SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ ५०] 10 [दीपालिकापर्वसंग्रहः ॥ व्रज सेनापते ! शीघ्र जम्बूद्वीपस्य भारते । ब्राह्मणकुण्डग्रामेऽत्रर्षभदत्तद्विजौकसि ॥३६।। संहृत्य देवानन्दायाः गर्भाद्वीरजिनेश्वरम् । क्षत्रियकुण्डग्रामाख्ये पुरे ज्ञातकुलेशितुः ॥३७|| श्रीसिद्धार्थनरेन्द्रस्य क्षत्रियाणां शिरोमणेः । राज्या श्रीत्रिशलादेव्या गर्भे संक्रामय क्रमात् ॥३८॥ गर्भं च त्रिशलादेव्या देवानन्दोदरं नय । दुर्घटेन सदा कार्ये त्वदधीना हि सिद्धयः ॥३९॥ देवेन्द्रस्य तदादेशं मूर्जादाय चमूपतिः । गत्वेशान्यां च विदधे समुद्धातं च वैक्रियम् ॥४०॥ सङ्ख्यातयोजनायामं दण्डं चक्रे च तद्यथा । मसारगल्ल-वैडूर्य-वज्र-सौगन्धिकाञ्जनाः ॥४१॥ लोहिताक्ष-हंसगर्भा-पुलका-सुभगाश्चये । रिष्टाञ्जन-पुलकाश्च जातरूपाश्च राजताः ॥४२॥ ज्योतीरसाङ्क-स्फटिकाः तेषां बादरपुद्गलान् । त्यक्त्वादाय तदा सूक्ष्मान् वैक्रिय रूपमादधे ॥४३॥ चण्ड-चपलाप-वातोद्धुताभिर्गतिभिव्रजन् । संप्राप ब्राह्मणावासं यत्राऽस्ति परमेश्वरः ॥४४॥ कृत्वा प्रणाममालोक्याऽपहृत्याऽशुभपुद्गलान् । दत्त्वाऽवस्वापिनी मातुः प्रक्षिप्य शुभपुद्गलान् ॥४५॥ अनुज्ञाप्य जगन्नाथं गृहीत्वा करसंपुटे । क्षत्रियकण्डग्रामेऽसौ ययौ सिद्धार्थमन्दिरे ॥४६॥ कुक्षौ श्रीत्रिशलादेव्या व्याबाधारहितं विभुम् । अवस्वापिनीकापूर्वं स तथैव न्यवेशयत् ॥४७॥ निवेश्य पूर्वगर्भं च देवानन्दोदरे रयात् । तथैव गत्वा स स्वर्गमाज्ञां प्रत्यर्पयद्धरेः ॥४८॥ कृष्णाश्विनत्रयोदश्यामृक्षे हस्तोत्तराभिधे । व्यशीतिदिवसान्तेऽभूद्विभोर्गर्भव्यतिक्रमः ॥४९।। D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy