________________
दीपालिकाकल्पः ॥]
[६७ इन्द्रप्रहितगन्धर्वैर्गीतोपशमरसान्वितम् । विष्णुं स्वभावसम्पन्नं चक्रवर्त्यादयोऽनमन् ॥२६४।। महापद्ममुपालभ्य कृत्वा सङ्घप्रभावनाम् । प्रतिक्रम्य गुरोरन्ते ययौ विष्णुः शिवं क्रमात् ॥२६५॥ तत्रोत्पाते प्रशान्तेऽथ पुनरुज्जीवितं जगत् । संभूय भोजनाच्छाद-विभूषाद्युत्सवं व्यधात् ॥२६६।। प्रतिवर्षं तदाद्यत्र दिने प्रावर्त्ततोत्सवः । दीपालीवीरनिर्वाणादिति दीपोत्सवस्थितिः ॥२६७॥ चतुर्दश्याममावस्यां षोडशः प्रहरावधिः । कोटीसहितमुपोष्य पूजयेच्छ्रुतमष्टधा ॥२६८।। स्मृत्वा सहस्रपञ्चाशत्परिवारं हि गौतमम् । स्वर्णाम्भोजे ततोऽखण्डदीपो बोध्यः स तण्डुलः ॥२६९।। इत्थं सहस्रपञ्चाशद् गुणं पुण्यमुपाय॑ते । जैनधर्मरता भव्याः प्राप्नुवन्त्यक्षयं पदम् ॥२७०।। श्रुत्वेति सम्प्रतिनृपः प्रतिवर्षमेवं, दीपोत्सवं जनपदेष्वखिलेषु तेने । 15 श्रीमत्सुहस्तिगुरुपादप्रसादनादादाप्तं च राज्यमशिषज्जिनधर्मरम्यम् ॥२७१॥ किञ्चिज्ज्ञात्वा श्रुताम्भोधेः किञ्चिद्बहुश्रुताननात् । कृतो दीपालिकाकल्पः शोध्यः सद्भिः प्रसद्य सः ॥२७२।। समभावादमावास्यामुपोष्य प्रतिपद्दिने । गुरुभ्यः परमान्नेन पूर्णो देयः पतद्ग्रहः ॥२७३।। लक्ष्याद्वादशधान्यानां ढौकनीया जिनाग्रतः । एवमाराधनीयः श्रीगौतमगणभृत्तमः ॥२७४।। शर ५ युग ४ शिखि ३ शशि १ वर्षे शिष्यः श्रीरत्नसिंहसूरीणाम् । श्रीविनयचन्द्रसूरिश्चक्रे दीपालिकाकल्पम् ॥२७५॥
१. प्रत्यन्तरेऽयं श्लोक: २६५ श्लोकतोऽग्रे अधिकोऽस्ति । "योऽवज्ञाकृन्मुनीन्द्राणां मर्त्यरूपो मृगो हि स । इति लोकप्रबोधार्थं लोकोक्तिगो हि सोऽभवत्" ।।
D:\chandan/new/kalp-1/pm5\3rd proof