SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ दर्थमीश्वतथाऽभ्यप्यते त ईश्वरस्वरूपवादः। १२१ स्तदेव तद् गमयतीत्यसकृदावेदितम् । यथा(यच्च) 'अनुपलभ्यमानकर्तृकेषु स्थावरेषु कर्तुरनुपलम्भः शरीराद्यभावात्, न त्वसत्वात्' इत्यादि, तदपि प्रतिक्षितम्; उक्तोत्तरत्वात् । यदप्युक्तम् 'चैतन्य मात्रेणोपादानाद्यधिष्ठानात् कथं प्रत्यक्षव्यापृतिः' ? तदसंगतम् ; तथोपादानाद्यधिष्ठायकत्वस्य क्वचिदप्यदर्शनात्, अदृष्टस्यापि तस्य कल्पने बुद्धयनधिष्ठितस्यापि भूरुहाद्युपादानस्य तत्कर्तृत्वं किं न कल्प्यते अदर्शनाविशेषात् ? ___यच्चाभ्यर्धायि 'कार्यस्य शरीरेण सह व्यभिचारो दृश्यते, स्वशरीरावयवानां हि शरीरान्तरमन्तरेणापि प्रवृत्ति-निवृत्ती केवलो विदधाति' इति, तदप्ययुक्तम् ; यतः शरीरसंबन्धव्यतिरेकेण चेतनस्य स्वशरीरावयवेष्वन्यत्र वा कार्यनिर्वर्तकत्वं न दृष्टमित्यन्यत्रापि तत् तस्य न कल्पनीयमित्येतावन्मात्रमेव प्रतिपाद्यते, न त्वपरशरीरसंबन्धपरिकल्पनमत्रोपयोगि। यदि च शरीररहितस्यापि तस्य भूरुहादिकार्ये व्यापारः परिकल्प्यते तर्हि मुक्तस्यापि तदन्तरेण ज्ञानसमवायिकारणत्वपरिकल्पनं १० किं न क्रियते ? तथाऽभ्युपगमे न ज्ञान-सुखादिगुणरहितात्मस्वरूपावस्थितिर्मुक्तिः संभवति इति तदर्थमीश्वराऽऽराधनमसंगतमासज्येत । यदपि 'कार्य शरीरेण विना करोतीति नः साध्यम्, तत् स्वशरीरगतम्, अन्यगतं वेति नानेन किञ्चित्' इति, तदप्यसारम् ; शरीरव्यतिरेकेण कार्यकरणादर्श नात्; स्वशरीरप्रवृत्तिस्वरूपेऽपि कार्ये तच्छरीरसंबद्धस्यैव व्यापारात्, अतः "अचेतनः कथं भावस्तदिच्छामनुवर्तते" [ ] ईति दूषणं व्यवस्थितमेव, अचेतनस्य शरीरादेः शरीरासंबद्धेच्छा-१५ मात्रानुवर्तनाऽदर्शनात् । तदसंबद्धस्येच्छाया अप्यभावात् मुक्तस्येव कुतस्तदनुवर्तनमचेतनकार्येण ? अथ अदृष्टाऽपि इच्छा अशरीरस्य स्थाणोः परिकल्प्यते, किमिति भूरुहादिकं कार्य कर्तृविकलं दृष्टमपि न कल्प्यते ? एतेन 'ईश्वरस्यापि प्रयत्नसद्भावे न काचित् क्षतिः' इति निरस्तम् , शरीराभावे मुक्तात्मन इव प्रयत्नासंभवात् । अपरशरीररहितस्वशरीरावयवप्रेरणप्रयत्नसद्भावोऽपि न शरीराभावे प्रयत्नसगावाऽऽवेदकः, सर्वथा शरीररहितस्य तस्य क्वचिदप्यदर्शनात्; दृष्टानुसारिण्यश्च कल्पना भवन्ति ।२० ततः स्थावरेषु शरीराभावाद् न तत्कर्तुरनुपलब्धिः किन्तु कर्तुरभावादिति कथं न तैः कार्यत्वादे. हेतोयभिचारः? न च यथाऽदृष्टस्येन्द्रियस्य चाऽन्वय-व्यतिरेकयोः कार्यकारणभावव्यवस्थापकयोरभावेऽपि कारणत्वसिद्धिर्व्यतिरेकमात्रात् तथा महेश्वरस्यापि ततस्तत्सिद्धिः, तस्य नित्यव्यापकत्वाभ्युपगमेन व्यतिरेकासंभवात् । अतो न व्याप्तिसिद्धिः कार्यत्वादेस्तत्साधकत्वेनोपन्यस्तस्य हेतोः। 'अत ए सत्प्रतिपक्षताऽपि, नैकस्मिन् साध्यान्विते हेतौ स्थिते द्वितीयस्य तथाविधस्य तत्रावकाशः' इति सत्यम्, किन्तु स्थाणुसाधकस्य कार्यत्वादेः साध्यान्वितत्वमेव न संभवतीति प्रतिपादितम् । यच्चोक्तम् 'नाऽपि बाधा, अबुद्धिमत्कारणपूर्वकत्वस्य प्रमाणेनाऽग्रहणात्' इति, तदसांप्रतम् ; बुद्धिमकारणपूर्वकत्वाभावप्रतिपादकस्य प्रमाणस्याऽङ्करादावष्टोत्पत्तौ सद्भावात् । अथाङ्करादिक न्द्रियत्वाद् न प्रत्यक्षात् तदभावसिद्धिः, न; प्रत्यक्षात् तदभावाऽसिद्धावप्यनुमानस्य तत्र तदभाव-३. ग्राहकस्य भावात् । तथाहि-यद् यस्यान्वय-व्यतिरेको नानुविधत्ते न तत् तत्कारणम्, यथा न पटादयः कुलालकारणाः, नानुविद्धति चाङ्कुरादयो बुद्धिमत्कारणान्वय-व्यतिरेकाविति व्यापकानुपलब्धिः; यश्च यत्कारणं तत् तस्यान्वय-व्यतिरेकावनुविधत्ते, यथा घटादयः कुलालस्य । न चोपलब्धिमत्कारणसन्निधाने प्रागनुपलब्धस्याङ्कुरादेरुपलम्भस्तभावे चाऽपरकारणसाकल्येऽपि तस्यानुपलम्भ इत्यन्वय-व्यतिरेकानुविधानमङ्कुरादिकार्याणाम् । अथाङ्कुरादिकर्तुरुपलब्धिलक्षणप्राप्तत्वस्याऽभावाद् न प्रत्यक्षेण सद्भावाऽभावप्रतीतिरिति नाङ्कुरादेस्तदन्वय-व्यतिरेकानुविधानस्योपलब्धियुक्ता। ननु मा भूत् तदन्वय-व्यतिरेकानुविधानोपलब्धिः, व्यतिरेकानुविधानोपलब्धिस्तु युक्ता, यथा रूपाऽऽलोक-मनस्कारसाकल्येऽपि कदाचिद् विज्ञानकार्यानुत्पत्त्या कारणान्तरस्यापि तत्र सामर्थ्यमवसीयते, यच्च तत्कारणान्तरं सा इन्द्रियशक्तिः, तदभावाद् रूपज्ञानं न संजातमित्यनुपलभ्यस्वभावस्यापि कारणस्य व्यतिरेकः कार्येणानुविधी-४० १ पृ० ११६ पं० १६ । २ पृ० ९६ पं० १७ । ३-'त्' एतदपि प्र-कां०। ४ पृ० ११९ पं० १३ । ५पृ० ९६ पं० १८। ६ पृ० ९६ पं० २०। ७ पृ. ९६ पं० २२। ८ पृ० ९६ पं० २४। ९ पृ० ९६ पं. २६ । १० पृ. ९६ पं० ३१ । ११ प्र. पृ. पं० २५ । १२ पृ. ९६ पं० ३३ । १३-यस्य श-मां०, भां। स० त०१६
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy