनाभावस्य व्यापकानुपलब्धेरेव २० सिद्धिरस्तु? यतः प्रकारान्तराभावाद व्यापकानुपलब्धेः सत्त्वलक्षणं कृतकत्वमक्षणिकाद् व्यावतमानं क्षणिकेष्वेवावतिष्ठते वस्तुधर्मस्य सतो गत्यन्तराभावात् । भवत्वेवमेवेति चेत्, न; प्रकारान्तरसद्भावे कथमविनाभावस्य व्यापकानुपलब्धेरपि प्रसिद्धिः नित्याऽनित्यात्मकेऽपि भावे सति कृतकत्वस्य क्षणिकत्वेनैव व्यास्ययोगात् ? __ भागासिद्ध चानपेक्षत्वम् क्षणिकस्वभावापेक्षया कृतकानामपि केषाश्चिदुभयात्मकत्वेन क्षणि-२५ कस्वभावाभावात् । विपक्षाद् व्यापकानुपलब्धेावृत्तस्य हेतोरभीष्ट एव साध्याव्यभिचार इति चेत्, अक्षणिकवादिनोऽक्षणिकाव्यभिचारः किमेवं न स्यात् ? तेनापि शक्यमेवमभिधातुम्-क्रमयोगपद्याभ्यां क्षणिकेऽर्थक्रियाविरोधः । तथाहि-एकसामग्र्यन्तर्गतयुगपदनेककार्यकारिण एकस्य स्वभावभेदमन्तरेण कार्यस्व भेदायोगात् स्वभावभेदवाऽ(देचाऽ)नेकत्वप्रसङ्गान्नैकस्य युगपदनेककार्यकारित्वम् । कारणस्वभावशक्तिभेदमन्तरेणापि कार्यस्योपादानभेदाद् भेदमिच्छता शक्तिभेदोऽ-३० भ्युपगत एव उपादान-सहकारिभावेनानेककार्यजन्मन्येकस्य वस्तुक्षणस्योपयोगाभ्युपगमात् उपादानसहकारिभावयोश्च परस्परं भेदात् । न चैकत्रोपादानभाव एवान्यत्र सहकारिभावः, कारणक्षणस्य १-ना बुद्धियुक्तै-वा० बा० हा० ।-ना युक्तै-आ० वि०। २ अर्थ वि-वा० वा. हा०। ३ विनो गो-वा. बा. हा. विना। ४ अर्थ स-वा. बा०। ५-म्बन्धैरपि भां० मां० विना। ६-ज्ञानं न जन्यभामां-ज्ञानं जन्य-वा. बा. हा.। -म्बन्धान-भां० मां० वा. बा. हा. विना। ८-म्बन्धानि-भां० मां. वा. बा. हा. विना। ९-न्तीति क-भां. मां० । १. “अर्थक्रियाविरोधश्चाणूनामन्योन्यमसम्बन्धतो जलधारणाहरणाद्यर्थक्रियाकारित्वानुपपत्तेः। रजवंशदण्डादीनामेकदेशाकर्षणे तदन्याकर्षणं चासम्बन्धवादिनो न स्यात्"-प्रमेयक पृ० १५२ प्र. पं०५।। ११-वादिनां आ० वि० ।-वादिना चेक-वा० बा० । १२-णस्य स-वा. बा. हा०। १३-स. त्तोप-वा. बा० । १४-लादेवासा-वा० बा० । १५-क्षणोऽस्त्य सम्ब-आ• वि.। १६-म्भविना भावा. बा०। १७-वर्तेत न भां मा०। १८ न वा-वा० बा० । १९-या विना-बा. हा. विना। २०-स्य ततो वि०। २१-स्तरास-भां० मा० विना। २२-द्ध वा-मां. आ०। २३-र्यस्याभेदा-वा. बा। २४-गात् अभावभेद वा-भां. मां० ।-गात् स्वभावभेदे वा वि० सं०। २५-नभेदाभेदमि-वा. बा. हा० ।-नभेदमि-आ० वि० । १६-नानक-भां० मां० विना । २७-स्परभेदा-भां. मां।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy