________________
६४]
10
[दीपालिकापर्वसंग्रहः ॥ अजायन्त शतान्यष्टा-वनुत्तरोपपातिनां । एवं परिवारयुतः कृतषष्ठतपाः प्रभुः ॥२२४॥ छद्मस्थोऽस्थात् समा-स्त्रिंशत्सार्द्धद्वादश छद्मवान् । केवली त्रिंशदोना सर्वायुद्वर्यग्रसप्ततिः ॥२२५॥ कार्तिकस्यामावास्यायां चन्द्रे द्वितीयवत्सरे । प्रीतिवर्द्धनसन्मासे पक्षे च नन्दिवर्द्धने ॥२२६।। देवानन्दाभिध रात्रा-वुपशमाख्यवासरे । नागे करणे मुहूर्ते सर्वार्थसिद्धिनामनि ॥२२७।। स्वातौ रात्र्यन्तयामार्द्ध पर्यङ्कासनमाश्रितः । स्वामी शक्रेण विज्ञप्तः प्रतीक्षस्व क्षणं विभो ! ॥२२८।। यतस्ते जन्मभं नाथ तीर्थपूजाप्रभावहृत् । द्विवर्षसहस्रस्थायी संक्रान्तो भस्मको ग्रहः ॥२२९॥ ऊचे प्रभुः शक्र ! नाऽऽयु-वृद्धौ क्षमा जिना अपि । किं वा भाव्यं भवन्नेवं नाशः स्यान्न कदाचन ॥२३०॥ कल्याणफलपाकानि तथा पापफलानि च । प्रत्येकं पञ्चपञ्चाशद्वि-भाव्याऽध्ययनान्यथ ॥२३१।। अपृष्टव्याकरणानि षट्त्रिंशत्प्रकाशयन् । स्मरन् प्रधानाध्ययनं शैलेशीमाश्रयद्विभुः ॥२३२।। युग्मम् ॥ कृतयोगनिरोधोऽथ सिद्धानन्तचतुष्टयः । श्रीवीरः प्राप निर्वाणं गौतमश्चाप केवलम् ॥२३३।। उत्पन्नेऽनुद्धरीकुन्थौ दुष्पालं वीक्ष्य संयमम् । बह निर्ग्रन्थनिर्ग्रन्थ्य-स्तदा चानशनं व्यधुः ॥२३४|| नव मल्लकिज्ञातीया लच्छकिज्ञातयो नव । गणराजानोऽष्टादशाः काशीकोशलनायकाः ॥२३५॥ ते पौषधोपवासादि प्रस्थाप्यामावसीदिने । भावोद्योते गते द्रव्यो-द्योतां दीपालिकां व्यधुः ॥२३६॥ आगच्छद्भिश्च गच्छद्भिर्देवदेवीगणैस्तदा । रात्रि|तिमयी साभू-त्कोलाहलभृशाकुला ॥२३७।।
15
D:\chandan/new/kalp-1/pm5\3rd proof