________________
४६]
[दीपालिकापर्वसंग्रहः ॥
ततश्च धरणीपीठे प्रथमो गणनायकः । विजहार चिरं भूरि भव्यजीवप्रबोधकः ॥७४॥ इति दीवालीकल्प: मणिविजयलिखितः ॥ Jगोशीर्षचन्दनादिभिः शक्रोत्तरक्रियां प्रभोः कारयामास। प्रभोनिर्वाणं श्रुत्वाऽथ गौतमोऽचिन्तयदिति ईदृशे निर्ममे कथं ममत्वं क्रियते। इति चिन्तयतो भगवतोऽपि केवलं ज्ञानमुत्पेदे। महिमा सुरेन्द्रादिभिः कृतः। ते पौषधोपसादि विधायामावसीदिने। भावोद्योतेगते द्रव्योद्योतदीपालिकां व्यधुः।
शिष्टं सर्वं G प्रत इव ॥ शरयुगशिखिशशिवर्षे शिष्यः श्रीरत्नसिंहसूरीणां श्रीविनयचन्द्रसूरिश्चक्रे दीपालिकाकल्पम् । इति दीपालिकाकल्प: संपूर्णः शुभं भवतु कल्याणमस्तु । संवत् १६५६ । वर्षे कार्तिक सुदि १३ संपूर्णम् । ग्रं-३१६ K प्रभोर्देहस्य संस्थार(संस्कार?)क्रियां गोशीर्षचन्दनैः ।
देवेन्द्रः कारयामास पुष्पवृष्ट्यादिपूर्वकम् ॥६२।। इतश्च स्वामिनो मोक्षं श्रुत्वा श्रीगौतमः प्रभुः । अचिन्तयदिदं चित्ते निर्ममः कीदृशो जिनः ॥६३।। ईदृशे निर्ममे वीरे मुधा मोहं दधाम्यहम् । येन निर्वाणसमये स्वस्यात्र प्रेषितोऽमुना ॥६४॥ निर्मोहभावनामित्थमिन्द्रभूतेर्गणेशितुः । भावयतोऽजायत क्षिप्रं केवलज्ञानमुज्ज्वलम् ॥६५॥ सुरेन्द्रप्रमुखैर्देवैस्ततो निःप्रतिमो महः । वितेने हर्षकल्लोललीलोल्लासितमानसः ॥६६।। ततश्च धरणीपीठे प्रथमो गणनायकः । निजहार चिरं(?) भूरि भव्यजीवप्रबोधकः ॥६७।। इति दीपालिकाकल्पः ।। L जगद्गुरुं पुनर्नत्वा व्याख्यायितदृशः सुराः ।
अरेतस्थस्थिते(?) शोचन्तः स्वमनाथकम् ॥२७२।। शक्रोऽथ धैर्यमालम्ब्य चन्दनादिवनाहृतैः ।। गोशीर्षचन्दनादिभिः शक्र उत्तरक्रियां प्रभोः कारयामास ॥२७३।।
इतश्च प्रभो निर्वाणं श्रुत्वाथ श्रीगौतम ईदृशे निर्ममे कथं ममत्वं क्रियते इति चिन्तयतः केवलमुत्पेदे । अत्र केवलमहिमा । अयं दीपालिकाकल्पः श्रीमहावीरचरित्रादुद्धृत श्री जिनप्रभसूर्यभिधमेधोभिः एकान्ते रचयिता । बीरोदशायांराभाभिवपुरस्तपयत्प्रभो (?) विलये पंचदिव्ये नागरागेण स्वयं हरिः । अनन्तरं केचन असंबद्धाः श्लोकाः दृश्यन्ते ।
दोषा समस्ताः प्रलयं प्रयान्तु , परोपकारं कलयन्तु सन्तः । श्रीसङ्घमुख्याः सुखिनो भवन्तु , कल्याणवल्ली(ल्ल्यो) फलदा भवन्तु ॥ इति श्री दीपालिकाकल्पः कृतः श्रीजिनप्रभसूरिणा, लिपीकृतम् ऋ. केशरीचन्देन ॥
इति श्री दीपालिकाकल्पः कृतः श्रीजिनप्रभसूरीणाम् ।।
D:\chandan/new/kalp-1/pm5\3rd proof