SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ 10 ५२] [दीपालिकापर्वसंग्रहः ॥ सत्फलः सुमनोमालापूजितो जिनसन्निभः । महोदयप्रदो देव्या ददृशे कलशोत्तमः ॥६३।। जैनास्थानमिवोच्चक्रं राजहंसोपसेवितम् । सुप्रापामृतमैक्षिष्ट देवी पद्मसरोवरम् ॥६४॥ सम्यक्तत्त्वादिरत्नाढ्यं कल्लोलीकृतकेवलम् । स्वाम्याशयमिवासाद्यं साऽपश्यत् क्षीरसागरम् ॥६५॥ प्रभोः पूर्वभवस्नेहात् सहायकमिवानघम् । सर्वेन्द्रियाह्लादकरं सा विमानमवैक्षत ॥६६।। सुरशैलमिवोत्तुङ्ग तिग्मांशुमिव भास्वरम् । रत्नराशिमपश्यत् सा पुण्यराशिमिव प्रभोः ॥६७।। ज्योति?तितदिग्चक्रो धूतधूमादिकल्मषः । देव्या प्रभोः प्रभापिण्डसदृशो ददृशे शिखी ॥६८॥ नभसोऽवतीर्य स्वप्नानेतान् प्रविशतो मुखे । दृष्ट्वावधार्य सा राज्ञे मृद्वालापैर्व्यजिज्ञपत् ॥६९॥ राजाख्यत् स्वमतिज्ञानात् शृणु स्वप्नफलं प्रिये ! । कल्याणं सुखमारोग्यं भावी ते चोत्तमः सुतः ॥७०।। श्रुत्वेति त्रिशला तुष्टा बद्धाञ्जलिरदोऽवदत् । इष्टं युष्माभिरादिष्टं सत्यं चावितथं प्रभो ! ॥७१॥ अथानुज्ञापिता राज्ञा राज्ञी स्वस्थानमाश्रिता । धर्मजागरतः शेषां रजनीमत्यवाहयत् ॥७२।। सज्जयित्वा नृपो बाह्यां सभा कौटुम्बिकैः प्रगे । मल्लैः सार्धंनियुद्धेन स्वयं व्यायाममातनोत् ॥७३।। श्रमरोगहरैस्तेलैर्लक्षपाकादिभिस्ततः । त्वग्रोममांसास्थिसुखं (मांसास्थित्वग्रोमानां) छेकैश्चक्रे सुमर्दनम् ॥७४।। स्नात्वा गन्धजलैर्गन्धकाषायीरूक्षिताङ्गकः । देवदूष्यं परिधाय लिप्ताङ्गो हरिचन्दनैः ॥७५।। १. सारी रीते जलमां पडती घुमरी । २. अवसरज्ञैः पुरुषैः । 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy