SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। ११९ तराश्रयत्वम् । अथ यद् यत् कार्य तत् तद् उपादानाद्यभिज्ञकर्तृपूर्वकमुपलब्धं घटादिवत् पृथिज्याद्यपि कार्यम् , तेन तदपि तदमिज्ञकर्टपूर्वकं युक्तमिति नेतरेतराश्रयदोषः । ननु घटादिकार्यकर्तुरपि कुलालादेर्यदपि सर्वथा घटायुपादानाद्यभिज्ञत्वं सिद्धं स्यात् तदा युज्येताप्येतद् वक्तुम् । न च तस्याऽपि घटाधुपादानोपकरणादेः परिमाणाऽवयवसंख्येयत्वाद्यनेकधर्मसाक्षात्करणज्ञानमस्ति, तत्त्वं सिद्धम् (?)। (किं) चिन्मात्रपरिज्ञानं तु चेतनत्वेऽदृष्टस्यापि तदाधारस्य वा सत्त्वस्य तदृष्ट- ५ निर्वर्तितफलोपभोक्तः प्रतिनियतशरीराविष्ठायकस्य विद्यते इति व्यर्थ व्यतिरिक्तापरज्ञानवतो महेशस्य परिकल्पनम् । न चायमेकान्तः-सर्व कार्य तदुपादानाद्यभिज्ञेनैव का निवर्त्यत इति; स्वाप-मदा. वस्थायां शरीराद्यवयवप्रेरणस्य कार्यस्य तदुपादानाभिज्ञानाऽभावेऽपि तत्कृतत्वेनोपलब्धेः। __ यच्चोक्तम्-'न चाकृष्टजातेषु स्थावरादिषु तस्थाग्रहणेन प्रतिक्षेपः, अनुपलब्धिलक्षणप्राप्तत्वाददृष्टवत्' इति, तदप्यचारु; यतो यदि तस्य शरीरसंबन्धरहितस्य कर्तृत्वमभ्युपेयते तन्न युक्तिसङ्ग-१० तम्, तत्संबन्धरहितस्य मुक्तात्मन इव जगत्कर्तृत्वानुपपत्तेः। अथ ज्ञान-प्रयत्न-चिकीर्षा-समवायाभावाद् मुक्तात्मनोऽकर्तृत्वं न पुनः शरीरसंबन्धाभावादिति विषमो दृष्टान्तः, तद्युक्तम् । ज्ञानादिसमवायस्य कर्तृत्वेनाभ्युपगतस्यै तत्राऽपि निषिद्धत्वात् । तस्माच्छरीरसंबन्धादेव तस्य जगत्कर्तृत्वमभ्युपगन्तव्यम् कुलालस्येव घटकर्तृत्वम् । तत्संबन्धश्चेदभ्युपगम्यते कथं न तस्योपलब्धिलक्षणप्राप्तत्वम् ? कुलालादेरपि शरीरसंबन्धादेव उपलब्धिलक्षणप्राप्तत्वम् न पुनः तत्संबन्धरहितस्यात्मनो १५ दृश्यत्वम् । तच्चेश्वरेऽपि शरीरसंबन्धित्वं कर्तृत्वादभ्युपगन्तव्यमित्युपलब्धिलक्षणप्राप्तस्यानुपलब्धेस्तत्कर्तुः स्थावरादिष्वभावः सिद्ध इति कथं न तैः कार्यत्वलक्षणो हेतुर्व्यभिचारी? ___अथादृश्यं तच्छरीरमतस्तत्र सदपि नोपलभ्यत इत्ययमदोषः; नन्वेवमपि 'अम॑िन् सति इदं स्थावरादिकं जातम्' इति प्रतिपत्तिर्मा भूत्, तथाऽन्य(ऽप्यन्य)कारणभावेऽपि यथाऽतीन्द्रियस्ये. न्द्रियस्याऽभावे रूपादिज्ञानं नोपजायते तथा पृथिव्यादिकारणसाकल्येऽपि कदाचित् तच्छरीरविरहे २० तत्स्थावरादिकार्य नोपजायत इति व्यतिरेकात् प्रतीतिः किं न स्यात् ? यदो यत्रतच्छरीरं नियमेन संनिहितमिति चा(ना)ऽयं दोषस्तर्हि युगपद्भाविषु त्रिलोकाधिकरणेषु भावेषु का वार्ता ? न ह्येकस्य मूर्तस्य सावयवस्य महेश्वरवषुषोऽपि युगपत्सकलव्याप्तिः संभवति । अमूर्तत्वे निरंशप्रसङ्गादाकाशमेव तच्छरीरम् , तस्य तच्छरीरत्वेनाद्याप्यसिद्धत्वात् । अथ यावन्ति क्रमभावीन्यङ्करादिकार्याणि तावन्ति तथाविधानि तच्छरीराणि कल्प्यन्ते तर्हि तच्छरीरैः सकलं जगदापूरितमिति नाङ्कुरादि-२५ कार्यैरुत्पत्तव्यम् तदुत्पत्तिदेशाभावाद्, नापि माहेश्वरैः क्वचित् प्रवर्तितव्यम् , कुतश्चिद्वा निवर्तितव्यम् । तच्छरीराणां पादाद्यभिघातभयात् । अपि च, तान्यपि कार्याणि, सावयवत्वात् , कुम्भवत्। ततस्तत्करणे तावन्त्येवाऽपराणि तस्य शरीराणि कल्पनीयानि, पुनस्तत्करणेऽपि (इति) नानवस्थातो मुक्तिः। तन्न शरीरव्यापारसहायोऽप्यसौ स्थावरादिकार्य करोतीति कल्पयितुं युक्तम् , अनेकदोषप्रसङ्गात् । ३० नाऽपि सत्तामात्रेणाऽसौ स्वकार्य करोतीति कल्पयितुं युक्तम्, शरीरकल्पनवैयर्थ्यप्रसङ्गात्। अथ सर्वोत्पत्तिमतामीश्वरो निमित्तकारणम् , तस्य तत्कारणत्वं सकलकार्यकारणपरिज्ञाने नान्यथा, तत्परिज्ञान(ज्ञान)वा(चा)नित्य(त्यं)स्ये(से)न्द्रियशरीरमन्तरेणानुपपत्तेः (पन्नम्) अतस्तदर्थ तत्परिकल्पनमिति चेत्, न; सकलहेतुफल विषयं तस्या(तस्याऽनित्यं)स्ये (से)न्द्रियशरीरजं ज्ञानं न संभवति, इन्द्रियाणां युगपत्सर्वार्थसन्निकर्षाभावात् ; इन्द्रियार्थसन्निकर्षजं च नैयायिकैः प्रत्यक्ष-३५ मभ्युपगम्यते, तदुक्तम् "इन्द्रियार्थसन्निकर्षोत्पन्नं शानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्” [ न्यायद अ० १, आ० १, सू० ४]। १-क्षात्कारण वा०, बा० । २ यथोक्त-वा०, वा० विना। ३ पृ. ९५ पं० ३९। ४-स्य तवा-वा०, बा०। ५-त्वम्-न पुनः वा०, या. विना। ६-स्मिन् सर्वमिदं वा०, वा० विना । ७-था नान्य-वा०, बा०। -का प्रती-वा०, बा०। ९ अत्र 'यदा यत्र' स्थाने 'तदा तत्र' इति उचितम् । अथवा पूर्वपनयनुसारेण 'यदा यत्र पृथिव्यादिकारणसाकल्यं तदा तत्र' इत्यादिको भावोऽत्र अनुसंधेयः। १०-ति-चो-वा०, बा०। ११-- त्परिनं वा नित्यसेन्द्रिय-वा०, बा०। १२-पत्तेमत-बा०, वा०। १३ तस्यासेन्द्रिय-वा०, बा।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy