SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ १४२ प्रथमे काण्डेप्रदेशवृत्तित्वम् । तथापि तवृत्तित्वे शानेतरस्वभावतयाऽऽत्मनः अनेकान्तसिद्धिः । व्यतिरेके आत्मगुणत्ववदन्यगुणत्वस्याप्यप्रतिषेधाद् विशेषगुणत्वासिद्धिः । व्यतिरेकाविशेषेऽप्यात्मन एवं गणो ज्ञानं नाकाशादेरिति किंकृतोऽयं विशेषः ? समवायकृत इति चेत्, नः तस्यापि ताभ्यामर्थान्तरत्वे तदवस्थो दोषः, व्यतिरेके समवायस्य सर्वत्राविशेषाद् न ततोऽपि विशेषः । ५अव्यतिरेके तस्यैव अभाव इति न ततो विशेषः । न च समवायः संभवति इति प्रतिपादितम् । न चात्मनो व्यापित्वे नित्यत्वे च ज्ञानादिकार्यकारित्वमपि संभवति। तन्न तत्कार्यत्वादपि तद्विशेषगुणो ज्ञानम् । न चात्मनः प्रदेशाः सन्ति येन प्रदेशवृत्तित्वं ज्ञानस्य सिद्धं स्यात् । कल्पिततत्प्रदेशाभ्युपगमे च तवृत्तित्वमपि हेतुः कल्पित इति न कल्पितात् साधनात् साध्यसिद्धिर्युक्ता, सर्वतः सर्वसिद्धिप्रसङ्गात् । सन्दिग्धविपक्षव्यावृत्तिकत्वं च हेतोः विपर्यये बाधकप्रमाणावृत्त्याऽत्रापि १० समानमिति । __ तथा, स्वदेहमात्रव्यापकत्वेन हर्ष-विषादाद्यनेकविवर्तात्मकस्य 'अहम्' इति स्वसंवेदनप्रत्यक्षसिद्धत्वादात्मनो विभुत्वसाधकत्वेनोपन्य स्यमानः सर्व एव हेतुः प्रत्यक्षबाधितकर्मनिर्देशानन्तरप्रयुक्तत्वेन कालात्ययापदिष्टः । सप्रतिपक्षश्चायं हेतुरित्यसत्प्रतिपक्षत्वमप्यस्य लक्षणमसिद्धम् । स्वदेहमात्रात्मप्रसाधकश्च प्रतिपक्षहेतुरत्रैव प्रदर्शयिष्यते । तन्नातोऽपि हेतोरात्मनो विभुत्वसिद्धिः। १५ यदप्यात्मनो विभुत्वसाधनं कैश्चिदुपन्यस्तम्-"अदृष्टं स्वाश्रयसंयुक्ते आश्रयान्तरे कर्म आरभते, एकद्रव्यत्वे सति क्रियाहेतुगुणत्वात् , यो य एकद्रव्यत्वे सति क्रियाहेतुगुणः स स स्वाश्रयसंयुक्त आश्रयान्तरे कर्म आरभते यथा वेगः, तथा चादृष्टम् , तस्मात् तदपि स्वाश्रयसंयुके आश्रयान्तरे कर्म आरभने इति । न चासिद्धं क्रियाहे तुगुणत्वम्, 'अग्नेरू ज्वलनम्, वायोस्तिर्यपवनम्, अणु-मनसोश्चाद्यं कर्म देवदत्तविशेषगुणकारितम् , कार्यत्वे सति देवदत्तस्योप२० कारकत्वात्, पाण्यादिपरिस्पन्दवत्, एकद्रव्यत्वं चैकस्यात्मनस्तदाश्रयत्वात्, एकद्रव्यमदृष्टम्, विशेषगुणत्वात् , शब्दवत्' । 'एक द्रव्यत्वात्' इत्युच्यमाने रूपादिमिळमिचारस्तन्निवृत्त्यर्थम् 'क्रियाहेतुगुणत्वात्' इत्युक्तम् । 'क्रियाहेतुगुणत्वात्' इत्युच्यमाने मुशलहस्तसंयोगेन स्वाश्रयाऽ. संयुक्तस्तम्भादिचलनहेतुना व्यभिचारः, तन्निवृत्त्यर्थम् 'एकद्रव्यत्वे सति' इति विशेषणम् । 'एकद्रव्यत्वे सति क्रियाहेतुत्वात्' इत्युच्यमाने स्वाश्रयासंयुक्तलोहादिक्रियाहेतुनाऽयस्कान्तेन २५व्यभिचारः, तन्निवृत्त्यर्थम् ‘गुणत्वात्' इत्यभिधानम्" [ ] एतदपि प्रत्यक्षबाधिनप्रति ज्ञासाधकत्वेन एकशाखाप्रभवन्वानुमानवदनुमानाभासम् । 'एकद्रव्यत्वे' इति च विशेषणं किमेकस्मिन् द्रव्ये संयुक्तत्वान्, उत तत्र समवायात् ? तत्र यद्याद्यः पक्षः, स न युक्तः; संयोगगुणेनादृष्टस्य गुणवत्त्वाद द्रव्यत्वप्रसक्तेः 'क्रियाहेतुगुणत्वात्' इत्येतस्य बाधाप्रसङ्गात् । अथ द्वितीयः तदा द्रव्येण सह कथञ्चिदेकत्वमदृष्टस्य प्राप्तम्, न ह्यन्यस्यान्यत्र ३० समवायः, घट रूपादिषु तस्य तथाभूतस्यैवोपलब्धेः। न हि घटाद् रूपादयः, तेभ्यो वा घटः, तटस्तरालवर्ती समवायश्च भिन्नः प्रतीतिगोचरः, अपि तु कथञ्चिद् रूपाद्यात्मकाश्च घटादयः तदात्मकाश्च रूपादयः प्रतीतिगोचरचारिणोऽनुभूयन्ते; अन्यथा गुण-गुणिभावेऽतिप्रसङ्गादू घटस्यापि रूपादयः परस्य स्युः। तेषां तत्राप्यप्रतीतेरितरेषां तु प्रतीतेः' इत्यादिकं प्रतिविहित. त्वाद् नात्रोद्घोष्यम् । तेन समवायेनैकत्रात्मनि वर्तनाददृष्टस्यैकद्रव्यत्वं वादि-प्रतिवादिनोरसिद्धम् , ३५एकान्तभेदे समवायाभावेनैकद्रव्यत्वस्या सिद्धेः । अथ गुणिनो गुणानामनन्तरत्वे गुण-गुणिनोरन्यतर एव स्यात्, अर्थान्तरत्वे परपक्ष एव समर्थितः स्यादिति समवायः सिद्धः । कथञ्चिद्वादोऽपि न युक्तः अनवस्थादिदोषप्रसङ्गात्, अयुक्तमेतत् पक्षान्तरेऽप्यस्य समानत्वात् । तथाहि-द्वित्वसंख्या-संयोगादिकमनेकेन द्रव्येणाभिसंबध्यमानं यदि सर्वात्मनाऽभिसंबध्यते द्वित्वसंख्यादिमात्रम् द्रव्यमानं वा स्यात्, एकेनैव ४०वा द्रव्येण सर्वात्मनाऽभिसंबन्धाद् न द्रव्यान्तरेण तत्प्रतीतिः। अथैकेन देशेनैकत्र वर्ततेऽन्येनाs स्यादिति समवाय तथाहि-द्वित्वसवावा स्यात्, एकन १ पृ० १०६ पं० १०। २ स्तम्भादौ दृढसंलग्नं किमपि द्रव्यं हस्तेनाऽऽकृष्ण ततो विभज्यमानं तस्यैव स्तम्भादेश्चलननिमित्तीभवति इत्यनुभवसिद्धम् । ३-ख्यायोगा-वा०, बा. विना। ४ सर्वेणात्म-वा०, बा०, आ०, वि.।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy