________________
5
10
६८]
[ दीपालिकापर्वसंग्रहः ॥
विश्वानन्दविधात्री तमोपहा सकलदुरितततिहन्त्री । अपहरतु सकलदुरितं जिनेशवाणीव दीपाली ॥२७६॥ विश्वालङ्करणैकहेतु विमलालोकश्रियं भावुकैर्दानैर्भोगफलैश्च पूज्यविनयैः सर्वाङ्गसौख्यावहम् । माङ्गल्यं कमलाप्रवेशनपदं सर्वार्थसिद्धिप्रदम्, श्रीमद्धर्म इव श्रियं दिशतु वो दीपालिकाख्यं दिनम् ॥ २७७॥ उपशमितमेघनादं प्रक्षालितदशाननं रमितरामम् । रामायणमिव सुभगं दीपदिनं हरतु वो दुरितम् ॥२७८॥
श्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः समाप्तः ॥
D:\chandan/new/ kalp-1 / pm5\3rd proof