SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ २१८ प्रथमे काण्डेतद्वतोऽभिधानात् तद्गतभेदानाक्षेपात् तैः सह सामानाधिकरण्यादेरभावप्रसङ्ग उक्तः तद्वदपोहपक्षे नोवतरति, व्यतिरिक्तान्यापोहवतोऽनभिधानात् । न ह्यस्मन्मते परपक्ष इव सामानाधिकरण्याभावः। तथाहि-'नीलम्' इत्युक्ते पीतादिव्यावृत्तपदार्थाध्यवसायिभ्रमर-कोकिलाऽअनादिषु संशय्यमानरूपं विकल्पप्रतिविम्बकमुदेति, तच्चोत्पलशब्देन कोकिलाँदिभ्यो व्यवच्छिद्यानुत्पलव्यावृत्तवस्तु. ५ विषये व्यवस्थाप्यमानं परिनिश्चितात्मकं प्रतीयते; तेन परस्परं यथोक्तबुद्धिप्रतिबिम्बकापेक्षयाँ व्यवच्छेद्यव्यवच्छेदकभावान्नीलोत्पलशब्दयोर्विशेष्यविशेषणभावो न विरुध्यते, द्वाभ्यां वाऽनीलानुपलव्यावृत्तैकप्रतिविम्बात्मकवस्तुप्रतिपादनादेकार्थवृत्तितया सामानाधिकरण्यं च भवतीति; परपक्षे तु तद्यवस्था दुर्घटा। तथाहि -विधिशब्दार्थवादिपक्षे नीलादिशब्देन नीलादिस्वलक्षणेऽभिहिते 'किमुत्पलम् आहोस्विद् अञ्जनम्' इत्येवमज्ञानं विशेषान्तरे न प्राप्नोति सर्वात्मना तस्य वस्तुनः १० प्रतिपादितत्वात् । एकस्यैकदैकप्रतिपत्रपेक्षया ज्ञाताऽज्ञातत्वविरोधान्न धर्मान्तरे संशय-विपर्यासा वित्युत्पलादिशब्दान्तरप्रयोगाकाङ्क्षा प्रयोक्तुरपि न प्राप्नोति यदर्थमुत्पलादिशब्दोच्चारणम्-तस्य नीलशब्देनैव कृतत्वात् । अथापि स्यात् तद् वस्त्वेकदेशेनाभिहितं नीलशब्देन न सर्वात्मना; तेन स्वभावान्तराभिधानायापरः शब्दोऽन्वेष्यते, असदेतत् ; न ह्येकस्य वस्तुनो देशाः सन्ति येनैक देशेनाभिधानं स्यात् एकत्वानेकत्वयोः परस्परपरिहारस्थितलक्षणत्वात् , इति यावन्तस्त एकदेशा१५स्तावन्त्येव भवता वस्तूनि प्रतिपादितानीति नैकमनेकं सिद्ध्येत् । स्यादेतत् न नीलशब्देनं द्रव्यमभिधीयते किं तर्हि ? नीलाख्यो गुणः तत्समवेता वा नीलत्वजातिः, उत्पलशब्देनाप्युत्पलजातिरेबोच्यते न द्रव्यम् । तेन भिन्नार्थाभिधानादुत्पलादिशब्दान्तराकासा युज्यत एव । नन्वेवं परस्परभिन्नार्थप्रतिपादकत्वेनं नितरां नीलोत्पलशब्दयोन सामाना. धिकरण्यम् बकुलोत्पलशब्दयोरिवैकस्मिन्नर्थे वृत्यभावात् । अथ नीलशब्दो यद्यपि गुणविशेषवचन२० स्तथापि तद्वारेण नीलगुण-तजातिभ्यां सम्बद्धं द्रव्यमप्याह, तथोत्पलशब्देनापि जोतिद्वारे (द्वारेण) तदेव द्रव्यमभिधीयत इति तयोरेकार्थवृत्तिसम्भवात् सामानाधिकरण्यं भविष्यति न बकुलोत्पल १-दानां क्षेयात् आ० । २ पृ. १९७ पं० २३ तथा ४० । ३ नाहरति वा० बा० । ४ "केवलानीलशब्दादेर्विशिष्टं प्रतिबिम्बकम् । कोकिलोत्पलभृङ्गादौ प्लवमानं प्रवर्तते"॥ "पिकाऽञ्जनाद्यपोहेन विशिष्टविषयं पुनः । तदिन्दीवरशब्देन स्थाप्यते परिनिश्चितम्" ॥ "सामानाधिकरण्यादिरेवमस्मिन्न बाधितः । परपक्षे तु सर्वेषां तद्वयवस्थाऽतिदुर्घटा"॥ तत्त्वसं• का० ११०२-११०३-११०४ पृ. ३४० । शास्त्रवा० स्याद्वादक. पृ. ४०६ प्र. पं०४ । ५ संसह्य-वा० बा० । संसज्य-भां० मां०। ६-शब्देनाकोकि-वा० बा०। ७-लादिभ्योऽव्यवच्छि-मां०। ८-या व्यवच्छेद्यव्यवस्थाभावा-वा. बा०।-या व्यवच्छेदकव्यवस्थाभावा-आ. हा. वि.। ९-ण्यं भव-वा० बा० । १० "तथा केन शब्देन सर्वथोक्तं खलक्षणम् । तथा चाभिहिते तस्मिन् कस्माद् भेदान्तरेऽमतिः" ॥ तत्त्वसं. का०११०५पृ०३४१। शास्त्रवा० स्याद्वादक. पृ. ४०६ प्र. पं०८। ११-शब्दे नीला-भां० मा०। १२-न्तरेण प्रा-आ० । १३ “यदर्थमपरः शब्दः प्रयुज्येताऽत्र वस्तुतः । सर्वथाऽभिहिते नो चेत् तदने प्रसज्यते” ॥ तत्त्वसं० का० ११०६ पृ० ३४१ । १४ वस्तुन एकदेशाः सन्ति मां० । मां०पाठवत् तत्त्वसं० पजि. पृ० ३४१ पं० २२ । “एकस्य वस्तुनो देशानुपपत्तेः"-शास्त्रवा० स्याद्वादक. पृ० ४०६ प्र. पं. १०। १५-न नीलोत्पलमभि-आ०।-न मभि-वा० बा० हा०वि०। “न नीलशब्देन द्रव्यमभिधीयते"-तत्त्वसं० पञ्जि. पृ. ३४१५० २६ । १६ "नीलजातिगुणो वाऽपि नीलशब्देन चेद् गतः। अन्येन्दीवरजातिस्तु व्यवसेयोत्पलश्रुतेः"॥ "एवं सति तयोर्भेदाद् बकुलोत्पलशब्दवत् । सामानाधिकरण्यादि सुतरां नोपपद्यते"॥ तत्त्वसं० का. ११०७-११०८ पृ. ३४२। १७-न नातरां वा० बा०।-न नन्तरं आ० हा०वि०। १८-योरेवैक-भां० मां. आ० । वा. बा. प्रतौ नायं पाठांशः। १९-नथे नीलोत्पलशब्दयो-भां० मां०। २० "जाति-गुणविशेषवचनः"-तत्त्वसं० पजि. पृ० ३४२ पं० १०। २१ जातिरवो त-वा. बा० । “जातिद्वारेण"-तत्त्वसं० पञ्जि.पृ. ३४२ पं० ११ । पिनीलशब्देन चानाधिकरण्यादि १०७-११०८ बा. प्रतौ
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy