SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - प्रमाणान्तरबाधाविरहः, लक्षणयुक्ते वाधासम्भवेऽन्यत्रापि तत्सम्भवाद्धेतोरसाध्येन श्रावणत्वेन विरोधाभावात् संशयितव्यतिरेकस्यायथोक्तत्वेऽन्यत्रापि कथञ्चित् स्वभावे मेदस्या मेदेन (ना) विरोधात् समानमुत्पश्यामः । संर्वथा स्वभावभेदस्यं चाभेदविरोधिनो दृष्टान्तेऽप्यभावाद घटादेरपि केनचिदाकारेण सदृशत्वेनाभेदात् । यदि पुनः 'तादात्म्यरहिताऽत्यन्त स्वभावभेदात्' इति हेत्वर्थो विवक्षित५ स्तदाऽसिद्धो हेतुः, सामान्य- विशेषयोस्तादात्म्येनापि प्रत्यक्षतः प्रतीतेः । न च प्रकृतानुमानबाधनात् तत्तादात्म्यप्रतीतिभ्रान्तिरिति नासिद्धो हेतुः इतरेतराश्रयदोषप्रसङ्गात् । तथाहि - प्रकृतानुमानस्य प्रवृत्तौ तन्मिथ्यात्वेन पंचधर्मतानिश्चयः, तन्निश्चये चानुमानस्य प्रवृत्तिरिति व्यक्तमितरेतराश्रयत्वम् । प्रमाणान्तरेण तद्वीधने प्रकृतसाधनवैकल्यम्, तत एंव तद्भेदसिद्धेः । 'सामान्य- विशेषयोर्भेद एव, भिन्नयोगक्षेमत्वात्, हिमवद् - विन्ध्ययोरिति (रिव)' इत्येतदपि साधनं प्राक्प्रदर्शितसाधनदोषं १० नातिवर्तते इत्ययुक्तमेव, भिन्नयोगक्षेमत्वम्य विपक्षेण साक्षादविरोधिनोऽनिश्चितव्यतिरेकस्य मेदेन सिद्धेश्च । अथाऽसाध्यस्य साधनविरुद्धक योगक्षेम त्वच्यामत्वाद् विरोधः पारम्पर्येण सिद्ध एव, भवेदेतत् यदि तत्रापि व्याप्यस्य व्यापक विरोधिना विरोधः "सिद्ध्येत्; स चासिद्धः, विरोधद्वयस्या: प्यसिद्धेः । भिन्नयोगक्षेमस्याप्यभेदाभ्युपगमे भेदः क्वचिदपि न सिद्ध्यदिति विश्वमेकं स्यादिति चेत्, स्यादेतत् यद्याभ्यां भेदाभेदव्यवहारव्यवस्था भवेत् सा तु भेदाभेदप्रतिभासवशादिति सामान्य१५ विशेषयोरसहोत्पादविनाशेऽव्य भेदप्रतिभासादभेदो न “विरुद्ध इति कथं न वस्तुभूतसामान्यस द्भावः ? न च यदेव शाबलेयव्यक्ती सदृशपरिणतिलक्षणं सामान्यं तदेव बाहुलेयव्यक्तावपि, व्यापकयैकस्य सर्वगोव्यक्त्यनुयायिनस्तस्यानभ्युपगमात् तदनभ्युपगमश्च शाबलेयादिव्यक्तीनां बाहुलेयादिव्यक्तिसदृशतया प्रतिभासेऽप्येकानुगत सामान्य क्रोडी कृतत्वेनाप्रतिभासनात् । परेणापि हि - "समाना इति तग्रहात्" [ 1 २० इति ब्रुवता स्वहेतुभ्य एव केचिच्छावलेयादिव्यक्तिविशेषः सदृशा उत्पन्ना इत्यभ्युपगतमेव केवलं सदृशपरिणतिलक्षणस्तासां धर्मः कथञ्चिदभिन्नो वस्तुभूतोऽभ्युपगन्तव्यः अन्यथौऽपारमार्थिक विजातीयावृत्तिनिबन्धनत्वे सादृश्यपरिणतेः सजातीयव्यावृत्तिनिबन्धनस्याप्यत्यन्तभिन्नरूपस्यापारमार्थिकत्वात् तत्परिणतिव्यतिरेकेण चापरस्य स्वलक्षणस्यासम्भवात् तद्ाकारज्ञानस्वलक्षणस्याप्यभाव इति सर्वशून्यताप्रसक्तिः । न च 'सेवास्तु' इति वक्तुं युक्तम्, अप्रमाणिकायास्तस्या २५ अप्यनभ्युपगमनीयत्वात् । तस्मात् समानासमानपरिणामात्मनः शाबलेयादिवस्तुनोऽबाधिताकारप्रत्यक्षप्रतिपत्तौ प्रतिभासनाद् विशेषवन्न सामान्याभावः । एतेन - २४२ "सर्वस्योभयरूपत्वे तद्विशेषनिराकृतेः । चोदितो दधि खादेति किमुष्ट्रं नाभिधावति ॥ "अथास्त्य तिशयः कश्चिद् येन भेदेन वर्तते । स एव दधि सोऽन्यत्र नास्तीत्यनुर्भेयं परम्" ॥ [ ३० 1 इत्यादि यदुक्तं धर्मकीर्तिना तदपि पराकृतं द्रष्टव्यम् । न ह्यस्माभिर्दभ्युष्ट्रयोरेकं तिर्यक् सामान्यं वस्तुत्वादिकं व्यक्त्यभेदेन व्यवस्थितं तथाभूतप्रतिभासाभावादभ्युपगम्यते, यादृग्भूतं तु प्रतिव्यक्ति । पक्षे ध-आ० । १ - व भेदस्याऽभेदेनावरोधात् वा० वा० । व भेदेन वि-आ० हा० बि० । २- स्वभा - हा ० वि० । ३-स्य वामे- हा० वा० वा० । ४- तीतिभ्रा - भ० मां० विना । ५ पक्षिध - भां०] मां० ६- द्वाधके प्रभां० मां० विना । एतद्भेद-आ० हा ० वि० । एवद्भेद - वा० वा० । 'रिवेत्येतद' - वि० सं० । ९ धनं दोषं भ० मां० । १०- मस्य भ० मां० | -वव्यापत्वा-मां० । १३- त य-मां० । १४ सिद्ध्येत सभां०] मां० विना । ७ ८- रित्येतद - भां० म० । ११ व्याप्यसि भां० म० । १२ १५- नाशोप्य - आ० हा ० वि० । १९ - तत्वेन प्रति-भां० मां० विना | २२- गत के भां० मां० विना । २३-व२६ - व्यावृत्तनि-आ० । २० १६ विद्धः मां० । १७ - हुबलेय- मां० । १८ - हुबलेया - मां० | समान इति भ० मां० । लस - वि० । २४ वस्तूभू-मां० | २५- थापर - भ० मां० विना हशप-भां० मां० | २८-पस्य पावा० बा० । २९-ण वा वा० ३१ अप्रमाणकाया-वा० बा० । अप्रामाणिकाया - वि० । ३२ -भासाद् वि-आ० हा ० वि० ।-भानाद् वि २१-षाः परादृशा-आ० हा ० वि० । । २७- नत्वे स बा० । ३० - ति शून्य-भां० मां० विना । बा० बा० । ३३ अनेका० पृ० १८ पं० ६ । ३४ - भयप - हा० वि० । ३५ - भूताप्र - वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy