________________
दीपोत्सवकल्पः ॥]
भविष्यन्ति सुखा वाता, ऋतवः सलिलानि च । तिर्यञ्चश्च मनुष्याश्च गतरोगा क्रमेण च ॥२२२॥ दुःषमान्ते भविष्यन्ति, मध्ये प्राग्भरतावनि । कुलकराः सप्त तत्राऽऽदिमो विमलवाहनः ||२२३|| सुदामा सङ्गमश्चापि, सुपार्श्वश्च चतुर्थकः । दत्तश्च सुमुखश्चैव सुमुचिश्चेति ते क्रमात् ॥२२४॥ तंत्र जातिस्मरः पूँर्वं, नाम्ना विमलवाहनः । निवेशयिष्यति ग्रामपुरादीन् राज्यहेतवे ॥२२५॥ सङ्ग्रहीष्यति गोगजाश्वाद्यथ व्यञ्जयिष्यति । शिल्पानि व्यवहारं च लिपीश्च गणितानि च ॥ २२६ ॥ उत्पन्ने दुग्धदध्यादौ, सस्येषु ज्वलनेऽपि च । हितकामी स प्रजानां रन्धनाद्युपदेक्ष्यति ॥ २२७।। भाविनश्चतुर्विंशतितीर्थपतयः -
दुःषमायामतीतायां, शतद्वारे महापुरे। भद्रानाम्न्यां महादेव्यां सुमुचेः पृथिवीपतेः ॥२२८॥ नन्दनः श्रेणिकजीवो, भविष्यत्याद्यतीर्थकृत् । पद्मनाभाभिधस्तुल्यो, जन्ममानादिना मम ॥ २२९॥ अतः परं पूर्ववच्च, भविष्यन्ति जिनेश्वराः । प्रातिलोम्येन पूर्वार्हत्समाः सर्वेऽप्यमी क्रमात् ॥२३०|| तत्र श्रेणिकराड्जीवः, पद्मनाभो जिनेश्वरः । सुपार्श्वजीवो भगवान् सूरदेवो द्वितीयकः ॥२३१॥ तृतीयः पोट्टिलजीवः, सुपार्श्वजिनपुङ्गवः । जीवो दृढायुषस्तुर्यस्तीर्थनाथः स्वयम्प्रभुः ॥२३२॥ कार्त्तिकस्य जीवः, सर्वानुभूतिरिति पञ्चमः । जीवः शङ्खस्य षष्ठोऽर्हन् देवश्रुतोऽभिधानतः ||२३३॥
[ ३७
१. सम्मुचि । २. तदा A । ३. जातिस्मृतिपूर्वं B, ० पूर्वो IIC १८३ । ४. हितकामी प्रजानां सः A । ५. शतद्वारमहापुरे A । ६. सुमुचे: B, सम्मुच्चे: IIC - १८६ I D, I ७. सुपार्श्वो ॥C-१९०॥ ८. स्वयंप्रभः A ।
D:\chandan/new/kalp-1 / pm5\ 3rd proof
5
10
15
20
25