________________
११८
प्रथमे काण्डेतमनुमापयति; नैवं कार्यत्वमात्रं बुद्धिमत्कारणत्वसामान्येन व्याप्तं विपर्यये बाधकप्रमाणबलाद निश्चितं किन्तु कारणत्वमा(णमा)त्रेण व्याप्तं तत् तद्बलाद निश्चितम् , तच्चोपलभ्यमानं क्षित्यादौ कार णमात्रमनुमापयति यथा गिरिशिखरादावुपलभ्यमानो धूमस्तत्संबद्धमग्निमात्रमनियतव्यक्तिनिष्ठम्, तेन 'पृथिव्यादिगतकार्यत्वदर्शनात् कर्बदर्शिनस्तदप्रतिपत्तिवत् शिखर्यादिगतवयाद्यदर्शिनां ५धूमादपि तदप्रतिपत्तिरस्तु' इति कोऽन्योऽनुमानस्वरूपविदो भवतो वक्तुं क्षमः। यदि हि का शेषाद्धूमलक्षणादुपलभ्यमानाद् गृहीताविनाभावस्य पुंसोऽग्निलक्षणकारणविशेषप्रतिपत्तिर्गिरिशिखरादौ भवति तदा कार्यमात्रात् पृथिव्यादावुपलभ्यमानाद(नाद् )बुद्धिमत्कारणविशेषस्य तत्र प्रतिपत्तौ किमायातम् ? कारणमात्रप्रतिपत्तिस्तु ततस्तत्र भवत्येव, “सुविवेचितं कार्य कारणं न व्यभिचरति"[ ]इति न्यायात् । अत एवान्यस्य संबद्धस्यान्यतः प्रतिपत्तौ कार्यकारणावगमादौ १०प्रयत्नः कार्यः; अन्यथा तदुत्थप्रमाणस्य प्रमाणाभासता स्यात् । यत्। 'न चात्र शब्दसामान्यं वस्त्वनु.
गमो नास्तीति युक्तं वक्तुम् , धूमादावपि शब्दसामान्यस्य वक्तुं शक्यत्वात्' इति, तदप्यसङ्गतम्। धूमादिवैलक्षण्येन पृथिव्यादौ कार्यत्वस्य बुद्धिमत्कारणत्वाव्याप्तेः शब्दसामान्यस्य साधितत्वात् । ___यश्च 'घटादिवत् पृथिव्यादि स्वावयवसंयोगैरारब्धमवश्यं तद्विश्लेषादू विनाशमनुभविष्यति' इत्यादि, तदप्यसङ्गतम्; अवयवसंयोगवत् तद्विश्लेषस्थापि विभागलक्षणस्य विनाशं प्रति हेतुत्वे१५ नोपन्यस्तस्यासिद्धत्वात्; तदसिद्धत्वं च संयोगवद् वक्तव्यम् । 'एवं विनाशादू वा संभावितात्
कार्यत्वानुमान रचनास्वभावत्वाद् वा' इत्यादि सर्व निरस्तं द्रष्टव्यम् । यत्तु चार्वाकं प्रति कार्यत्व. साधनायोक्तम्-'यथा लौकिक-वैदिक्यो रचनयोरविशेषात् कर्तृपूर्वकत्वं तथा प्रासादादि-पृथिव्यादिसंस्थानयोरपि तद्रूपताऽस्तु, अविशेषात्' तदप्यचारु; तद्विशेषस्य प्रतिपादितत्वात् ; ततः कार्यत्यादिलक्षणस्य हेतोरसिद्धतैव । यच्चाभाँषि सिद्धत्वेऽपि नास्माद्धेतोःसाध्यसिद्धिर्युक्ता; न हि केवलात् २० पक्षधर्माद् व्याप्तिशून्यात् साध्यावगमः' तत् सत्यमेव, व्याप्तिरहिताद्धेतोः साध्यसिद्धरसंभवात् ।
यच्च 'घटादौ कर्तृपूर्वकत्वेन कार्यत्वावगमेऽपि केषाञ्चित् कार्याणामकर्तृपूर्वकाणां कार्यत्वदर्शनान्न सर्व कार्य कर्तृपूर्वकम् यथा वनेषु वनस्पत्यादीनाम्' इति, तदपि सत्यमेव 'तस्माद् नेश्वरसिद्धौ कश्चिद्धतुरव्यभिचार्यस्ति' इत्येतत्पर्यन्तम् । यदप्युक्तम् 'नाकृष्टजातैः स्थावरादिभिर्व्यभिचारो
व्याप्त्यभावो वा, साध्याभावे हेतुर्वर्तमानो व्यभिचार्युच्यते; तेषु कत्रग्रहणं न कर्बभावनिश्चयः' इति, २५ तदप्यसारम्; सर्वप्रमाणाविषयत्वेऽपि यदि स्थावरादिषु कर्बभावनिश्चयो न भवति तथा सति
आकाशादौ रूपाद्यभावनिश्चयो मा भूत् । अथ तत्र रूपादिसद्भावबाधकप्रमाणसद्भावात् तदभावनिश्चयः, सोऽत्रापि समानः । तच्च प्रमाणं प्रदर्शयिष्यामोऽनन्तरमेव ।
यत्ततम् 'क्षित्याद्यन्वय-व्यतिरेकानुविधानदर्शनात् तेषाम् तदतिरिक्तस्य कारणत्वकल्पनेऽतिप्रसङ्गदोष इति, एतस्यां कल्पनायां धर्माधर्मयोरपि न कारणता भवेत्' इत्यादि, तदयुक्तम् ; धर्मा३०धर्मादेः कारणत्वं जगद्वैचित्र्यान्यथाऽनुपपत्त्या व्यवस्थाप्यते । तथाहि-सर्वान् उत्पत्तिमतः प्रति
भूम्यादेः साधारणत्वात् तदन्यादृष्टाख्यविचित्रकारणकृतं कार्यवैचित्र्यम् । न चैवमीश्वरस्य कारणत्वपरिकल्पनायां किञ्चिन्निमित्तं संभवति, तद्व्यतिरेकेण कस्यचिदर्थस्यानुपपद्यमानस्यादृष्टेः । न च चेतनं कर्तारं विना कार्यस्वरूपानुपपत्तिरिति शक्यं वक्तुम्; (अ)दृष्टस्यैव सुगतसुतश्चैतन्यस्य जग. द्वैचित्र्यकर्तृकत्वेनाभ्युपगमात् ; तदा तद्व्यतिरिकाऽन्येश्वरस्य कल्पनायां निमित्ताभावात् । ३५ न चादृष्टस्य (?) चेतनेष्वपि सकलजगदुपादानोपकरणसंप्रदानाद्यभिज्ञाता न संभवतीति तद्व्यतिरिक्तोऽपरो महेशस्तज्ज्ञः कल्पनीय इति वक्तुं युक्तम् , तज्ज्ञानवत्त्वेन तस्याप्यसिद्धेः । न च सकलजगत्कर्तृत्वादेव तज्ज्ञत्वं तस्य सिद्धम् । इतरेतराश्रयदोषप्रसङ्गात् । तथाहि-सिद्धे सकलजगदुपादानाद्यभिज्ञत्वे सकलजगत्कर्तृत्वसिद्धिः, तत्सिद्धौ च तस्य तदभिज्ञत्वसिद्धिरिति व्यक्तमितरे
१ पृ. ९४ पं० २२ । २ पृ. ९४ पं० २३ । ३ पृ. ९४ पं० २७ । ४ पृ. ११३ पं. ४३ गत-संयोगनिरसनप्रकरणोक्तयुक्त्या विश्वस्यापि असिद्धत्वं वाच्यम्। ५ पृ० ९४ पं० २७। ६ पृ. ९४ पं०४० । ७ पृ० ९५५३। ८ पृ. ९५ पं० ६ । ९ पृ. ९५ पं० २३ । १० पृ. ९५ पं० २४ । ११ पृ. ९५ पं० २७। १२-तनस्य वा०, बा०।