________________
5
10
15
20
25
३८ ]
सप्तमो नन्दजीवस्तु, जिनेन्द्र उदयाह्वयः । सुनन्दजीवोऽष्टमोऽर्हन् पेढाल इति नामतः || २३४॥ नवमः केकसीजीवो, जिनेन्द्रः पोट्टिलाभिधः । दशमो रेयलिजीवः शतकीर्त्तिर्जिनेश्वरः ॥ २३५॥ अर्हन् सत्यकिजीवश्चैकादशः सुव्रताभिधः । द्वादशोऽर्हन्नममाख्यो जीवः कृष्णस्य शार्ङ्गिणः ॥२३६॥ बलदेवस्य जीवोऽर्हन्निष्कषायस्त्रयोदशः । जिनेन्द्रो रोहिणीजीवो निष्पुलाकश्चतुर्द्दशः ||२३७॥ निर्ममः सुलसाजीवो, जिनः पञ्चदशः पुनः । षोडशो रेवतीजीवत्रिगुप्तोऽभिधानतः ||२३८|| गवालिजीवः समाधिर्नाम्ना सप्तदशो जिनः । जीवश्च गार्गलेरष्टादशोऽर्हन् संवराभिधः ॥ २३९ ॥ द्वीपायनजीवस्त्वेकोनविंशोऽर्हन् यशोधरः । विजयो विंशतितमः कर्णजीवो जिनेश्वरः ॥ २४०॥ एकविंशो जिनो मल्लो, यः पुरा नारदोऽभवत् । अम्बडस्य पुनर्जीवो द्वाविंशो देवतीर्थकृत् ॥२४१॥ त्रयोविंशोऽनन्तवीर्यो, जीवो द्वारदमस्य च । स्वातिजीवश्चतुर्विंशो भद्रकृन्नामतीर्थकृत् ॥२४२॥ भाविचक्रिणः -
दीर्घदन्तो गूढदन्तः, शुद्धदन्तस्तृतीयकः । तथा श्रीचन्द्रः श्रीभूतिः श्रीसोमः पद्म इत्यपि ॥ २४३॥ मुहापद्मो देशमाख्यस्तथा विमल इत्यपि ।
विमलवाहनोऽरिष्टो भाविनोऽमी च चक्रिणः ॥ २४४॥ युग्मम् |
भाविवासुदेवाः
-
[ दीपालिकापर्वसंग्रहः ॥
नन्दिश्च नैन्दिमित्रं, तथा सुन्दरबाहुकः ।
महाबाहू रेतिबलो, महाबलबलावपि ॥२४५॥
१. आनन्दजीवो B | २. नवमो नन्दकीजीवो A । नवमो आनन्दजीवो B। ३. निः कषाय, A,
B | ४. नि:पुलाक. A ५. द्वारमदस्य तु B, C-२०० ।
D:\chandan/new/kalp-1 / pm5\ 3rd proof