SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ 10 ६२] [दीपालिकापर्वसंग्रहः ॥ स्वर्णवर्णः सप्तहस्तप्रमाणः सिंहलाञ्छनः । सद्वासप्ततिवर्षायु-र्भावी गौतम मत्समः ॥१९६।। जीवः श्रेणिकराजस्य पद्मनाभजिनो भुवि । सुपार्श्वजीवो भविता सूरदेवो द्वितीयकः ॥१९७।। तृतीयः उदायी जीव: सुपार्श्वस्तीर्थनायकः । भविता पोट्टिलजीव-स्तुर्यः स्वयम्प्रभो जिनः ॥१९८।। पञ्चमो दृढायुर्जीवः सर्वानुभूतितीर्थकृत् । देवश्रुतो जिनः षष्ठः कार्तिकस्तु भविष्यति ॥१९९।। उदयाख्यजिनो भावी शङ्खजीवस्तु सप्तमः । आनन्दजीवो भविता-ष्टमः पेढालतीर्थकृत् ॥२००॥ जीवो भावी सुनन्दस्य नवमः पोट्टिलो जिनः । दशमः शतकजीवः शतकीर्तिजिनोत्तमः ॥२०१।। देवकी जीवो भवितै-कादशो मुनिसुव्रतः । अममो वासुदेवस्य जीवो द्वादश तीर्थकृत् ॥२०२॥ भविता सत्यकी जीवो निष्कषायस्त्रयोदशः । बलदेवस्य जीवस्तु निष्पुलाकश्चतुर्दशः ॥२०३।। पञ्चदशः सुलसाया-जीवो निर्ममतीर्थकृत् । भविता रोहिणी जीव-श्चित्रगुप्तस्तु षोडशः ॥२०४॥ रेवतीजीवस्तु सप्त-दशः समाधितीर्थकृत् । भविता शताली जीवः संवरोऽष्टादशो जिनः ॥२०५।। यशोधरजिनो भावी जीवो द्वीपायनस्य तु । विजयाख्यजिनो विंशः कर्णजीवो भविष्यति ॥२०६।। मल्लो जीवो नारदमस्यै-कविंशो भविता जिनः । अम्बडजीवो भविता द्वाविंशो देवतीर्थकृत् ॥२०७।। त्रयोविंशोऽमरजीवोऽनन्तवीर्यो जिनाधिपः । स्वातिबुद्धजीवो भावी भद्रो पश्चिमतीर्थकृत् ॥२०८॥ आयुः प्रमाणकल्याण-वर्णान्तरकलाञ्छनैः । एते पश्चादनुपूर्व्या वर्तमानजिनैः समाः ॥२०९।। 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy