SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ११४ प्रथमे काण्डेइति वचनात् दृश्यवस्तुसमवेतस्य संयोगस्य परेण प्रत्यक्षग्राह्यत्वमभ्युपगतम् । न च निरन्तरो. त्पन्नवस्तुद्वय प्रतिभासकालेऽध्यक्षप्रतिपत्तौ तद्यतिरेकेणापरः संयोगो बहि हारूपनां बिभ्राणः प्रतिभाति, नापि कल्पनावुद्धो यस्तुद्वयं यथोक्तं विहाय शब्दोल्लेखं चान्तरम् अपरं वांकृत्यक्षराकाररहितं संयोगस्वरूपमुद्भाति । तदेवमुपलब्धिलक्षणप्राप्नस्य संयोगस्यानुपलब्धेरभावः, शशविषाणवत । ५ तेन यदाह उद्द्योतकर:"यदि संयोगो नार्थान्तरं भवेत् तदा क्षेत्र-बीजोदनादयो निर्विशिष्टत्वात् सर्वदैवाङ्करादिकार्य कुर्युः, न चैवम् , तरसात् सर्वदा कार्याऽनारप्रभात क्षेत्रादीन्यड्डरोत्पत्तौ कारणान्तरसापेक्षाणि, यथा मृत्पिण्डादिसामग्री घटादिकरणे कुलालादिसापेक्षाः योऽसौ क्षेत्रादिभिरपेक्ष्यः स संयोग इति सिद्धम् । किञ्च, असौ संयोगो द्रव्ययोर्विशेषणभावेन प्रतीयमानत्वात् ततोऽर्थान्तरत्वेन प्रत्यक्षसिद्ध १० एव । तथाहि-कश्चित् केनचित् 'संयुक्ते द्रव्ये आहर' इत्युक्तो ययोरेव द्रव्ययोः संयोगमुपलभते ते एवाहरति न द्रव्यमात्रम् । किञ्च, दूरतरवर्तिनः पुंसः सान्तरेऽपि वने निरन्तररूपावसायिनी बुद्धिरुदयगासादयति, सेयं मिथ्याबुद्धिः मुख्यपदार्थानुभवमन्तरेण न क्वचिदुपजायते । न ह्यननुभूतगोदर्शनस्य गवये 'गौः' इति विभ्रमो भवति । तस्मादवश्यं संयोगो मुख्योऽभ्युपगन्तव्यः । तथा, 'न चैत्रः कुण्डली' इत्यनेन प्रतिरोधवाक्येन न कुण्डलं प्रतिपिध्यते, नापि चैत्रः, तयोरन्यत्र देशादौ सत्त्वात् । १५तस्माच्चैत्रस्य कुण्डलसंयोगः प्रतिषिध्यते । तथा, 'चैत्रः कुण्डली' इत्यनेनापि विधिवाक्येन न चैत्र कुण्डलयोरन्यतरविधानम् , तयोः सिद्धत्वात् ; पारिशेप्यात् संयोगविधानम् । तस्मादस्त्येव संयोगः" [न्यायवा० पृ० २१९ ] इति, तन्निरस्तं द्रष्टव्यम् । संयुक्तद्रव्यस्वरूपावभासन्यतिरेकेणापरस्य संयोगस्य प्रत्यक्षे निर्विकल्पके सविकल्पके वाऽप्रतिभासस्य प्रतिपादितत्वात् । न च संयुक्तप्रत्ययान्यथानुपपत्त्या संयोगकल्पनोपपला, निरन्तरावस्थयोरेव भावयोः संयुक्त२० प्रत्ययहेतुत्वात् । यावञ्च तस्यामवस्थायां संयोगजनकत्वेन संयुक्तप्रत्ययविषयौ ताविष्येते तावत् संयो गमन्तरेण संयुक्तप्रत्ययहेतुत्वेन तद्विषयी किं नेप्येते किं पारम्पर्येण ? न च सान्तरे वने निरन्तरावभासिनी बुद्धिर्मुख्यपदार्थानुभवपूर्विका, अस्वलत्प्रत्ययत्वेनानुपचरितत्वात् । 'न चैत्रः कुण्डली' इत्यादौ चैत्रसंबन्धिकुण्डलं निषिध्यते विधीयते वा न संयोगः । न च संवन्धव्यतिरेकेण चैत्रस्य कुण्डलसंबन्धानुपपत्तिरिति वक्तुं शक्यम् . यतश्चैत्र-कुण्डलयोः किं संबन्धिनोः स संबन्धः, उतासंबन्धिनोः? २५नासंबन्धिनोः, हिमवद्विन्ध्ययोरिवासंबन्धिनोः संबन्धानुपपत्तेः न चासंबन्धिनोभिन्नसंबन्धेन तदभिन्नं संबन्धिन्वं शक्यं विधातुम् , विरुद्धधर्माध्यासेन भेदात् । नापि भिन्नम्, तत्सद्भावेऽपि तयोः स्वरूपेणासंबन्धित्वासङ्गात्; भिशस्य तत्कृतोपकारमन्तरेण तत्संबन्धित्वायोगात् । ततोऽपरोपकारकल्पनेऽनवस्थाप्रसङ्गात् । संवन्धिनोस्तु संबन्धपरिकल्पनं व्यर्थम्, संबन्धमन्तरेणापि तयोः स्वत एव संबन्धिस्वरूपत्वात्। ३० यत्तूक्तम् 'विशिष्टावस्थाव्यतिरेकेण क्षिति-बीजोदकादीनां नाङ्कुरजनकत्वम् , सा च विशिष्टावस्था तेषां संयोगरूपा शक्तिः, तदसारम् । यतो यथा विशिष्णावस्थायुक्ताः क्षित्यादयः संयोगमुत्पादयन्ति तथा तदवस्थायुक्ता अङ्कुरादिकमपि कार्य निष्पादयिष्यन्तीति व्यर्थं संयोगशक्तेस्तदन्तरालवर्तिन्याः परिकल्पनम् । अथ संयोगशक्तिव्यतिरेकेण न कार्योत्पादने कारणकलापः प्रवर्त्तत इति निर्बन्धस्तर्हि संयोगशक्त्युत्पादनेऽप्यपरसंयोगशक्तिव्यतिरेकेण नासौ प्रवर्तत इत्यपरा संयोगशक्तिः ३५ परिकल्पनीया, तत्राप्यपरेत्यनवस्था । अथ तामन्तरेणापि शक्तिमुत्पादयन्ति तर्हि कार्यमपि तामन्तरेणैवाङ्करादिकं निर्वर्तयिष्यन्तीति व्यर्थ संयोगशक्तेस्तदन्तरालवर्त्तिन्याः कल्पनम् । न च विशिष्टावस्थाव्यतिरेकेण पृथिव्यादयः संयोगशक्तिमपि निर्वर्तयितुं क्षमाः; तथाऽभ्युपगमे सर्वदा तन्निवर्त्तनप्रसङ्गादडरादेरप्यनवरतोत्पत्तिप्रसङ्गः। न चान्यतरकर्मादिसव्यपेक्षाः संयोगमुत्पा दयन्ति क्षित्यादय इति नायं दोषः, कर्मोत्पत्तावपि संयोगपक्षोक्तदूषणस्य सर्वस्य तुल्यत्वात् । ४० तस्मादेकसामग्र्यधीनविशिष्टोत्पत्तिमत्पदार्थन्यतिरेकेण नापरः संयोगः, तस्य बाधकप्रमाण १ प्र. पृ. पं० १। २ अत्र पृ० १०६ पं० ३४ गतपाठानुरोधेन 'उपकारेऽपि तद्भिन्नसंबन्धित्वकरणे पुनरपि तयोः असंबन्धित्वम्' इत्यर्थोऽनुसन्धेयः। ३ न. पृ. पं०६।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy