________________
दीपालिकाकल्पः ॥]
देवानन्दा च तद्रात्रौ महास्वप्नांश्चतुर्दश । हृतानपश्यत् त्रिशलादेव्या दिव्यगजादिकान् ॥५०॥ अथ दिव्यकृतोल्लोचे मणिदीपप्रकाशिते । विचित्रपुष्पप्रकरे कालागरुसुधूपिते ॥५१॥ वासौकसि तदन्तस्य पल्यङ्के हंसतूलिके । पट्टांशुकप्रतिच्छन्ने रम्यालिङ्गनवर्त्तिके ॥५२॥ गम्भीरे सरजस्त्राणे गङ्गापुलिनकोमले । प्रसुप्तजागरावस्था सायाह्नीवारविन्दिनी ॥५३॥ राज्ञी श्रीत्रिशलादेवी महास्वप्नांश्चतुर्दश ।
पूर्वरात्रापररात्रे कालेऽपश्यदिति क्रमात् ॥५४॥ चतुर्भिः कलापकम् ॥
ददृशे प्रसरद्दानः सप्ताङ्गेषु प्रतिष्ठितः । गजराजः सुविस्तीर्णो हेस्तप्रोन्नतविंशकः ॥५५॥ देव्या सुष्टुतिं बिभ्रच्चतुष्पादप्रतिष्ठितः । त्रैलोक्यधर्वह श्वेतो वृषभो वृषसन्निभः ॥५६॥ डकाराकारलाङ्गूलश्चन्द्रांशूपमकेशरः । दृष्टो दंष्ट्राकरालास्यो मृगेन्द्रो रौद्रलोचनः ॥५७॥ दिग्गजैः (रभिषिक्ता च) कृताभिषेका सर्वाभरणभूषिता । दृष्टा सर्वानवद्याङ्गी पद्मा पद्मनिवासिनी ॥५८॥ सौरभ्यलुभ्यद्भ्रमरं परागैरञ्जिताम्बरम् । यशः समुज्ज्वलं दाम ददर्श त्रिशला तदा ॥ ५९॥ चन्द्रः कुवलयानन्दकारी स्वामिस्वभाववत् । नरामरोपजीव्य श्रीर्दृष्टो देव्या तमोपहः ॥६०॥ प्रकाशयन्निशामास्यं भव्याम्भोजविकाशकृत् । स्वामिन्या ददृशे सूर्यः साक्षात् स्वामिप्रतापवत् ॥६१॥ मेरुचारुलसद्दण्डः स्वर्गङ्गाभपताकिकः । मूर्द्धनिविष्टसिंहोऽथ दृष्टो देव्या महाध्वजः ॥ ६२॥ १. चंदरवो । २. (हस्तविंशतिप्रोन्नतः) ।
D:\chandan/new/ kalp-1 / pm5\ 3rd proof
[ ५१
5
10
15
20
25