________________
[४१
दीपोत्सवकल्पः ॥]
अपि सूक्ष्मं तनुयोगं, विनिरुध्य जगद्गुरुः । समुच्छिन्नक्रियं शुक्लध्यानं तुर्यं दधावथ ॥२६९।। पञ्चर्हस्वाक्षरोच्चारमितकालेन तेन तु । ध्यानेन तुर्येण तुर्यपुमर्थाव्यभिचारिणा ॥२७०।। एरण्डबीजवद्वन्धाभावादूर्ध्वगतिः प्रभुः । यथा स्वभावऋजुना मोक्षमेकमुपाययौ ॥२७१।। निर्वाणे स्वामिनि ज्ञानदीपके द्रव्यदीपकान् । तदानीं रचयामासुः, सर्वेऽपि पृथिवीभुजः ॥२७२।। तदाप्रभृति लोकेऽपि, पर्व दीपोत्सवाभिधम् । सर्वतो दीपकरणात् , तस्यां रात्रौ प्रवर्त्तते ॥२७३॥ गोशीर्षचन्दनादीनि, चानाय्योत्तरसङ्क्रियाम् । श्रीवीरजिनदेहस्य, कारयामास वासवः ॥२७४॥ *इतश्च प्रभुनिर्वाणं, श्रुत्वा चेतस्यचिन्तयत् । 'ईदृशे निर्ममे वीरे ममत्वं क्रियते कथम्' ? ॥२७५।। इति चिन्तयतस्तस्य, गौतमस्य महामुनेः । उत्पेदे केवलज्ञानं महाकारि सुरासुरैः ॥२७६।। निर्वीरां क्षितिमाप्य मोहचरटो लण्ठन्नलं सर्वतो. दृष्टः श्रीगणनायकेन भणितो मे राज्यमेतन्न किम् ? । जानासि त्वमहो मुमूर्षुरधुना यासीति दूरे कियन्नष्टो दीपकरैर्जनैनिजगृहात् सर्पच्छला त्रास्यते ॥२७७।। [शार्दूल...]
20
१. ततः पञ्च B। २. एरण्डफलवत् ।। ३. सर्वदीप B। ४. श्लोकोऽयं A, C, D, G, H, K, L मध्ये नास्ति, २७४ तः २७८ पर्यन्तं श्लोकाः A, C, D मध्ये न सन्ति । ५. केवलज्ञानमुज्ज्वलं तत्रोत्पेदे गौतमस्य महिमाऽकारि सुरासुरैः । B। ६. श्लोकोऽयं केवलं A, I मध्ये अस्ति । ७. अत्र चतुर्थपादे जनैः - इति पदं न दृश्यते।।
** इतश्च प्रभो निर्वाणं० ॥२७५।। इति श्लोकानन्तरं भिन्नभिनप्रतिषु यो यावान् पाठ दृश्यते तदत्रोधृत्य प्रकाश्यते।
D इतश्च प्रभोनिर्वाणं श्रुत्वाऽथ गौतम ईदृशे निर्ममे कथं ममत्वं क्रियते । इति चिन्तयतः केवलज्ञानमुत्पेदे भगवतः । अत्र केवली महिमा विदधे श्री गौतमस्य सुरेन्द्रादिभिः देवैः । श्रीमहावीरचरितादुद्धृतश्रीदीपोत्सवकल्पः समाप्तः ।
D:\chandan/new/kalp-1/pm5\3rd proof