SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ३६] [दीपालिकापर्वसंग्रहः ॥ तत्रैत्य निशि मत्स्यादीन् , कृष्ट्वा मोक्ष्यन्ति च स्थले । दिवा सूर्यत्विषा पक्वान् , खादिष्यन्ति निशान्तरे ॥२११।। एवं सदापि भोक्ष्यन्ते, यद्दध्यादि तदा न हि । न पुष्पं न फलं नान्नं न च शय्यासनादिकम् ॥२१२॥ भरतैरावतेष्वेवं दशस्वपि हि दुःषमा । तथाऽतिदुःषमाऽप्येकविंशत्यब्दसहस्रिका ॥२१३।। उत्सर्पिणीकालनिरूपणम् - अरौ याववसर्पिण्यामन्त्योपान्त्यावुभौ च तौ । उत्सर्पिणी स्वकीयानुभावाद्यद्वितीयकौ ॥२१४।। उत्सर्पिण्यां दु:षमादौ समये पुनरम्बुदाः । भाविनः पञ्च सप्ताहवर्षिणस्ते पृथक् पृथक् ॥२१५।। तत्राद्यः पुष्करो नाम महीं निर्वापयिष्यति । द्वितीयः क्षीरमेघाख्यो धान्यान्युत्पादयिष्यति ॥२१६।। तृतीयो घृतमेघाख्यः स्नेहं सञ्जनयिष्यति । तुर्यस्त्वमृतमेघाख्य ओषध्यादि करिष्यति ॥२१७॥ पृथ्व्यादीनां रसं कर्ता रसमेघश्च पञ्चमः । पञ्चविंशद्दिनीं वृष्टिर्भाविनी सौम्य ! दुर्दिना ॥२१८।। द्रुमौषधिलतावल्लीहरितादि निरीक्ष्य च । बिलेभ्यो निःसरिष्यन्ति मुदिता बिलवासिनः ॥२१९।। ते वक्ष्यन्ति भरतभूरभूत् पुष्पफलादिभृत् । भक्ष्यं नातः परं मांसं त्याज्यो मांसादिकश्च यः ॥२२०।। यथा यथैष्यति कालो वर्धिष्यन्ति तथा तथा । रूपसंहननायूंषि धान्यादीनि च भारते ॥२२१॥ 15 20 १. ते बहि: A । २. भरतैरवतेष्वेवं ॥C-१७१।। भरतैरावतैष्वेवं B। ३. तथाहि दुःषमा A । तथा दुःषमा B| ४. उत्सपिण्यां B| ५. दुषम-दुःषमान्तसमयेऽम्बुदाः ।।C-१७३।। ६. पञ्चपञ्चाहवर्षिणस्ते A । ७. औषध्यादि B। ८. श्लोकोऽयं न मध्ये नास्ति । ९. रसमेघाश्च B। १०. पञ्चविंशदिना वृष्टि० A। पञ्चत्रिंशद्दिना वृष्टि० B । ११. वय॑न्ति |C-१७९।। D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy