SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रुतस्थविराचार्यदेवश्रीविनयचन्द्रसूरीश्वरविरचितः दीपालिकाकल्पः ॥ श्रीवर्द्धमानमानम्य स्मृत्वा श्रीश्रुतदेवताम् । जैनागमानुसारेण वक्ष्ये दीपदिनस्थितिम् ॥१॥ मौर्यान्वयनभश्चन्द्र-चन्द्रगुप्तनृपाङ्गजः । भूपतिबिन्दुसारोऽभूदशोकश्रीश्च तत्सुतः ॥२॥ तत्पुत्रस्य कुणालस्यावन्तिनाथस्य नन्दनः । नृपतिः सम्प्रतिर्जात-स्त्रिखण्डभरताधिपः ॥३॥ जीवत्स्वामिप्रतिमानां वन्दनायान्यदाऽऽययुः । उज्जयिन्यां श्रीमदार्य-सुहस्त्याचार्यकुञ्जरः ॥४॥ एकदा रथयात्रायां दृष्ट्वा तान्नृपसम्प्रतिः । सञ्जातजातिस्मरणो, नमस्कृत्य व्यजिज्ञपत् ॥५।। मया द्रमकमात्रेण प्रसादाद्भवतामिदम् । प्राप्तं राज्यं तु गृह्णीध्व-मनुगृह्णीत मां प्रभो ! ॥६॥ श्रीसुहस्तिरुवाच राज्यं न कल्पतेऽस्माकं नि:स्पृहाणां वपुष्यपि । त्वं मोक्षवृद्धिबीजे तु सम्यक्त्वे निश्चलो भव ॥७॥ संपूज्याः श्रीमदर्हन्तः पर्युपास्याः सुसाधवः । दयादानादिको धर्मः कर्त्तव्यः सर्वपर्वसु ॥८॥ राजा उवाच पर्युषणादिपर्वाणि जैना एव विदन्ति यत् । ख्यातं दीपालिकापर्व लोके लोकोत्तरे कुतः ? ॥९॥ १. कर्मसु । D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy