________________
10
[दीपालिकापर्वसंग्रहः ॥ रथाकृष्टौ तयोर्वादे राजा द्वावप्यवारयत् । मातुर्वीक्ष्यापमानं तु पद्मो देशान्तरं ययौ ॥२५१।। ऊढ मदनावलीको जितषट्खण्डभारतः । महापद्मः पुरायातः पित्रा राज्ये न्यवेशयत् ॥२५२॥ समं विष्णुकुमारेण स्वयं पद्मोत्तरो नृपः । सुव्रताचार्यपादान्ते परिव्रज्य ययौ शिवम् ॥२५३।। मुनेर्विष्णुकुमारस्य षष्टिवर्षशतान्यथ । तपस्यतः समुत्पन्नाः लब्धयो वैक्रियादिकाः ॥२५४।। चक्रवर्ती महापद्मोऽ-हच्चैत्यैर्भूषितावनिः । मातुर्मनोरथापूत्यै रथयात्रोत्सवं व्यधुः ॥२५५॥ ययाचे नमुची राज्यं वरेणाथ करे कृतं । चक्री च तस्मै तद्दत्वा स्वयमन्तःपुरेऽविशत् ॥२५६।। तदा श्रीसुव्रताचार्यो वर्षासु हस्तिनापुरे । चतुर्मासाभिग्रहेण सुतस्थौ सपरिच्छदः ॥२५७।। अन्यदा नमुचिः सूरीन् दृष्ट्वा वैरमनुस्मरन् । अवोचल् लिङ्गिनः सर्वे त्वद्वर्जं मामुपस्थिताः ॥२५८।। स्थातव्यं तन्न मद्भूमौ सप्ताहोपरि साधुभिः । यः स्थाता तं हनिष्यामि सङ्घः पृष्टश्च सूरिभिः ॥२५९॥ प्रहित्य मुनिराहूतो विष्णुर्मेरुशिखास्थितः । नमुचिवर्जा राजानो विष्णुं वीक्ष्य ववन्दिरे ॥२६०॥ ऊचे विष्णुर्यान्ति पूर्णा-भिग्रहाः साधवः स्वयम् । तद्देहि कियती भूमिं ततो तस्मै त्रिपदीमदात् ॥२६१॥ लक्षयोजनदेहीऽभू-द्विष्णुर्वैक्रियलब्धितः । क्रमौ पूर्वापराम्बुध्योय॑स्य विश्वमकम्पयत् ॥२६२॥ क्रमं तृतीयं नमुचेः पृष्ठे निष्टुरमादधे । क्षिप्तस्त्रिविक्रमेणेति रसातलं बली रिपुः ॥२६३।।
25
D:\chandan/new/kalp-1/pm5\3rd proof