________________
ऋषिदत्ताचरित्रे तृतीयोल्लासः ॥]
[१९३ विलप्येत्याद्यसौ मन्त्री, मोहमूर्छाऽतिमोहितः । मत्तमद्यपवन्मयां, लोलुठीति शठो हठात् ॥४२६।। नग्नीस्याद् वस्त्रशैथिल्यात् , न जानाति परं निजम् । स्वामिनं किङ्करं वाऽपि, वचनं प्रियमप्रियम् ॥४२७।। ग्राथिल्यं भानुमन्त्रीशस्संप्राप्तस्तद्वियोगतः । नृपव्यापारतो भ्रष्टोऽनिष्टोऽभूच्छिष्टचेतसाम् ॥४२८॥ गङ्गायात्रिकपुंसोऽसा-वेकदा वीक्ष्य निर्गतः । गृहाद् ग्राथिल्यतो व्यग्रो, ग्रहाऽऽविष्ट इव स्वयम् ॥४२९॥ मन्त्री भानुस्सपाथेयस्ससहायस्सदाशयः । स्वद्रङ्गाद् दिवसैः कैश्चिद् , द्रङ्गाद् गङ्गाऽऽपगामगात् ॥४३०।। 10 सरस्वतीति दयिता-नामग्रहणपूर्वकम् ।
त्रिकालं स्नात्यसौ तत्र, दद्याच्च वार्याञ्जलिं वेः ॥४३१।। यत: -"विद्यातीर्थे विपुलमतयस्साधवस्सत्यतीर्थे ,
गङ्गातीर्थे मलिनमनसो, योगिनो ध्यानतीर्थे । लज्जातीर्थे कुलयुवतयो, दानतीर्थे धनाढ्या, धारातीर्थे, धरणिपतयः, कल्मषं क्षालयन्ति" ॥४३२॥[ मन्दाक्रान्ता] [ ] 15 "शुचि गङ्गामहास्नानं, शुचि त्रिपथगापयः ।
शुचि दानं त्रिधा शुद्धं, शुचि भोज्यं भवेत् ततः" ॥४३३॥ [ ] प्रातः प्राग्विधिना स्नात्वा, दत्वा दानं सदर्थिनाम् ।
स्वहस्ताभ्यां प्रशस्ताभ्यां, भुङ्क्ते भोज्यं स धीसखः ॥४३४॥ यतः -"पश्चाद् दत्तं परैर्दत्तं, लभ्यते वा न लभ्यते ।
स्वहस्तेन तु यद्दत्तं, लभ्यते नाऽत्र संशयः" ॥४३५॥ [ ] "यदनस्तमिते सूर्ये, न दत्तं धनमर्थिनाम् । तद्धनं नैव जानामि, प्रातः कस्य भविष्यति" ॥४३६॥[ ] "दानं प्रियवाक्सहितं, ज्ञानमगर्वं क्षमाऽन्वितं शौर्यम् । त्यागसहितं च वित्तं, दुर्लभमेतच्चतुर्भद्रम्" ॥४३७॥ [आर्या ] [ ] 25
20
१. पुमांसं चैकदा LI
D:\amarata.pm5\3rd proof