SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ 5 10 15 20 25 ४८ ] श्रीसुहस्तिरुवाच - [ दीपालिकापर्वसंग्रहः ॥ प्राणताद्दशमात् कल्पात् विंशतिसागरस्थिते: । पुष्पोत्तरपुण्डरीकमहाविमानतश्च्युतः ॥१०॥ द्वीपेऽत्र जम्बूद्वीपाख्ये क्षेत्रे भरतनामनि । अस्यामेवावसर्पिण्यां व्यतिक्रान्तेऽरकत्रये ॥ ११॥ अर्द्धनवमासाधिकपञ्चसप्ततिवत्सरैः । ऊने गते चतुथरि पूर्वतीर्थङ्करोदितः ॥१२॥ भगवान् श्रीमहावीरो ज्ञानत्रयपवित्रितः । आषाढे विमले षष्ठ्यां धिष्ण्ये हस्तोत्तराभिधे ||१३|| ब्राह्मणकुण्डग्रामेऽत्रर्षभदत्तद्विजन्मनः । देवानन्दाख्यभार्यायाः स्वामी कुक्षाववातरत् ॥१४॥ पूर्वरात्रापररात्रे काले सा सुप्तजागरा । देवानन्दा ददर्शेमान् महास्वप्नांश्चतुर्दश ॥१५॥ गजो वृषो हैरिर्लक्ष्मी दामेन्द्वर्कौ ध्वज घटः । पद्मसरः समुद्रश्च विमानं मणयः शिखी ॥१६॥ साऽऽख्यत् ऋषभदत्ताय स्वप्नान् सोऽपि विचारयन् । अर्थ-भोग-पुत्र-सौख्य-लाभकरा अमी प्रिये ! ॥१७॥ सर्वलक्षणसंपूर्णो वेद-वेदाङ्गपारगः । साधिकैर्नवभिर्मासैस्तव पुत्रो भविष्यति ॥ १८ ॥ देवानन्दा तदाकर्ण्य धाराहतकदम्बवत् । उच्छसित रोमकूपा तद्वाक्यमभ्यनन्दयत् ॥१९॥ तस्मिन् काले देवराजो वज्रपाणिः पुरन्दरः । शतक्रतुः सहस्राक्षो मघवा पाकशासनः ॥२०॥ विमानलक्षद्वात्रिंश-दधीशो दक्षिणाधिपः । इन्द्रसमचतुरशीतिसहस्रश्च सुरेश्वरः ||२१|| अष्टाग्रमहिषीनाथो लोकपालचतुष्टयः । सप्तसेनाधिपाधीशः परिषत्त्रितयान्वितः ॥२२॥ D:\chandan/new/ kalp-1 / pm5\ 3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy