SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ [४९ दीपालिकाकल्पः ॥] चतुर्गुणैश्चतुरशीतिसहस्रैरङ्गरक्षकैः । सेवितो देवदेवीना-माधिपत्यं प्रपालयन् ॥२३।। भुञ्जानो विविधान् भोगान् शक्रः सौधर्मनायकः । जम्बूद्वीपं केवलीव प्रश्यन्नवधिना ततः ॥२४॥ ददर्श श्रीमहावीर-मवतीर्णं द्विजौकसि । सिंहासनादथोत्थाय विमुच्य मणिपादुके ॥२५।। एकशाटोत्तरासङ्गः पादसप्ताष्टकं गतः । वामं जानुं निरालम्बं दक्षिणं न्यस्य भूतले ॥२६।। मूर्जा प्रणम्य त्रिःकृत्वा ललाटघटिताञ्जलिः । शक्रः शक्रस्तवेनोच्चैस्तुष्टाव परमेश्वरम् ॥२७॥ तत्र गतं भगवन्तं वन्दे चाहमिह स्थितः । स्वामी पश्यतु मामित्थं स्तुत्वा शक्रो व्यचिन्तयत् ॥२८।। नैतद्भूतं भवति वा भविष्यद्वा कथञ्चन । यदर्ह-च्चक्रि-बलभृत्-वासुदेवादिपुरुषाः ॥२९।। कृपण-ब्राह्मण-प्रान्त-तुच्छ-भिक्षु-दरिद्रिणाम् । कुले किल न जायन्ते जायन्ते वा जनुर्न तु ॥३०॥ इक्ष्वाकु-हरिवंशो-ग्र-भोग-राजन्य-चक्रिणाम् । क्षत्रियाणां कुलेष्वेव शलाकानृजनिर्भवेत् ॥३१।। अनन्तकालादाश्चर्यं लोके स्यादेतदप्यथ । अक्षीणस्य प्रभावाद्वा नीचैर्गोत्रस्य कर्मणः ॥३२॥ जीतमेतत् सुरेन्द्राणां यदर्हन्तोऽधमात् कुलात् । नीयन्ते गर्भव्युत्क्रान्त्या जन्महेतोर्महाकुले ॥३३॥ तदथ श्रीमहावीरमायान्तं ब्राह्मणौकसि । हरिनैगमेषीपार्थात् प्रापयाम्युत्तमे कुले ॥३४॥ स्मरणमात्रोपनतं पदात्यनीकनायकम् । अथादिक्षत् सहस्राक्षः प्राञ्जलिं प्राञ्जलाशयः ॥३५।। १. मनोहरः । 25 D:\chandan/new/kalp-1/pm513rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy