SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ २४६ प्रथमे काण्डेमपहायाऽनुमानस्यैव प्रामाण्यम् तस्य लिङ्गजत्वात् इतरस्य च तद्विपर्ययादिति वाच्यम्, विशेषतो दृष्टानुमानस्य लिङ्गजत्वेन प्रामाण्यप्रसक्तेः । न चानुभवविषयमात्राध्यवसायित्वेऽध्यक्षपृष्ठभाविविकल्पानामभ्युपगम्यमाने व्याप्तिसिद्धिरपि परस्योपपद्यते, सन्निहितमात्रप्रतिग्राहि त्वेनाध्यक्षस्य तद्या. पारानुसारिणो विकल्पस्यापि सर्वाक्षेपेण साध्य-साधनयोाप्तिग्राहकत्वासम्भवात् । तथा च देशा५न्तरादावुपलभ्यमानं साधनमनिश्चितसाध्यप्रतिबन्धं तत्र साध्यं न गमयेत् । अथ कार्य धूमो हुतभुजा कार्यधर्मानुवृत्तितो निश्चितः स देशान्तरादावप्यनलाभावे भवंस्तत्कार्यतामेवातिकामेदित्याकलि कोऽग्निनिवृत्तौ न क्वचिदपि निवर्त्तत, नाप्यवश्यंतयाऽग्निसद्भाव एव तस्य भाव उपलभ्येत । तथा, व्यापकाभावेऽपि तदात्मनो व्याप्यस्या(स्य)भावे न कदाचित् साधनं तत्स्वभावतया प्रतीयेतेति । नन्वेवं व्याप्तिसिद्धावपि तन्निश्चयकालोपलब्धेनैव स्यात् व्यापकेनास्य व्याप्तिः तस्यैव तथानिश्चयात, १० न; तादृशस्यापि साध्यव्याप्तग्रहणे तद्राहिणो विकल्पस्यागृहीतग्राहित्वं कथं न स्यात् ? यदेव हि प्रत्यक्षेण तव्याप्तत्वेनोपलब्धं ततस्तस्यैवानुमानं विशेषतो दृष्टम् तच्चानुमानं स्यात्, अन्यदेशादिस्थे. नाव्याप्तेः पारिशेप्यात् तोदृशव्यापकेनान्यत्र तादृशंस्य व्याप्तिसिद्धिरिति न वक्तव्यम्, पारिशेष्यासिद्धेः । तथाहि-तत् पारिशेप्यं किं प्रत्यक्षम् , उतानुमानम् ? न तावत् प्रत्यक्षम्, देशान्तरस्थस्या नुमेयस्य प्रत्यक्षेणाप्रतिपत्तेः प्रतिपत्तो वाऽनुमानवैयर्थ्यप्रसक्तिः। अथानुमानम् , ननु तत्रापि कथं १५साध्य-साधनयोः प्रतिवन्धसिद्धिः? न प्रत्यक्षेण, तस्य व्याप्तिग्राहकत्वेनाप्रवृत्तेः। नानुमानान्तरेण, अनवस्थाप्रसक्तेः । न तेनैवानुमानेन, इतरेतराश्रयप्रसङ्गात् । तमादनुमानप्रामाण्यवादिना सर्वोपसंहारेण व्याप्तिग्राही प्रत्यक्षजन्मा स्वविषयाविसंवादी विकल्पः प्रमाणयितव्यः। स चामिनिबोधिकं ज्ञानमस्मद्दर्शने प्रसिद्धमस्पष्टतया श्रुतं वा ऊहशब्दविशेषवाच्यतया न प्रत्यक्ष-परोक्षप्रमाणद्वयव्यतिरिक्तं तत् प्रमाणान्तरम् । प्रत्यक्षानुमानवादिनां तु व्याप्तिग्राहकं प्रमाणान्तरं प्रेसक्तम् प्रत्यक्षानु. २०मानाभ्यां व्याप्तिग्रहणासम्भवात्। न च प्रतिबन्धग्राहकस्य प्रमाणस्य स्वार्थे व्यभिचारः प्रतिबन्धा. भावात् इति वक्तव्यम्, तत्र योग्यतालक्षणप्रतिबन्धसद्भावात् । प्रत्यक्षेऽपि हि स्वार्थपरिच्छेदो योग्यतीत एवन पुनस्तदुत्पत्त्यादेः। तदुत्पत्तिप्रतिबन्धात् प्रत्यक्षस्य स्वार्थपरिच्छेदकत्वे इन्द्रियस्यापि तत्परिच्छेद्यत्वप्रसक्तिः। तत्सारूप्यात् तेस्य तत्परिच्छेदकत्वे नीलक्षणोऽपरनीलक्षणस्य परिच्छेदकः स्यात् परिच्छेदस्य ज्ञानधर्मत्वात् , अप्रसङ्गे नीलज्ञानमपरनीलज्ञानपरिच्छेदकं स्यात् । तदुत्पत्ति२५सारूप्याभ्यां समुदिताभ्यां प्रत्यक्षस्य स्वार्थपरिच्छेदकत्वे नीलज्ञानं समनन्तरनीलज्ञानस्य परिच्छेदक स्यात् । तदुत्पत्ति-सारूप्यसद्भावेऽपि समानार्थसमनन्तरप्रत्ययस्य न तद्राहकं व्यवस्थाप्यते तदध्यवसायाभावादिति चेत्, ननु 'तदुत्पत्यादिके प्रतिबन्धे समानेऽप्यर्थे एव तस्य तद्ध्यवसायो न पुनः समनन्तरप्रत्यये' इति पृष्टेन भवता सैव योग्यता नियामिका वक्तव्या । अपि च, 'विषयेन्द्रिय मनस्कारेषु विज्ञानकारणत्वेनाविशिष्टेषु विषयस्यैवाकारं बिभर्ति विज्ञानं नेन्द्रियादेः' तथा, 'नीला. ३० द्यर्थसारूप्याविशेषेऽपि नीलानं योग्यतादेशस्थमेव नीलाद्यर्थ विषयीकरोति नान्यम्' इत्यत्रापि योग्यतैव शरणम् । अतोऽस्या एव तत्सारूप्यादिविशेषेऽप्यवश्यमभ्युपगमनीयत्वात् अर्थप्रतिनियमः सैर्वत्राभ्युपगमनीय इति प्रत्यक्षवदूहोऽपि योग्यतीयाः प्रतिबन्धसाधकोऽभ्युपगन्तव्यः; अन्यथा अनु १-मवहा-भां० मां० विना। २-माण्याप्र-भां० मां० । ३-त्राव्यव-भां० मा० विना । ४-मात्रे प्रति-वा० बा०। ५-प्रतिबिम्बं त-भां० मा० विना । ६-वर्तते ना-भां० मां. विना। -नोप्यस्य भा-वा. बा०। ८-पि निश्च-वा० बा० । ९-स्यातादृशस्यापि भां० । १०-द्राहिणा वा० बा० । ११-ष्टं न चानुवा० बा० ।-टं न त्वानु-हा० वि०। १२-प्तेः परिशेष्यात् वा० बा०।-प्तेः पारिशेषात् आ० हा० ।-तेः परि. शेषात् वि०। १३ तादृशाव्या-मां० वा. बा० । तादृशांव्या-भां०। १४-न्यत्राताह-वा. बा. हा०वि०। १५-शस्याव्या-वा० बा० । १६-पत्तौ चानु-आ० । १७-कल्पवृप्रमा-हा० ।-कल्पवृक्षप्रमा-वि• । १८ स त्वाभि-वा. बा.। १९-दर्शनप्रसि-भां. मां० विना । २०-प्रशक्तम् हा० । प्रशस्तम् आ० । २१ -ताऽत एव आ० हा० वि० ।-ता एव वा० बा०। २२ तस्यातत्प-वा. बा. २३-ज्ञानपरि-आ. हा. वि०। २४-ज्ञानामपरि-वा. बा०। २५-तास्यैव मां. वा. बा० । २६ रूपाऽऽलोक-मनस्कार-चक्षुर्व्यः संप्रवर्तते। विज्ञानं मणि-सूर्याऽशु-गोशकृय इवाऽनलः" ॥. __ अनेका० टी० पृ० २०६ पं० १९ । २७-यनमस्का-वा० बा० । २८-ज्ञानयो-आ० हा०। २९ 'योग्यदेश-वि० सं०। ३०-प्याविशे -आ०। ३१ सन्नाभ्यु-आ० हा० वि० । 'सन्नभ्यु- वि० सं०। ३२-ताया प्रति-वा. बा०। ३३ प्रतिबिम्बसावा. वा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy