SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे १२२ यमान उपलभ्येते; न चेहोपलब्धिमत्कारणस्य व्यतिरेकोऽङ्कुरादिकार्येणानुविधीयमान उपलभ्यते, बुद्धिमत्कारणव्यतिरिक्तपृथिव्यादिसामग्रीसकला ( ग्रीसाकल्ये ) ऽङ्कुरादेरवश्यंभावदर्शनात् । इन्द्रियशक्तेरनित्यत्वव्यापकत्वेन व्यतिरेकसंभवात् तद्व्यतिरेकानुविधानस्योपलब्धिर्युक्ता, न बुद्धिमत्कारणव्यतिरेकानुविधानस्यः तस्य नित्यत्वव्यापकत्वेन व्यतिरेकानुविधानाभावादिति चेत्, अस्तु नामै५ वम्, तथाऽपीश्वरस्य ज्ञान - प्रयत्न चिकीर्षा समवायोऽङ्कुरादिकार्यकरणे व्यापारः, तस्य सर्वदा सर्वत्राऽभावात् तदनुविधानं स्यात् । अथ तत्समवायस्यापि सर्वत्र सर्वदा भावाद् नायं दोषः, नः तस्य नित्यत्वव्यापकत्वे सत्यपि तद्विशेषणानामीश्वरज्ञान- प्रयत्न-चिकीर्षादीनामनित्यत्वात् अव्यापकत्वाश्च व्यतिरेकानुविधानमुपलभ्येत । अथ तज्ज्ञानादेरपि नित्यत्वाद् नायं दोषः सर्वदा तर्ह्यङ्कुरादिकार्योत्पत्तिः स्यात् । सर्वदा १० सहकारिणामसन्निधानाद् नेति चेत्, ननु तेऽपि तज्ज्ञानाद्यायत्तजन्मानः किं न सर्वदा सन्निधीयन्ते ? अथ नैव ते तदायत्तोत्पत्तयस्तर्हि तैरेव कार्यत्वादिहेतुरनैकान्तिकः । तत्सहकारिणामपि सर्वदा स्वोत्पत्तिहेतूनां सकार्याणामसन्निधानाद् न सर्वदोत्पद्यन्त इति चेत्, अनवस्था; तथा च अपरापर सहकारि प्रतीक्षा या मेवोपक्षीणशक्तित्वात् तज्ज्ञानादेः प्रकृतकार्यकर्तृत्वं न कदाचिदपि स्यात् । अतः सुदूरमपि गत्वा क्वचिदवस्थामिच्छता नित्यत्वं सहकारिणाम् अतदायत्तोत्पत्तिकत्वं १५ वाऽभ्युपगमनीयम्, तदायत्तोत्पत्तिकार्यस्याऽपि तज्ज्ञानादिव्यतिरेकेणाऽप्युत्पत्तिरभ्युपगन्तव्या इति वृथा तत्परिकल्पना । नित्यत्वे वा पुनरपि सहकारिणां तज्ज्ञानादीनां च नित्यत्वात् सर्वदा कार्योत्पत्तिप्रसङ्गः । तदेवं तज्ज्ञानादीनां च नित्यत्वात् सर्वदा कार्यस्योत्पत्तिरनुत्पत्तिर्वा स्यात् इत्यनित्यास्तज्ज्ञानादयोऽभ्युपगन्तव्याः तथा च सति तदन्यसामग्रीसाकल्येऽप्यङ्कुराद्यनुत्पत्तिः कदाचित् स्यात् । सकलतदन्यसामग्रीसन्निधानानन्तरमेव तज्ज्ञानाद्युत्पत्तेर्न कार्यानुत्पत्तिः कदाचित् २० सामग्रीसाकल्येऽपीति चेत्, सहकारिकारणसंभवास्तर्हि तज्ज्ञानादयः प्राप्ताः; अन्यथा तदनन्तरोत्पत्तिनियमाभावात् सहकारिषु सत्स्वपि कदाचिदङ्कराद्यनुत्पत्तिः स्यात् । ते तु सहकारिणतज्ज्ञानाद्यप्रेरिता एव तज्ज्ञानादि जनयन्तोऽङ्कुरादि जनयन्ति किमन्तर्गतज्ज्ञानादिकल्पनया ? तज्ज्ञानादिसहकृता एव तज्ज्ञानादिकं जनयन्तीत्यभ्युपगमे तज्ज्ञानाद्यन्तरं सहकारिकारणजन्यजन्यात्वा ( ? ) तदनन्तरमनुत्पद्यमानं कार्यमपि तज्ज्ञानादिकं तदनन्तरं नोत्पादर्येति, २५ इत्यायातः स एव कारणान्तरसाकल्ये ऽप्यङ्कुरादिकार्याद्यनुत्पत्तिप्रसङ्गः, सहकारिभ्यस्तज्ज्ञानाद्यन्तरोत्पत्तौ स एव प्रसङ्गः अनवस्था च । तस्यां चाऽपरापरज्ञानोत्पादन एव सहकारिणां सर्वोपयोगान्न कार्ये कदाचिदप्युपयोगो भवेत् । सहकारिभिः सह तज्ज्ञानादिकं नियमेनोत्पत्तिमदिति चेत् तर्हि सहकारिणां तज्ज्ञानादेश्वक सामग्रयधीनत्वमभ्युपगन्तव्यम्; अन्यथाऽसहभावात् तथैकसामग्री लक्षणं कारणं तज्ज्ञानादिभिरन्यैर्जनितमजनितं वा तज्जनयति ? [ नै चाजनितम्, ३० तथैव कार्यत्वादेर्हेतोर्व्यभिचारित्वप्रसङ्गात् जनितं तज्ज्ञानादिकमभ्युपगन्तव्यम्, तच्च तेन जन्येन सह नियमेनोत्पद्यमानं तदेकसामध्यधीनत्वमभ्युपनन्तरं सामग्रयधीनं स्यात् । सा च सामग्री तज्ज्ञानान्तरेणोत्पादिता च इति विकल्पद्वये पूर्वोक्तदोषद्वयप्रसङ्गः । प्रागनन्तरोत्पत्ति नियमाभ्युपगमे सहकारिहेतुभिरेकसामध्यधीनतया स्यात् तत्रापि सैकसामग्री तज्ज्ञानाद्यन्तरेण प्रेरिता जनयतीत्यभ्युपेयम्; अन्यथाऽचेतनस्याचेतनानधिष्ठितस्य वास्यादेरिव जनकत्वासंभवात् ज्ञानाद्यन्तरं ३५ च प्रेर्यात् सामग्रीविशेषात् प्रागन्तरं नियमेनोत्पद्यमानं तद्धेतुभिरेकसामग्रयधीनं स्यात्; अन्यथा प्रांगनन्तरं नियमेनोत्पत्तिर्न स्यात् । सामथ्र्यन्तरं चे प्रेरितमप्रेरितं वा जनयतीति विकल्पद्वये दोषद्वयप्रसङ्गः, तेनेमं दोषं परिजिहीर्षता न तज्ज्ञानाद्युत्पत्तिः तदनन्तरं सह प्राग्वाऽनन्तरमभ्युपगन्तव्या तदनन्तरं सह प्राग्वाऽनन्तरमुत्पत्तिनियमाभावेऽपि ] चाऽङ्कुरादिकार्यस्य तद्व्यतिरेकानुविधानमुपलभ्येत न चोपलभ्यते, क्षित्युदक- बीजादिकारणसामग्रीसंनिधाने प्रतिबन्धे १-भ्यते तथेहो-वा०, बा॰ विना । २ - कार्ये नानुवि - वा०, बा० विना । ३-मजन्यखो त वा०, बा० । ४- यन्ति इवा०, बा० विना । ५ [ ] एतच्चिह्नान्तर्गतः पाठः खण्डितप्रायः । ६- म्, नतैव वा०, बा० । ७- इयधीनं त्वमभ्युपनंरंतारं सा० । ८- पव्यं नन्त-कां० । ९-तावेति वा०, बा० । १० प्रागतरं नि - वा०, बा० । ११ - गन्तरं नि-वा०, ब० । १२ च प्रेरितं वा ज-हा० वा० गु० । १३ - नवरं सह प्रा- वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy