________________
४४]
[दीपालिकापर्वसंग्रहः ॥
एकदा क्षालयाराइयाकारित आर्हतो रथः । मिथ्यादृष्टया ते सपत्न्या लक्ष्या ब्रह्मरथः पुनः ॥३७|| रथाकृष्टतयोर्वादे राजा द्वावप्यवारयत् । मातुर्वीक्ष्यापमानं नु पद्मो देशान्तरं ययौ ॥३८॥ ऊढा मदनावलीको जितषट्खण्डभारतः । महापद्मः पुरायातः पिता राज्ये न्यवेश्यत ॥३९।। समं विष्णुकुमारेण स्वयं पद्मोत्तरो नृपः । सुव्रताचार्यपदान्ते प्रव्रज्य च दिवं ययौ ॥४०॥ मुनिर्विष्णुकुमारस्य षष्टिवर्षशतान्यथ । तपस्यतः समुत्पन्ना लब्धयो विक्रियादिका ॥४१।। चक्रवर्ती महापद्मो अर्हच्चैत्यै भूषितावनिः । मातुर्मनोरथापूत्र्यै रथयात्रोत्सवं व्यधात् ॥४२।। ययाचे नमुची राज्यं वरेणाथ कृतो कृते । चक्री च तस्मै तद् दत्त्वा स्वयमन्तःपुरेऽविशत् ॥४३॥ तदा श्री सुव्रताचार्यो वर्षासु हस्तिनापुरे । चतुर्मासाभिग्रहेण तत्रास्थुः सपरिच्छदाः ॥४४|| अन्यदा नमुचिः सूरीन् दृष्ट्वा वैरमनुस्मरन् । अवोचल्लिङ्गिनः सर्वे त्वद्वजं मामुपस्थिताः ॥४५॥ स्थातव्यं तन्न मद्भूमौ सप्ताहोपरि साधुभिः । यः स्थाता तं हनिष्यामि सङ्ख पृष्ट्वाऽथ सूरिभिः ॥४६।। प्रहित्य मुनिमाहूतो विष्णुर्मेरुशिखास्थितः । नमुचिवर्जा राजानो विष्णुं वीक्ष्य ववन्दिरे ॥४७।। ऊचे विष्णुर्यान्ति पूर्णाभिग्रहा साधवः स्वयम् । तद्देहि कियती भूमिं ते ततोऽस्मै त्रिपदीमदात् ॥४८॥ लक्षयोजनदेहोऽभूद्विष्णुर्वैक्रियलब्धितः । क्रमौ पूर्वापरां बुध्यो न्यस्य विश्वमकम्पयत् ॥४९।। क्रमं तृतीयं नमुचेः पृष्ठेऽनिष्टमादधे(?) । क्षिप्रक्षिप्तत्रिविक्रमेणेति रसातलं बली रिपुः ॥५०॥ इन्द्रप्रहितं गन्धर्वगीतोपशमसान्वितः । विष्णुं स्वभावसंपन्नं चक्रवर्त्यादयोऽनमन् ॥५१॥
D:\chandan/new/kalp-1/pm5\3rd proof