SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा। २४५ सम्बन्धाभावात् तस्य तथाऽप्रतिपत्तेश्च ? अथ प्रवृत्तसमारोपस्य स्वत एवाभावात् अनुमानात् क्षणिकत्वनिश्चये भाविनश्चाक्षणिकसमारोपस्यानुत्पत्तेः समारोपव्यवच्छेदकत्वं क्षणिकानुमानस्योच्यते, न; साक्षाद्भूतसमारोपनिषेधात् कथमविकले समारोपे प्रबन्धेनोपजायमाने क्षणविवेकनिश्चयःयेन ततोऽक्षणिकसमारोपस्य भाविनोऽनत्पत्तिः स्यात? निश्चयाऽऽरोपमनसोर्विरोधाभ्यः पगमात्; अन्यथा प्रत्यक्षपृष्ठभाविनः क्षणिकनिश्चयस्याप्युत्पत्तिप्रसङ्गः । तथा, परस्यापि निश्चयात्मना ५ प्रत्ययेन सर्वात्मनाऽर्थस्वरूपनिश्चयेऽपि समारोपप्रवृत्तौ तद्यवच्छेदाय प्रवर्त्तमानं प्रमाणान्तरमनर्थकं न स्यात् । तन्न क्षणविवेकनिश्चयः, निश्चये वा विरोधादेव नाक्षणिकसमारोपः। दृढरूपस्याक्षणिकसमारोपस्यास्त्येव व्यावृत्तिः, सादृश्यनिमित्तस्तु स्खलद्रूपारोपः स्थायीति चेत्, असदेतत्; अवधारितविशेषस्यानवधारितविशेषलक्षणसादृश्यासम्भवात् कथं समारोपः तन्निबन्धनोऽपि स्थायी युक्तः ? समारोपनिमित्तसादृश्यविरोधिविवेकावधारणसद्भावात् वह्निसन्निधानाद् रोमहर्षादिविशेष-१० वद् यथार्थनिश्चये विपर्यासानुपलब्धेश्च । अथ यथा निश्चितैकत्वस्यापि पुंसो द्विचन्द्रादिभ्रान्तिरक्ष. जत्वान्न निवर्त्तते तथा(थाऽ)क्षणिकभ्रान्तिरपि । नन्वेवमक्षणिकभ्रान्तेरक्षजत्वे न किञ्चिदपि प्रत्यक्ष. मभ्रान्तं स्यात् । "पश्यन्नपि न पश्यति" [ इति च धर्मकीर्तिवचनं विरुद्ध्येत । अथाऽक्षणिकत्वभ्रान्तिर्मानसी मरीचिकाचके तोयादि-१५ भ्रान्तिवत् तथापि नावधारितविशेषस्योत्पद्येत, अनवधारितविशेषस्यैव तदुत्पत्तेः । अक्षणिकावभासस्य मानसत्वे वस्त्वन्तरस्मरणसमये उत्पत्तिश्च न स्यात् ; विकल्पद्वयस्य युगपदनुत्पत्तेः उत्पत्ती वाऽश्वं विकल्पयतोऽपि 'गोदर्शनाद् दर्शने कल्पनाविरहसिद्धिरयुक्ता स्यादिति क्षणविवेकनिश्चयेsवश्यंभाव्यक्षणिकसमारोपाभावः । तत्सद्भावे च न क्वचिदनुमानानिश्चितनानात्वस्यात्माऽऽत्मीयभावयोः प्रवृत्तिर्युक्ता। न ह्यात्मनाऽनुमानान्नानात्वनिश्चयलक्षणे नैरात्म्यदर्शने सति एकप्रत्यय-२० लक्षणमात्मदर्शनं सम्भवति विवेकाविवेकग्रहणयोरेकत्वविरोधात्; तद्भावानात्मीयग्रहः; तदभावे च तत्पूर्वकस्य रागादेरनुत्पत्तः कथमभिलषिताऽनभिलषितसाधनयोस्तदध्यवसायेन प्राप्ति-परिहाराय प्रवृत्तिरुपैयेते ? अनाश्रवचित्तोत्पत्तिप्रबन्धलक्षणमुक्तिहेतौ च मुमुक्षोर्यनो विफलः स्यात् नै त्म्या: द्यभ्यासमन्तरेणाप्यनुमानात् क्षणिकत्वनिश्चयमात्रेणैव मुक्तिसिद्धेः । आत्मदर्शनस्य सहजस्याहानेस्तन्निमित्ताऽऽत्माऽऽत्मीयस्नेहपूर्वकसुखाभिलाषवतः सुख-दुःखसाधैंनेष्वादान-परिहारार्था प्रवृत्तिः२५ अविरुद्धेति चेत्, स्यादेतत् यदि तत्सहजमात्मदर्शनमेकप्रत्ययलक्षणं न स्यात् तद्रूपत्वे त्वात्मनोऽनु. मानात् क्षणविवेकनिश्चयमात्रेणैव तस्य निरुद्धत्वान्न तन्निमित्ता संसारकारणेषु प्रवृत्तिः । अथैकप्रत्ययलक्षणं सहजमात्मदर्शनं न भवति न तर्हि नैरात्म्याभ्यासादप्यविरोधात् तन्निवृत्तिरिति व्यर्थो नैरात्म्याभ्यासः स्यात् । अतोन साक्षात् पारम्पर्येण वाऽक्षणिकसमारोपव्यवच्छेदकत्वात् क्षणिकानुमानस्य प्रामाण्यम्, अध्यक्षप्रभवविकल्पेऽपि चैतत् समानम् निश्चिते तत्रापि समारोपाभावात्।३० न च प्रवृत्तसमारोपाव्यवच्छेदकत्वाद् विकल्पस्याप्रामाण्यमिति वक्तुं युक्तम्, प्रवृत्तसमारोपन्यवच्छेदकत्वेन प्रामाण्य(ण्ये) विशेषतो दृष्टानुमानस्यापि प्रामाण्यप्रसक्तिः तस्यापि तद्रूपत्वात् । न च प्रवृत्तः समारोपो व्यवच्छेत्तुं शक्यः अभावस्य निर्हेतुकत्वाभ्युपगमात् । न च प्रत्यक्षपृष्ठभाविविकल्प. १-ना क्ष-मां मां० विना । २-नश्च क्ष-भां. मां० विना। ३-नुपपत्तेः भा. मा. वि.। ४-क्षणिकस्यानु-भां• मां०। ५-मारोपिनि-वा० बा०। ६ प्रतिबन्धेनो-भां० मां० वा० बा० विना। ७ क्षणे विवेकवि०। ८-करोपस्य आ०। ९-थापि पर-वा. वा०। १०-पारोपस्था-वा. बा. हा०वि०। ११ अवधारितविशेषलक्षणसाह-आ० हा०वि०। १२-द्भाववह्नि-भां० मा. विना। १३-दपि भ्रान्तं आ० हा. वि.। १४ गोर्दर्शनात दर्शनादर्शने आ० । गोदर्शने वा० बा० । १५-मारोप्याभा-भां० मा० । १६-ना नि-चा० बा०। १७-क्षणनै-भां० मां० वा. बा०। १८-पद्यते आ०। १९-त नाधव-भां०। २०-रात्म्याव्यत्यास-भां० मां-रात्म्याभ्यास-वि०।-रात्माभ्यास-हा०। २१-नाक्षणिकत्वानिश्च-हा०वि०। २२-त्तात्मीय-मां० । २३-त्मीयं स्नेह-भ० मा०विना। २४-पूर्वसु-आ० हा० वि० । २५-धनेप्यादा -भां० मा०। २६-रार्थप्र-वा० बा० । २७-त्मन्यनुमा-भां० मां. विना। २८-स्य विरु-भां. मां० विना। २९-वृत्तेः भां० मां० वा. बा०। ३०-वृत्तेः आ०। ३१-क्षपृष्टिभावि-आ० हा० वि०।-क्षपृष्टिकाभाविवा० बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy