SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ [६१ दीपालिकाकल्पः ॥] मध्याह्ने सुमुखो मन्त्री राजा विमलवाहनः । शमिष्यति चापराह्ने वह्निर्विधास्यति क्षितौ ॥१८२।। क्षयाय वाता वात्स्यन्ति वर्षिष्यन्ति विषाम्बुदाः । द्वादशार्कसमः सूर्यो हिमांशुश्च दहिष्यति ॥१८३॥ गङ्गासिन्धूभयतटे बिलद्वासप्ततावथ । वैताढ्यमूले स्थास्यन्ति नृतिर्यञ्चः षट्खण्डजाः ॥१८४।। रथाङ्गमध्यतुल्योऽथ गङ्गासिन्धुजलोद्भवैः । रात्रौ कृष्टैः सूर्यपक्वैः तेषां मत्स्यादिभिर्घत्रं ॥१८५।। धास्यन्ति गर्ने षड्वर्षा नार्यः षोडशाऽब्दाऽऽयुषः । द्रक्ष्यन्ति पुत्रप्रपौत्रान् विंशत्यब्दायुषो नराः ॥१८६॥ हस्तोच्छ्रयाः कषायोग्रा नग्नास्ते बिलवासिनः । षष्ठाऽरे भाविनो वर्ष-सहस्राण्येकविंशतिः ॥१८७॥ उत्सपिण्याद्याऽरकेऽपि तत्तुल्येऽपि गते ततः । वषिष्यति पञ्चमेघाः सप्ताहं भारते पथक ॥१८८।। तेष्वादौ पुष्करावर्त्त-स्तापं निर्वापयिष्यति । क्षीरोदः कर्ता धान्यानां धृतोदः स्नेहकारकः ॥१८९॥ अमृतोद औषधीकृत् रसदो रसकृद्भुवः । निर्यास्यन्ति बिलेभ्यस्ते वर्धमानायुरङ्गिकाः ॥१९०।। मांसाहारं निषेध्यन्ति ते धान्यफलभोजिनः । मध्यदेशे कुलकराः सप्तैते भाविनस्ततः ॥१९१।। श्रीविमलवाहनाख्यः सुदामा सङ्गमस्ततः । सुपाश्र्वा दत्तसुमुखौ सम्मुचिस्तेषु सप्तमः ॥१९२।। जातिस्मृतेः पुरादीनां कर्ता विमलवाहनः ।। उत्पन्नेऽग्नावन्नपाकं शिल्पाद्यप्युपदेक्ष्यति ॥१९३।। सैकोननवति पक्षेऽ-थोत्सर्पिण्या अरद्वये । गते शतद्वारपुरे सम्मुचिः पृथ्वीपतिः ॥१९४।। भद्रादेव्या चतुर्दश-महास्वप्नोपसूचितः । श्रेणिकात्मा जिनो भावी कृतजन्मोत्सवः सुरैः ॥१९५॥ युग्मम् ॥ 25 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy