________________
११५
ईश्वरस्वरूपवादः। विषयत्वात् साधकप्रमाणाभावाच्च । यस्तु 'संयुक्ते द्रव्ये एते' इति, 'अनयोर्चाऽयं संयोगः' इति व्यपदेशः स भेदान्तरप्रतिक्षेपाप्रतिक्षेपाभ्यां तथाऽयस्थोत्पन्नवस्तुद्वयनिबन्धन एव, नातोऽपरस्य संयोगस्य सिद्धिः।ग चाक्षणिकत्वे तयोः रा संबन्धी युक्तः । तत्संबन्धस्य समवायस्य निषिद्धत्वात् निषेत्स्यमानत्वाश्च । न च तज्जन्यत्वादसौ तत्संबन्धी, अक्षणिकत्वे जनकत्वविरोधस्य प्रतिपादयिध्यमाणत्वात् । क्षणिकत्वेऽपि तयोरेकसामथ्यधीना नैरन्तर्योत्पत्तिरेव, नापरः संयोग इति 'रचना- ५ वत्त्वात्' इत्यत्र हेतोर्विशेषणस्य संयोगविशेषस्य रचनालक्षणस्याऽसिद्धेस्तद्वतो विशेष्यस्याप्यसिद्धिरिति स्वरूपासिद्धत्वम् । __ अथ पृथिव्यादेः कार्यत्वं बौद्धैरभ्युपगरयत एयेति नासिद्धत्वं तैरस्य हेतोः प्रेरणीयम् । नन्वत्रापि यादग्भूतं बुद्धिमत्पूर्वकत्वेन देवकुलादिष्वन्वय-व्यतिरेकाभ्यां व्याप्तं कार्यत्वमुपलब्धम्-यक्रियादशिनोऽपि जीर्णदेवकुलादावुपलभ्यमानं लौकिकपरीक्षकादेस्तत्र कृतबुद्धिमुत्पादयत्ति-ताहरभूतस्य १० क्षित्यादिषु कार्यत्वस्याऽनुपलब्धेरसिद्धः कार्यत्वलक्षणो हेतुः। उपलम्भे वा तत्र ततो जीर्ण देवकुलादिष्विवाऽक्रियादर्शिनोऽपि कृतबुद्धिः स्यात् । न ह्यन्वय-व्यतिरेकाभ्यां सुविवेचितं कार्य कारणं व्यभिचरति, तस्याऽहेतुकत्वप्रसङ्गात् । अतः क्षित्यादिषु कार्यत्वदर्शनादक्रियादर्शिनः कृतबुद्धधनुपपत्तेर्यद् बुद्धिमत्कारणत्वेन व्याप्त कार्यत्वं देवकुलादिषु निश्वितं तत् तत्र नास्तीत्रासिद्धो हेतुः; केवलं कार्यत्वमात्र प्रसिद्धं तत्र । न च प्रकृत्या परस्परमर्थान्तरत्वेन व्यवस्थितोऽपि धर्मः शब्दमात्रेणाऽभेदी १५ हेतुत्वेनोपादीयमानोऽभिमतसाध्यसिद्धये पर्याप्तो भवति, साध्यविपर्ययेऽपि तस्य भावाविरोधात्। यथा वल्मीके धर्मिणि कुरुभकारकृतत्वसिद्धये मृद्धिकारमात्रं हेतुन्वेनोपादीयमानमिति। यद बुद्धिमत्कारणत्वेन व्यासं देवकुलादौ कार्यत्वं प्रमाणतः प्रसिद्धं तच क्षित्यादावसिद्धम्; यश्च क्षित्यादौ कार्यत्वमात्रं हेतुत्वेनोपन्यस्यमानं सिद्धं तत् साध्यविपर्यये वाधकप्रमाणाभावात् संदिग्धव्यतिरेकत्वे. नानकान्तिकम् न ततोऽभिमतसाध्यसिद्धिः।
२० ___ नन्वेतत् कार्यसमं नाम जात्युत्तरम् । तथाहि-'कुतकत्वादगिलाः शब्दः' इत्युक्ते जातिशाद्यत्रापि प्रेरयति-किमिदं घटादिगतं क्रतकत्वं हेतत्वेनोपन्यस्तम, किंवा शब्दगतम्, अथोभर
भयगतमिति? आधे पक्षे हेतोरसिद्धिः, न खन्यधर्मोऽन्यत्र वर्तते । द्वितीयेऽपि समविकलो दृष्टान्तः । तृतीयेऽप्येतावेच दोषाविति । एतच्च कार्यसमं नाम जात्युतरमिति प्रतिपादितम् प्रथोत.:-"कार्यत्वान्यत्वलेशेन यत् साध्यासिद्धिदर्शनं तत् कार्यसमम्”[ ] इति, कार्यत्वसामान्यस्यानित्यत्वसाध-२५ कत्वेनोपन्यासेऽभ्युपगते धर्मिभेदेन विकल्पनवद् बुद्धिमत्कारणत्वे क्षित्यादेः कार्यत्वगात्रेण साध्येऽभीष्टे धर्मिभेदेन कार्यत्वादेर्विकल्पनात्, अरादेतत् ; यतः सामान्येन कार्य यानित्यत्वयोर्विपर्यये बाधकप्रमाणबलाद व्याप्तिसिद्धौ कार्यत्वसामान्य शब्दादौ धर्मिण्युपलभ्यमानमनित्यत्वं साधयतीति कार्यत्व मात्रस्यैव तत्र हेतुत्वेनोपन्यासे धर्मविकल्पनं यत् तत्र क्रियेत तत् सर्वानुमानोच्छेदकत्वेन कार्यसमजात्युत्तरतामासादयति; न त्वेवं क्षित्यादेर्बुद्धिमत्कारणत्वे साध्ये कार्यत्वसामान्यं हेतुत्वेन संभवति, तस्य ३० विपर्यये बाधकप्रमाणाभावात् सन्दिग्धविपक्षव्यावृत्तिकत्वेनाऽनैकान्तिात्यात् । यच्च बुद्धिमत्कार. णपूर्वकत्वेन व्याप्तं देवकुलादौ कार्यत्वं प्रतिपन्नम्-यदक्रियादर्शिनोऽपि जीर्णप्रासादादौ कृतबुद्धिमुत्पादयति-तत् तत्रासिद्धमिति प्रतिपादितम् ।
अपि च. यदि अन्त्र व्यापकनिरीकबद्धिमत्कारणं शिल्यादेः कारणत्वेनाऽभिप्रेतं कार्यत्वलक्षणा खेतोः तथा सति घटादौ दृष्टान्तधर्मिणि तत्पूर्वकत्वेन कार्यत्वस्यानिश्चयात् साध्यविकलो दृष्टान्तः, ३५ विरुद्धश्च हेतुः स्यात्, अनित्यबुद्धयाधाराव्यापकाऽनेककर्तृपूर्वकत्वेन व्याप्तस्य कार्यत्वस्य घटादौ निश्चयात् । अथ बुद्धिमत्कारणत्वमात्रं साध्यत्वेनाभिप्रेतं क्षित्यादौ तर्हि नित्यबुझ्याधार-व्यापकैककर्तृपूर्वकत्वलक्षणस्य विशेषस्य क्षित्यादावसिद्धेनेश्वरसिद्धिः। अथ बुद्धिमत्कारणत्वसामान्यमेव क्षित्यादौ साध्यते, तच्च पक्षधर्मताबलाद विशिष्टविशेषाधारं सिध्यति निर्विशेषस्य सामान्यस्यासंभवात्, अनित्यज्ञानवतः शरीरिणः क्षित्यादिविनिर्माणसामर्थ्यरहितत्वेन घटादावुपलब्धस्य विशेषस्य बुद्धि-४० मत्कारणत्वसामान्याधारस्य तत्रासंभवात् । नन्वेवं सामान्याश्रयत्वेन यद् घटादौ व्यक्तिस्वरूपं
१-दान्तरप्रतिक्षेपाभ्यां हा०।-मेदातरं प्रतिक्षेपाभ्यां आ० । २-धो यु-आ०, वृ०, कां। ३ पृ. १०६ पं० १०। ४-कारत्वमा-भा०, मां० ब०। ५-व्यतिरेकि-भा०। ६ न्यायदर्शने पश्चमाध्याये प्रथमाहिके सू० ३७-३८ विवृतमेतत् कार्यसमम् । प्र० पृ. पं०१८।