SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १४१ आत्मपरिमाणवादः । न वक्तव्यम्, इष्टत्वात् । ततः क्रियावत्त्वाद् गुणवत्त्वाश्च शब्दो द्रव्यम् इत्यसिद्धं 'प्रतिषिध्यमानद्रव्यभावे' इति हेतु विशेषणम् । ननुतं 'शब्दो न द्रव्यम्, एकद्रव्यत्वात्, रूपादिवत्' इति । सत्यम्, उक्तम् किन्तु नोतिमात्रेण तत् सिध्यति, अतिप्रसङ्गात् । 'एकद्रव्यत्वात्' इति च तत्र हेतुरसिद्धः । तथाहियदि 'एकं द्रव्यं संयोगि अस्येत्येकद्रव्यः शब्दः' इत्येकद्रव्यत्वं हेतुत्वेनोपादीयते तदा विरुद्धो हेतु:, ५ संयोगित्वस्य द्रव्य एव भावात् । अथ 'एकं द्रव्यं समवायि अस्य इत्येकद्रव्यस्तद्भाव एकद्रव्यत्वम्' तदाऽसिद्धो हेतुः समवायस्य निषिद्धत्वात् निपेत्स्यमानत्वाश्च-अभावेनैकद्रव्यसमवायित्वस्यासि - द्धत्वात् । अपि च, गुणत्वे सिद्धे गगने एकत्र समवायेन तस्य वृत्तिः सिध्यति, तत्सिद्धेश्व द्रव्यत्वनिषेधे सति गुणत्वसिद्धिरितीतरेतराश्रयत्वम् । यत् पुनरुक्तम् 'एकद्रव्यः शब्दः, सामान्यविशेषवत्त्वे सति बाह्यैकेन्द्रियप्रत्यक्षत्वात्, १० रूपादिवत्' इति, तदपि प्रत्यनुमानेन बाधितम् - अनेकद्रव्यः शब्दः, अस्मदादिप्रत्यक्षत्वे सति स्पर्शवत्वात् घटादिवत् । स्पर्शवत्त्वं साधितंत्वाद् नासिद्धम् । 'स्पर्शवत्त्वात्' इत्युच्यमाने परमा णुभिरनेकान्त इति तन्निरासार्थम् 'अस्मदादिप्रत्यक्षत्वे सति' इति विशेषणोपादानम् । 'अस्मदादिप्रत्यक्षत्वात्' इत्युच्यमाने रूपादिभिर्व्यभिचार इत्युभयमुक्तम् । तथा सामान्य विशेषवत्त्वे सति बाह्यकेन्द्रियप्रत्यक्षत्वेऽपि वायुर्नैकद्रव्य इति व्यभिचारश्च, १५ तस्य तदप्रत्यक्षत्वेन किञ्चिद् बाह्येन्द्रियप्रत्यक्षं स्यात् । दर्शन-स्पर्शनग्राह्यं घटादिकं तदिति चेत्, न; वायुना कोऽपराधः कृतः येन स्पर्शनेन्द्रियग्राह्यत्वेऽपि प्रत्यक्षो न भवेत् ? स्पर्श एव तेन प्रतीयते इति चेत् तर्हि दर्शन - स्पर्शनाभ्यामपि रूप - स्पर्शावेव प्रतीय ( ये ) ते इति न द्रव्यप्रत्यक्षता नाम | अथ 'यदेवाहमद्राक्षं तदेव स्पृशामि' इति प्रतीतेस्तत्प्रत्यक्षता, 'खरो मृदुरुष्णः शीतो वायुर्मे लगति' इति प्रतीतेस्तत्प्रत्यक्षता कल्प्यताम्, अविशेषात् । चक्षुषैकेन चास्मदादिभिः प्रतीयमाना- २० चन्द्रादयः सामान्यविशेषवत्त्वेऽपि नैकद्रव्याः । अस्मदादिविलक्षणैर्बाह्येन्द्रियान्तरेण तत्प्रतीत शब्देऽपि तथा प्रतीतिः किं न स्यात् ? अत्र तथाऽनुपलम्भोऽन्यत्रापि समानः । 'देशान्तरे कालान्तरे सवान्तरे च बाह्यैकेन्द्रियग्राह्यः शब्दः, बाह्येन्द्रियग्राह्यत्वे सति विशेषगुणत्वात्, रूपादिवत्' इति चेत्, असदेतत् शब्दस्य गुणत्वेन निषिद्धत्वात् 'विशेषगुणत्वात्' इति हेतुरसिद्धः । चन्द्रादेरस्मदाद्यप्रत्यक्षत्वे प्रतीतिविरोधः इत्यास्तामेतत् । २५ 'सत्तासंबन्धित्वात्' इत्यत्र च यदि 'स्वरूपसत्ता संबन्धित्वात्' इति हेतुस्तदाऽनैकान्तिकः सामान्य - समवायादिभिः, एषां प्रतिषिध्यमानद्रव्य - कर्मभावे सति तथाभूतसत्तासंबन्धित्वेऽपि गुणत्वासिद्धेः । न च सामान्यादेः स्वरूपसत्ताभावः, खरविषाणा देर विशेषप्रसङ्गादिति प्रतिपादितत्वात् । अथ 'भिन्नसत्ता संबन्धित्वात्' इति हेतुस्तदाऽसिद्धः, भिन्नसत्ताऽभावेन खरविषाणादेरिव शब्दस्यापि तत्संबन्धिन्वाऽसिद्धेः । यत्तु भिन्नसत्ता सद्भावे तत्संबन्धात् सत्प्र- ३० त्ययैविषेयत्वे च शब्दादेः प्रयोगद्वयमुपन्यस्तम् । तत्र यदेव चेतनस्य सत्वं तदेव यद्यचेतनस्यापि स्यात् तदा चेतनाचेतनेषु सत्प्रत्ययविषयत्वात् स्याद् भिन्नसत्तासंवन्धित्वम्, न च यदेव चेतनस्य सत्वं तदेवा चेतनस्य, तत्सदृशस्याऽपरस्यान्यत्र भावादिति सदृशपरिणामलक्षणं सामान्यं प्रतिपादयिष्यन्तो निर्णेष्यामः । तदेवं शब्दस्य गुणत्वासिद्धेः नित्यत्वे सत्यस्मदाद्युपलभ्यमानगुणाधिष्ठानत्वासिद्धेरम्बरस्य, साधनविकलो दृष्टान्त इति स्थितम् । एतेनेदमपि प्रत्युक्तम् 'ज्ञानं परममहत्वोपेतद्द्रव्यसमवेतम्, विशेषगुणत्वे सति प्रदेशवृत्तित्वात्, शब्दवत्' । अत्रापि ज्ञानस्य परममहत्त्वोपेतद्रव्यसमवेतत्वे सति ततः शब्दस्य तत्सिद्धिः, तत्सिद्धेश्व ज्ञानस्य परममहत्त्वोपेतद्रव्यसमवेतत्व सिद्धिरितीतरेतराश्रयदोषः । न च दृष्टान्तान्तरमस्ति यतोऽन्यतरप्रसिद्धेरयमदोषः स्यात् । ज्ञानस्य चात्मनोऽव्यतिरेकित्वे तयापित्वम्, 'यद् यस्मादव्यतिरिक्तं तत् तत्स्वभावं यथाऽऽत्मस्वरूपम्, आत्माऽव्यतिरिक्तं चैतत् ततस्तद्यापि' इति न ४० ५ पृ० १ पृ० १३६ पं० १२ । २ पृ० १३४ पं० ४ ॥ ३ पृ० १०६ पं० १० । ४ पृ० १३४ पं० ६ । १३९ पं० २३ । ६- यमान इ-गु० । ७ पृ० १३६ पं० १४ । ८ पृ० ११० पं० २१ । ९-द्भावासद्भावे त - वि० । १०- यत्वे च गु०, भा० । ११ - षयाविषयत्वे च वि० । षयविषयत्वे च कां० । १२ पृ० १३४ पं० १७ - २० । ३५
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy