________________
[६३
दीपालिकाकल्पः ॥]
दीर्घदन्तो गूढदन्तः शुद्धदन्तस्तृतीयकः । श्रीचन्द्रचक्री श्रीभूतिः श्रीसोमः पद्मसंज्ञिकः ॥२१०।। महापद्मो दर्शनाख्यो विमलोऽमलवाहनः । अरिष्टश्च द्वादशैते भरते भाविचक्रिणः ॥२११॥ नव कृष्णः नन्दि-नन्दिमित्र-सुन्दरबाहुकाः । महाबाहू रतिबलो महाबलो बलस्तथा ॥२१२।। द्विपृष्ठश्च त्रिपृष्ठश्च तथैते प्रतिविष्णवः । तिलको लोहजङ्घश्च वज्रजङ्घश्च केशरी ॥२१३।। बलिपलादनामानावपराजितभीमको । सुग्रीवश्च भविष्यन्ति स्वचक्रेण हता नव ॥२१४॥ जयन्तो व्याजितो धर्मः सुप्रभश्च सुदर्शनः । आनन्दो नन्दनः पद्मः सङ्कर्षणो बला नव ॥२१५।। उत्तमनरैकषष्टि-स्तृतीयेऽरे भविष्यति । उत्सर्पिण्यां चतुर्थे तु भाविनौ जिनचक्रिणौ ॥२१६।। ततः कल्पद्रुमोत्पत्तौ युग्मिधर्मो भविष्यति । अष्टादशकोटिकोटी-सागराणि निरन्तरम् ॥२१७।। उत्सर्पिण्यवसर्पिणी कालचक्राण्यनन्तशः । अनन्तगुणा व्यतीता वातो भावीनि भारते ॥२१८॥ इत्यादिश्य भगवान् प्र-बोधाय देवशर्मणः । प्राहिणोद् गौतमं ग्रामे प्रेमबन्धछिदे तथा ॥२१९।। तदासन् स्वामिनः शिष्याः सहस्राणि चतुर्दश । षट्त्रिंशच्च सहस्राणि चन्दनाप्रमुखार्यिकाः ॥२२०।। एकोनषष्टिसहस्राधिकलक्षमुपासकाः । अष्टादशसहस्राणि-लक्षत्रयमुपासिकाः ॥२२१॥ चतुर्दशपूर्विणां तु शतत्रयं प्रभोरभूत् । त्रयोदशशतान्यास-न्नवधिज्ञानशालिनाम् ॥२२२।। सप्तशती केवलिनां वैक्रियाणां च साऽभवत् । पञ्चशती विपुलानां वादिनां च चतुःशती ॥२२३।।
D:\chandan/new/kalp-1/pm5\3rd proof