SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ 5 10 151 20 25 ६०] [ दीपालिकापर्वसंग्रहः ॥ नन्दस्वर्णं जनाञ्ज्ञात्वा गृहीत्वा स्तूपपञ्चकान् । अष्टादशवर्षावधेः कल्की राजा भविष्यति ॥१६८॥ षट्त्रिंशत्वत्सरो भावी त्रिखण्डभरताधिपः । खानं खानं निधानानि ग्रहीष्यति स सर्वतः ॥ १६९ ॥ लवणदेवस्य धेनुः खनतां निर्गमिष्यति । शृङ्गाभ्यां घट्यते साधुः स्थापिता सा चतुःपथे ॥ १७० ॥ दण्डित्वाऽशेषपाखण्डान् भिक्षाषष्ठांशसमर्थयन् । कायोत्सर्गाहूतदेव्या साधुभ्यो वारयिष्यति ॥१७१॥ कल्की नंष्ट्वा स्थलभुवि करिष्यति नवं पुरम् । पंचाशद्वर्षसुभिक्षे द्रोणो द्रम्मेण लभ्यते ॥१७२॥ पुनः धनार्थी लोभात्मा निस्वं कृत्वाखिलं जनं । भिक्षाषष्ठांशयात्रायै स रोत्स्यति पुनर्मुनीन् ॥१७३॥ तदा प्रातिपदाचार्य- मुख्यसङ्घोऽखिलोऽपि हि । स्थास्यति कायोत्सर्गेण स्मृत्वा शासनदेवताम् ॥१७४॥ बोधितः शासनदेव्या यावत् कल्की न भोत्स्यते । तावदासनकम्पेनागन्ता शक्रो द्विजाकृतिः ॥ १७५॥ तेनापि शिक्षितो भूपः सकोपोऽपि चपेटया । हनिष्यति षडशीति-वर्षायुर्नरकं गमी ॥१७६॥ ततस्तस्य सुतं दत्तं राज्येऽभिषिच्य देवराट् । नत्वा प्रातिपदं सूरिं सङ्घसौख्ये दिवं गमी ॥ १७७॥৷ दत्तः प्रतिदिनं जैनं चैत्यं मण्डिष्यते महीम् । एकोनविंशतिवर्ष-सहस्राण्यथ धर्मधीः || १७८ ।। दुः षमाऽरकपर्यन्ते प्रव्रज्य द्वादशाब्दिकः । दुःप्रसहो द्विहस्तांगो दशवैकालिकागमः ॥१७९॥ व्रतं समाः प्रपाल्यष्टौ विंशत्यब्दः कृताष्टमः । एकावतारः सौधर्मे पल्यायुर्भविता सुरः ॥ १८० ॥ युग्मम् ॥ अन्त्याथ साध्वी फल्गुश्रीः श्रावको नागिलस्तथा । सत्यश्रीः श्राविका सङ्घः पूर्वाह्णे शममेष्यति ॥ १८१ ॥ D:\chandan/new/ kalp -1 / pm 5 \ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy