SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 10 [दीपालिकापर्वसंग्रहः ॥ ज्ञानेन दीक्षासमयं विज्ञाय भगवानथ । सांवत्सरिकमारेभे दानं दातुं किलेप्सितम् ॥११७।। अशीतिलक्षैरधिका तथाऽष्टाशीतिकोटिभिः । संवत्सरेण स्वर्णस्य दत्ता कोटिशतत्रयी ॥११८।। मार्गस्य कृष्णदशम्यां कृतषष्ठतपाः प्रभुः । सुरासुरनराधीशैर्दीक्षार्थमभ्यनन्दयन् ॥११९।। चन्द्रप्रभाशिबिकाया-मारुह्याहनि पश्चिमे । अनुगम्यमानमार्गः सदेवमनुजासुरैः ॥१२०।। मङ्गलकल्याणवाग्भिः स्तूयमानश्च बन्दिभिः । नन्द जीव जयाविघ्नं तेभ्यः शृण्वंस्तथाऽऽशिषः ॥१२१॥ वीक्ष्यमाणोऽक्ष्णां सहस्रैः दृश्यमानोऽङ्गलीगणैः । नरनारीसहस्राणां प्रतीच्छन्प्रणताञ्जलीन् ॥१२२।। हृद्भिरभिनन्द्यमानः प्रार्थ्यमानो मनोरथैः । क्षत्रियकुण्डग्रामाख्या-निर्गत्य ज्ञातनन्दनः ॥१२३।। सर्वबलेन सर्वां ज्ञातखण्डवने प्रभुः । समुत्तीर्य शिबिकाया अशोकस्य तरोरधः ॥१२४।। विमुच्य सर्वालङ्कारान् लुञ्चित्वा केशसंचयम् । सुव्रते दिवसे स्वामी मुहूर्ते विजये तथा ॥१२५।। एकेन देवदूष्येण स्कन्धन्यस्तेन वज्रिणा । एकः प्रपेदे भगवा-नगारादनगारिताम् ॥१२६।। अष्टभिः कुलकम् । अपानकेन षष्ठेन कृत्वा सिद्धनमस्कृतिम् । सामायिकं प्रपद्याथ मनःपर्यवमासदत् ॥१२७॥ अथो नरामरनाथं नत्वा जग्मुर्निजालयम् । प्रभोर्बहुलगेहेऽभू-त्परमान्नेन पारणम् ॥१२८।। वर्षमासाधिकं चेली स्वाम्यचेलस्ततः परम् । पञ्चसमितिस्त्रिगुप्तो मौनी पाणिपतद्ग्रहः ॥१२९।। 20 25 १. अर्थ-त्रण अबज अठ्यासी क्रोड अने एंशी लाख सुवर्ण, दान एक वरसमां आप्युं ॥ २. बहुलबाह्मणगृहे। D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy