SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २४३ मिन्नं 'समानाः' इति प्रत्ययविषयभूतमभ्युपगम्यते तथाभूतस्य तस्य शब्देनाभिधाने किमित्यन्यत्र प्रेरितोऽन्यत्र खादनाय धावेत यद्युन्मत्तो न स्यात् । अत एव ' "वर्णाकृत्यक्षराकारशून्यं गोत्वं हि गीयते"। [ न च निर्विकल्पकेऽक्षप्रभवे प्रत्यक्षे पुरोव्यवस्थिततद्यक्तिद्वयप्रतिभासव्यतिरेकेण परो यथाव्यावर्णितस्वरूपः सामान्याकारः प्रतिभाति, नापि सविकल्पके 'गौौः' इत्युल्लेखवति व्यक्तिस्वरूपं ५ बहिरुद्भासमानमन्तश्चाभिजल्पाकारमपहायान्यः सामान्यात्मा यथाव्यावर्णितस्वरूपः प्रतिभाति, न चान्यावभासमन्याकारार्थव्यवस्थापकं ज्ञानं तद् भवति अतिप्रसङ्गात्' इत्येतदपि निरस्तम्, अवर्णाकृत्याद्याकारव्यतिरेकेण सादृश्यपरिणामात्मनः सामान्यस्याक्षजप्रतिपत्तिविषयस्य व्यक्त्या त्मतया दाहाद्यर्थक्रियाकारिणोऽभ्युपगमात् । न च शाबलेयादेः सादृश्यं बाहुलेयाद्यपेक्षमिति तेदप्रतीतौ तदपेक्षस्य तस्याप्यप्रतिपत्तिरिति वक्तुं शक्यम् , अशेषपदार्थवैलक्षण्यप्रतिपत्तावप्यस्य १० समानत्वात् । न च सर्वतो व्यावृत्तिः व्यावृत्तपदार्थस्वरूपमेवेति तत्प्रतिपत्तौ साऽपि प्रतीयते व्यावृत्त्या(वा)र्थप्रतिपत्तिमन्तरेणापीति वक्तव्यम्, सादृश्यप्रतिपत्तावप्यस्य समानत्वात् । अथ सजातीयविजातीयव्यावृत्तं निरंशं वस्तु तत्सामर्थ्यार्थ्य)भाविनि च प्रत्यक्षे तत् तथैव प्रतिभाति, तदुत्तरकालभाविनस्त्वैवस्तुसंस्पर्शिनो विकल्पाः व्यावर्त्यवस्तुवशविभिन्नव्यावृत्तिनिबन्धनात् (नान्) सामान्यमेदान् व्यावृत्ते वस्तुन्युपकल्पयन्तः समुपजायन्ते ने तद्वशात् तयवस्था युक्ता, अति-१५ प्रसङ्गात् । तदुक्तम् "सर्वभावाः स्वभावेन स्वस्वभावव्यवस्थितेः। स्वभाव-परभावाभ्यां यस्माद व्यावृत्तिभागिनः"॥ "तस्माद् यतो यतोऽर्थानां व्यावृत्तिस्तन्निबन्धेनाः। "जातिभेदाः प्रकल्प्यन्ते तद्विशेषावगाहिनः" ॥ [ ] इत्यादि ।२० ननु 'स्वस्वभावव्यवस्थितेः' इत्येतस्य हेतोः स्वसाध्येन व्याप्तिः किं प्रत्यक्षेण प्रतीयते, औहोखिदनुमानेन? न तावदनुमानेन, प्रत्यक्षाविषयत्वेन सर्वभावानां धर्मिणोऽसिद्धेस्तदनुत्थानात्, व्याप्तिप्रसिद्धौ चानुमानं प्रवर्तते । न च साध्य-साधनयोः सर्वोपसंहारेण व्याप्तिरन्यतोऽनुमानात् सिद्ध्यति, तत्राप्यनुमानान्तरापेक्षणेनानवस्थाप्रसक्तेः। नापि प्रत्यक्षेण, तस्य सन्निहितविषयग्राहकत्वेन देशादिविप्रकृष्टाशेषपदार्थालम्बनत्वानुपपत्तेः। अथ पुरोऽवस्थितेषु भावेष्वक्षजप्रत्ययेन 'स्वस्वभा-२५ १धावते-भां० मां। २ "वर्णाकृत्यक्षराकारशून्या जातिस्तु वर्ण्यते"-तत्त्वसं० का० ७३९ पृ. २४३ । __"वर्णाकृत्यक्षराकारशून्यं गोत्वं हि कथ्यते"-अपोहसि० पृ० १२ पं० ५। ३-ण पुरो भां० मा०। ४-रूपसा-पा० बा०। ५-था वर्णित-हा० वि० । ६-प:सामान्याकारः प्रति-भां० मां । ७ इति यतदपि भां० मां०। ८-ण सदृशप-भां० मा० वा. बा० विना । ९ व्यक्तात्मभां० मां. वा. बा०। १० तदप्रतिपत्तौ भां० मां० । तदप्रतीतौ तदापेक्षस्य तस्याप्यप्रतिपत्तौ तदापेक्षस्य वा. बा० । तत्प्रतीतो आ०। ११ व्यावृत्तार्थ-वि० । व्यावर्गार्थ-वा. बा०। १२-रंशव-आ० । १३-स्त्वसंस्पर्शि-वा. बा. विना। १४-कल्प्याः भां० मां०। १५-वर्तिवस्तु-आ०। १६-दा व्याआ० हा०। १७-वृत्तिव-आ०। १८-यतः स-आ० हा०। १९ न तत्तद्दशा-आ० । २. सर्वे भावि० । इदं पद्यद्वयम् अनेकान्तजयपताकाटीकायाम् “आह च" इत्युक्त्वा उद्धृतम्-पृ० ५२ पं० १४ । अष्टसह. पृ० १७३ पं० ५। प्रमेयक पृ० १४१ प्र. पं. ३। श्लो० वा. पार्थ० व्या० पृ. ५७८ पं०१९। २१ उत्तरार्धमिदं “यदधिकृत्याह न्यायवादी" इत्युल्लिख्य व्याख्यातमनेकान्तजयपताकाटीकायाम् पृ. ३१५ पं० ५। "न्यायवादी धर्मकीर्तिः" इत्यपि व्याख्यातं तत्रैव पृ० ३१५ पं०१५। २२-भावापर-भां. मां० । २३-न्धना जा-भां० मा०। "व्यावृत्तिस्तन्निबन्धना । जातिभेदाः" इति श्लो. वा. पार्थ० व्या० पृ. ५७८ पं० १९ । अस्य व्याख्या प्रमेयक. टिप्पण्यामित्थम्-"व्यावृत्तिर्निबन्धनम् येषां ते" "सामान्यभेदाः"-पृ० १४१ प्र. पं. १५। २४-दात् प्र-वा. बा०। २५-होखिद-भां. मां• वा० बा०। २६-मानेन तावदनुमानेन प्रत्यक्ष-भां. मां० ।-मानेन प्रत्यक्ष-आ• हा० वि०। २५-त्यक्षवि-वा० बा० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy