SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ४२] [दीपालिकापर्वसंग्रहः ॥ 'जयश्रियं यच्छतु तुभ्यमेष दीपोत्सवाख्यः दिनचक्रवर्ती ।। समस्तविश्वत्रितयप्रदत्तराज्योत्सवः साधितवीरसिद्धिः ॥२७८।। इति श्रीदीपोत्सवकल्पः श्रीहेमाचार्यकृतः समाप्तः ॥* १. असौ श्लोक: F मध्येऽस्ति, अन्यत्र नास्ति । E गोशीर्षचन्दनादिभिः शक्रोत्तरक्रियां प्रभोः कारयामास इतश्च प्रभोनिर्वाणम् । श्रुत्वाथ श्रीगौतम ईदृशे निर्ममे कथं ममत्वं क्रियते । इति चिन्तयतः केवलमुत्पेदे गौतमः महिमा ॥६१॥ श्री महावीरचरित्रादुद्धृतः । संवत् १६३६ वर्षे मार्गशीर्ष वदि १३ दिने कर्पटवाणिज्यमहानगरे पं. लावण्यशीलगणिनाऽलेखि श्रीकल्पदीवालिकादिने वाचनार्थम् । शुभं भवतु । F गोशीर्षचन्दनादीन्यानाय्याभिर्योगिकैः सुरैः । सहोत्तरक्रियां देवैः कारयामास वासवः ॥६१।। शक्रेशानावूर्ध्वदंष्ट्रे दक्षिणे दक्षिणा ततः । अधोदंष्ट्रे तु चमरः बली जगृहतुः प्रभोः ॥६२।। शेषेन्द्राश्च देवाश्च दंतास्थीनि प्रमोदतः । नरास्तच्चिताभस्म जगृहुर्भक्तिपूर्वकम् ॥६३।। इतश्च प्रभुनिर्वाणं श्रुत्वा गणभृद्गौतमः । ईदृशे निर्ममे वीरे ममत्वं क्रियते कथम् ? ॥६४॥ इति चिन्तयतस्तस्य गौतमस्य महामुनेः । उत्पेदे केवलं ज्ञानं महाकारि सुरासुरैः ॥६५॥ निर्वीरां क्षितिमाप्य मोहचरटो लुण्ठन्नलं सर्वतो, दृष्टः श्रीगणनायकेन भणितो मे राज्यमेतन्न किम् । जानासि त्वमहो मुमूर्षुरधुना यासीति दूरे कियन्नष्टो दीपकरैर्जनैनिजगृहात्सर्पच्छलात् त्रास्यते ॥६६॥ [शादूर्ल...] जयश्रियं यच्छतु तुभ्यमेष दीपोत्सवाख्यः दिनचक्रवर्ती । समस्तविश्वत्रितयप्रदत्तराज्योत्सवः साधितवीरसिद्धिः ॥६७।। इति श्रीदीपालिकाकल्प: श्रीमहावीरचरित्रादुद्धृतः समाप्तः ॥ शुभं भवतु माङ्गल्यम् । संवत् १५५९ वर्षे कार्तिकमासे शुक्लपक्षे नवम्यां तिथौ निशापतिर्वासरेउ.श्री अभयचन्द्रेणालेखि। यादृशं पुस्तकं दृष्टं तादृशं लिखितं मया। यदि शुद्धमशुद्धं वा मम दोषो न दीयते ॥श्रीः।। G हिमाद्रितः समानीतैः गोशीर्षचन्दनादिभिः । शक्रोत्तरक्रियां सर्वां कारयामास तु प्रभोः ॥२२॥ D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy